भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 3

3.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रेवामाहात्म्यवर्णनंनाम द्वितीयो ऽध्यायः ॥
र्क्व् अध्याय 3
युधिष्ठिर उवाच:
सप्तकल्पक्षया घोरास्त्वया दृष्टा महामुने ।
न चापीहास्ति भगवन्दीर्घायुरिह कश्चन

3.2

त्वया ह्येकार्णवे सुप्तः पद्मनाभः सुरारिहा ।
दृष्टः सहस्रचरणः सहस्रनयनोदरः

3.3

त्वं किलानुग्रहात् तस्य दह्यमाने चराचरे ।
न क्षयं समनुप्राप्तो वरदानान्महात्मनः

3.4

किं त्वयाश्चर्यभूतं हि दृष्टं च भ्रमतानघ ।
एतदाचक्ष्व भगवन्परं कौतूहलं हि मे

3.5

सम्प्राप्ते च महाघोरे युगस्यान्ते महाक्षये ।
अनावृष्टिहते लोके पुरा वर्षशताधिके

3.6

औषधीनां क्षये घोरे देवदानववर्जिते ।
निर्वीर्ये निर्वषट्कारे कलिना दूषिते भृशम्

3.7

सरित्सरस्तडागेषु पल्वलोपवनेषु च ।
संशुष्केषु तदा ब्रह्मन्निराकारे युगक्षये

3.8

जनं प्राप्ते महर्लोके ब्रह्मक्षत्रविशादयः ।
ऋषयश्च महात्मानो दिव्यतेजःसमन्विताः

3.9

स्थितानि कानि भूतानि गतान्येव महामुने ।
एतत्सर्वं महाभाग कथयस्व पृथक्पृथक्

3.10

भूतानि कानि विप्रेन्द्र कथं सिद्धिम् अवाप्नुयात् ।
ब्रह्मविष्ण्विन्द्ररुद्राणां काले प्राप्ते सुदारुणे

3.11

एवमुक्तस् ततः सो ऽथ धर्मराजेन धीमता ।
मार्कण्डः प्रत्युवाचेदमृषिसंघैः समावृतः

3.12

श्रीमार्कण्डेय उवाच:
शृण्वन्तु ऋषयः सर्वे त्वया सह नरेश्वर ।
महत्पुराणं पूर्वोक्तं शंभुना वायुदैवते

3.13

वायोः सकाशात्स्कन्देन श्रुतमेतत्पुरातनम् ।
वसिष्ठः श्रुतवांस्तस्मात् पराशरस्ततः परम्

3.14

तस्माच्च जातूकर्ण्येन तस्माच्चैव महर्षिभिः ।
एवं परम्पराप्रोक्तं शतसंख्यैर् द्विजोत्तमैः

3.15

संहिता शतसाहस्री पुरोक्ता शंभुना किल ।
आलोड्य सर्वशास्त्राणि वदार्थं तत्त्वतः पुरा

3.16

युगरूपेण सा पश्चाच् चतुर्धा विनियोजिता ।
मदप्रज्ञानुसारेण नराणां तु महर्षिभिः

3.17

आराध्य पशुभर्तारं मया पूर्वं महेश्वरम् ।
पुराणं श्रुतमेतद्धि तत्ते वक्ष्याम्यशेषतः

3.18

यच्छ्रुत्वा मुच्यते जन्तुः सर्वपापैर्नरेश्वर ।
मानसैः कर्मजैश्चैव सप्तजन्मसु संचितैः

3.19

सप्तकल्पक्षया घोरा मया दृष्टाः पुनःपुनः ।
प्रसादाद्देवदेवस्य विष्णोश्च परमेष्ठिनः

3.20

द्वादशादित्यनिर्दग्धे जगत्येकार्णवीकृते ।
श्रान्तो ऽहं विभ्रमंस् तत्र तरन्बाहुभिर् अर्णवम्

3.21

अथाहं सलिले राजन्नादित्यसमरूपिणम् ।
पुरा पुरुषमद्राक्षमनादिनिधनं प्रभुम्

3.22

शृङ्गं चैवाद्रिराजस्य भासयन्तं दिशो दश ।
द्वितीयो ऽन्यो मनुर्दृष्टः पुत्रपौत्रसमन्वितः

3.23

अगाधे भ्रमते सो ऽपि तमोभूते महार्णवे ।
अविश्रमन्मुहूर्तं तु चक्रारूढ इव भ्रमन्

3.24

अथाहं भयादुद्विग्नस्तरन्बाहुभिर् अर्णवम् ।
तत्रस्थोऽहं महामत्स्यम् अपश्यं मदसंयुतम्

3.25

ततो ऽब्रवीत्स मां दृष्ट्वा एह्येहीति च भारत ।
परं प्रधानः सर्वेषां मत्स्यरूपो महेश्वरः

3.26

ततो ऽहं त्वरया गत्वा तन्मुखे मनुजेश्वर ।
सुश्रान्तो विगतज्ञानः परं निर्वेदमागतः

3.27

ततो ऽद्राक्षं समुद्रान्ते महदावर्तसंकुलाम् ।
उद्यत्तरंगसलिलां फेनपुञ्जाट्टहासिनीम्

3.28

नदीं कामगमां पुण्यां झषमीनसमाकुलाम् ।
नद्यास्तस्यास्तु मध्यस्था प्रमदा कामरूपिणी

3.29

नीलोत्पलदलश्यामा महत्प्रक्षोभवाहिनी ।
दिव्यहाटकचित्राङ्गी कनकोज्ज्वलशोभिता

3.30

द्वाभ्यां संगृह्य जानुभ्यां महत्पोतं व्यवस्थिता ।
तां मनुः प्रत्युवाचेदं का त्वं दिव्यवराङ्गने

3.31

तिष्ठसे केन कार्येण त्वमत्र सुरसुन्दरि ।
सुरासुरगणे नष्टे भ्रमसे लीलयार्णवे

3.32

सरितः सागराः शैलाः क्षयं प्राप्ता ह्यनेकशः ।
त्वमेका तु कथं साध्वि तिष्ठसे कारणं महत् ।
श्रोतुमिच्छाम्यहं देवि कथयस्व ह्यशेषतः

3.33

अबलोवाच:
ईश्वराङ्गसमुद्भूता ह्यमृतानाम विश्रुता ।
सरित्पापहरा पुण्या मामाश्रित्य भयं कुतः

3.34

साहं पोतमिमं तुभ्यं गृहीत्वा ह्यागता द्विज ।
न ह्यस्य पोतस्य क्षयो यत्र तिष्ठति शंकरः

3.35

तस्यास् तद् वचनं श्रुत्वा विस्मयोत्फुल्ललोचनः ।
मनुना सह राजेन्द्र पोतारूढो ह्यहं तदा

3.36

कृताञ्जलिपुटो भूत्वा प्रणम्य शिरसा विभुम् ।
व्यापिनं परमेशानमस्तौषमभयप्रदम्

3.37

सद्योजाताय देवाय वामदेवाय वै नमः ।
भवे भवे नमस्तुभ्यं भक्तिगम्याय ते नमः

3.38

भूर्भुवाय नमस्तुभ्यं रामज्येष्ठाय वै नमः ।
नमस्ते भद्रकालाय कलिरूपाय वै नमः

3.39

अचिन्त्याव्यक्तरूपाय महादेवाय धामने ।
विद्महे देवदेवाय तन्नो रुद्र नमोनमः

3.40

जगत्सृष्टिविनाशानां कारणाय नमोनमः ।
एवं स्तुतो महादेवः पूर्वं सृष्टया मयानघ

3.41

प्रसन्नो मावदत् पश्चाद्वरं वरय सुव्रत

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc