रेवाखाण्ड (संशोधित पाठ) · अध्याय 38
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे देवतीर्थमाहात्म्यवर्णनं नाम सप्तविंशो ऽध्यायः ॥
र्क्व् अध्याय 38
श्रीमार्कण्डेय उवाच:
ततो गच्छेत राजेन्द्र गुहावासीति चोत्तमम् ।
यत्र सिद्धो महादेवो गुहावासी समार्बुदम्
युधिष्ठिर उवाच:
केन कार्येण भो तात महादेवो जगद्गुरुः ।
गुहायाम् अनयत्कालं सुदीर्घं द्विजसत्तम
एतद्विस्तरतः सर्वं कथयस्व ममानघ ।
श्रोतुमिच्छाम्यहं सर्वपरं कौतूहलं हि मे
मार्कण्डेय उवाच:
साधु प्रश्नो महाराज पृष्टो यो वै त्वयोत्तमः ।
पुराणे विस्तरो ह्यस्य न शक्यो हि मयाधुना
कथितुं वृद्धभावत्वादतीतो बहुकालिकः ।
संक्षेपात् तेन ते तात कथयामि निबोध मे
पुरा कृतयुगे राजन्नासीद् दारुवनं महत् ।
नानाद्रुमलताकीर्णं नानावल्ल्युपशोभितम्
सिंहव्याघ्रवराहैश्च गजैः खड्गैर्निषेवितम् ।
बहुपक्षियुतं दिव्यं यथा चैत्ररथं वनम्
तत्र केचिन् महाप्राज्ञा वसन्ति संशितव्रताः ।
वसन्ति परया भक्त्या चतुराश्रमभाविताः
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस् तथा ।
स्वधर्मनिरताः सर्वे वाञ्छन्तः परमं पदम्
तावद्वसन्तसमये कस्मिंश्चित् कारणान्तरे ।
विमानस्थो महादेवो गच्छन्वै ह्युमया सह
ददर्श तोय आवासमृक्सामयजुर्नादितम् ।
अलक्ष्यागतनिर्गम्यं सर्वपापक्षयंकरम्
तं दृष्ट्वा मुदिता देवी हर्षगङ्गदया गिरा ।
पप्रच्छ देवदेवेशं शशाङ्ककृतभूषणम्
देव्युवाच:
कस्यायमाश्रमो देव वेदध्वनिनिनादितः ।
यं दृष्ट्वा क्षुत्पिपासाद्यैः श्रमैश्च परिहीयते
महेश्वर उवाच:
किं त्वया न श्रुतं देवि महादारुवनं महत् ।
बहुविप्रजनो यत्र गृहधर्मेण वर्तते
अत्र यः स्त्रीजनः कश्चिद् भर्तृशुश्रूषणे रतः ।
नान्यो देवो न वै धर्मो ज्ञायते शैलनन्दिनि
एतच्छ्रुत्वा परं वाक्यं देवदेवेन भाषितम् ।
कौतूहलसमाविष्टा शङ्करं पुनरब्रवीत्
यत्त्वयोक्तं महादेव पतिधर्मरताः स्त्रियः ।
तासां त्वं मदनो भूत्वा चारित्रं क्षोभय प्रभो
ईश्वर उवाच:
यत्त्वयोक्तं च वचनं न हि मे रोचते प्रिये ।
ब्राह्मणा हि महद्भूतं न चैषां विप्रियं चरेत्
मन्युप्रहरणा विप्राश्चक्रप्रहरणो हरिः ।
चक्रात्क्रूरतरो मन्युस् तस्माद् विप्रं न कोपयेत्
न ते देवा न ते लोका न ते नगा न चासुराः ।
दृश्यन्ते त्रिषु लोकेषु ये तैर्दृष्टैर् न नाशिताः
तेषां मोक्षस् तथा स्वर्गो भूमिर्मर्त्ये फलानि च ।
येषां तुष्टा महाभागा ब्राह्मणाः क्षितिदेवताः
एवं ज्ञात्वा महाभागे असद्ग्राहं परित्यज ।
तत्र लोके विरुद्धं वै कुप्यन्ते येन वै द्विजाः
देव्युवाच:
नाहं ते दयिता देव नाहं ते वशवर्तिनी ।
अकृत्वाधश्व वै तासां मानं सुरसुपूजितम्
लोकलोके महादेव अशक्यं नास्ति ते प्रभो ।
क्रियतां मम चैवैकम् एतत् कार्यं सुरोत्तम
एवमुक्तो महादेवो देव्या वाक्यहिते रतः ।
कृत्वा कापालिकं रूपं ययौ दारुवनं प्रति
महाहितजटाजूटं नियम्य शशिभूषणम् ।
कण्ठत्राणं परं कृत्वा धारयन् कर्णकुण्डले
व्याघ्रचर्मपरीधानो मेखलाहारभूषितः ।
नूपुरध्वनिनिघोषैः कम्पयन् वै वसुंधराम्
महानूर्द्ध्वजटामाली कृत्तिभस्मानुलेपनः ।
कृत्वा हस्ते कपालं तु ब्रह्मणश्च महात्मनः
महाडमरुघोषेण कम्पयन् वै वसुंधराम् ।
प्रभातसमये प्राप्तो महादारुवनं प्रति
तावत् पुण्यजनः सर्वपुष्पपत्रफलार्थिकः ।
निर्गतो बहुभिः सार्द्धं पवमानः समन्ततः
तद् दृष्ट्वा महदाश्चर्यं रूपं देवस्य भारत ।
युवतीनां मनस् तासां कामेन कलुषीकृतम्
शोभनं पुरुषं दृष्ट्वा सर्वा अपि वराङ्गनाः ।
क्लेदभावं ततो जग्मुर्मुदा दारुवनस्त्रियः
विकारा बहवस्तासां देवं दृष्ट्वा महाद्भुतम् ।
संजाता विप्रपत्नीनां तदा तासु नरोत्तम
परिधानं न जानन्ति काश्चिद् दृष्ट्वा वराङ्गनाः ।
उत्तरीयं तथा चान्या महामोहसमन्विताः
केशभारपरिभ्रष्टा काचिदेवासनोत्थिता ।
दातुकामा तदा भैक्ष्यं चेष्टितुं नैव चाशकत्
काचिद् दृष्ट्वा महादेवं रूपयौवनगर्विता ।
उत्सङ्गे संस्थितं बालं विस्मृता पायितुम् स्तनम्
कामबाणहता चान्या बाहुभ्यां पीड्य सुस्तनौ ।
निःश्वसन्ती तदा चोष्णं न किंचित् प्रतिजल्पति
एवं संक्षोभ्य तं सर्वं स्त्रीजनं परमेश्वरः ।
जगाम तत्र वै तासां क्षोभं कृत्वा महाद्भुतम्
तावत् ते ब्राह्मणाः सर्वे भ्रमित्वा काननं महत् ।
आगताः स्वगृहे दारान् ददृशुश् च हतौजसः
यासां पूर्वतरा भक्तिः पातिव्रत्ये पतीन्प्रति ।
चलितास्ता विदित्वाशु निर्जग्मुर्द्विजसत्तमाः
संविदं परमां कृत्वा ज्ञात्वा देवं महेश्वरम् ।
क्षोभयित्वा मनस्तासां ततश्चादर्शनं गतम्
क्रोधाविष्टो द्विजः कश्चिद् दण्डमुद्यम्य धावति ।
कल्माषयष्टिमन्ये च तथान्ये दर्भमुष्टिकाम्
इतश्चेतश्च ते सर्वे भ्रमित्वा काननं नृप ।
एकीभूत्वा महात्मानो व्याजह्रुश्च रुषा गिरम्
यद् इदं च हुतं किंचिद् गुरवस् तोषिता यदि ।
तेन सत्येन देवस्य लिङ्गं पततु चोत्तमम्
आश्रमाद् आश्रमं सर्वे न त्यजामो विधिक्रमात् ।
तेन सत्येन देवस्य लिङ्गं पततु भूतले
एवं सत्यप्रभावेन त्रिरुक्तेन द्विजन्मनाम् ।
शिवस्य पश्यतो लिङ्गं पतितं धरणीतले
हाहाकारो महानासील्लोकालोके ऽपि भारत ।
देवस्य पतिते लिङ्गे जगतश्च महाक्षये
पतमानस्य लिङ्गस्य शब्दो ऽभूच्च सुदारुणः ।
उल्कापाता दिशां हाहा भूमिकम्पाश्च दारुणाः
पतन्ति पर्वताग्राणि शोषं यान्ति च सागराः ।
देवस्य पतिते लिङ्गे देवा विमनसो ऽभवन्
समेत्य सहिताः सर्वे ब्रह्माणं परमेष्ठिनम् ।
कृताञ्जलिपुटाः सर्वे स्तुवन्ति विविधैः स्तवैः
ततस् तुष्टो जगन्नाथश् चतुर्वदनपङ्कजः ।
आर्तान्प्राह सुरान्सर्वान्मा विषादं गमिष्यथ
ब्रह्मशापाभिभूतो ऽसौ देवदेवस्त्रिलोचनः ।
तुष्टैस्तैस्तपसा युक्तैः पुनर्मोक्षं गमिष्यति
एतच्छ्रुत्वा ययुर्देवा यथागतमरिन्दम ।
भावयित्वा ततः सर्वे मुनयश्चैव भारत
विश्वामित्रवसिष्ठाद्या जाबालिरथ कश्यपः ।
समेत्य सहिताः सर्वे तमूचुस् त्रिपुरान्तकम्
ब्रह्मतेजो हि बलवद्द्विजानां हि सुरेश्वर ।
क्षान्तियुक्तस्तपस्तप्त्वा भविष्यसि गतक्लमः
यतः क्षोभादृषीणां च तदेवं लिङ्गमुत्तमम् ।
पतितं ते महादेव न तत्पूज्यं भविष्यति
न तच्छ्रेयो ऽग्निहोत्रेण नाग्निष्टोमेन लभ्यते ।
प्राप्नुवन्ति च यच्छ्रेयो मानवा लिङ्गपूजने
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
वचनेन तु विप्राणाम् एतत् पूज्यं भविष्यति
ब्रह्मविष्ण्विन्द्रचन्द्राणाम् एतत् पूज्यं भविष्यति ।
यत्फलं तव लिङ्गस्य इह लोके परत्र च
एवमुक्तो जगन्नाथः प्रणिपत्य द्विजोत्तमान् ।
मुदा परमया युक्तः कृताञ्जलिर् अभाषत
ब्राह्मणा जङ्गमं तीर्थं निर्जलं सार्वकामिकम् ।
येषां वाक्योदकेनैव शुध्यन्ति मलिनो जनाः
न तत्क्षेत्रं न तत्तीर्थमूषरं पुष्कराणि च ।
ब्राह्मणे मन्युमुत्पाद्य यत्र गत्वा स शुध्यति
न तच्छास्त्रं यन्न विप्रप्रणीतं न तद् दानं यन्न विप्रप्रदेयम् ।
न तत्सौख्यं यन्नविप्रप्रसादान्न तद्दुःखं यन्न विप्रप्रकोपात्
पृथिव्यां यानि तीर्थानि गङ्गाद्याः सरितस् तथा ।
एकस्य विप्रवाक्यस्य कलां नार्हन्ति षोडशीम्
अभिनन्द्य द्विजान्सर्वाननुज्ञातो महर्षिभिः ।
ततो ऽगमत् तदा देवो नर्मदातटमुत्तमम्
परमं व्रतमास्थाय गुहावासी समार्बुदम् ।
तपश्चचार भगवाञ्जपस्नानरतः सदा
समाप्ते नियमे तात स्थापयित्वा महेश्वरम् ।
वन्द्यमानः सुरैः सार्द्धं कैलासमगमत् प्रभुः
नर्मदायास् तटे तेन स्थापितः परमेश्वरः ।
तेनैव कारणेनासौ नर्मदेश्वर उच्यते
यो ऽर्चयेन्नर्मदेशानं यतिर् वै संजितेन्द्रियः ।
स्नात्वा चैव महादेवम् अश्वमेधफलं लभेत्
ददाति यः पितृभ्यस्तु तिलपुष्पकुशोदकम् ।
त्रिःसप्तपूर्वजास्तस्य स्वर्गे मोदन्ति पाण्डव
यस्तु भोजयते विप्रांस् तस्मिंस्तीर्थे नराधिप ।
पायसं घृतमिश्रं तु स लभेत् कोटिजं फलम्
सुवर्णं रजतं वापि ब्राह्मणेभ्यो युधिष्ठिर ।
ददाति तोयमध्यस्थः सो ऽग्निष्टोमफलं लभेत्
अष्टम्यांवा चतुर्दश्यां निराहारो वसेत् तु यः ।
नर्मदेश्वरमासाद्य प्राप्नुयाज्जन्मनः फलम्
अग्निप्रवेशं यः कुर्यात् तस्मिंस्तीर्थे नराधिप ।
तस्य व्याधिभयं न स्यात् सप्तजन्मसु भारत
अनाशकं तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप ।
अनिवर्तिका गतिस् तस्य रुद्रलोके भविष्यति
एष ते विधिर् उद्दिष्टस् तस्योत्पत्तिर् नरोत्तम ।
पुराणे विहिता तात संज्ञा तस्य तु विस्तरात्
एतं कीर्तयते यस्तु नर्मदेश्वरसम्भवम् ।
भक्त्या शृणोति च नरः सो ऽपि स्नानफलं लभेत्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0