भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 37

37.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दारुकतीर्थमाहात्म्यवर्णनं नाम षट्त्रिंशो ऽध्यायः ॥
र्क्व् अध्याय 37
श्रीमार्कण्डेय उवाच:
ततो गच्छेत राजेन्द्र देवतीर्थमनुत्तमम् ।
येन देवास्त्रयस्त्रिंशत् स्नात्वा सिद्धिं परां गताः

37.2

युधिष्ठिर उवाच:
कथं तात सुराः सर्वे दानवैर्बलवत्तरैः ।
निर्जितास्तत्र तीर्थे च स्नात्वा सिद्धिं परां गताः

37.3

मार्कण्डेय उवाच:
पुरा दैत्यगणैरुग्रैर्युद्धे ऽतिबलवत्तरैः ।
इन्द्रो देवगणैः सार्द्धं स्वराज्याच्च्यावितो नृप

37.4

हस्त्यश्वरथयानौघैर्मर्दयित्वा वरूथिनीम् ।
विध्वस्ता भेजिरे मार्गं प्रहारैर् जर्जरीकृताः

37.5

जम्भशुम्भैश्च कूष्माण्डकुहकादिभिः ।
वेपमानार्दिताः सर्वे ब्रह्माणमुपतस्थिरे

37.6

प्रणम्य शिरसा देवं ब्रह्माणं परमेष्ठिनम् ।
तदा विज्ञापयामासुर्देवा वह्निपुरोगमाः

37.7

पश्य पश्य महाभाग दानवैः शकलीकृताः ।
वियोजिताः पुत्रदारैस्त्वामेव शरणं गताः

37.8

परित्रायस्व देवेश सर्वलोकपितामह ।
नान्या गतिः सुरेशान त्वां मुक्त्वा परमेश्वर

37.9

ब्रह्मोवाच:
दानवानां विघातार्थं नर्मदातटम् आस्थिताः ।
तपः कुरुध्वं स्वस्थाः स्थ तपो हि परमं बलम्

37.10

नान्योपायो न वै मन्त्रो विद्यते न च मे क्रिया ।
विना रेवाजलं पुण्यं सर्वपापक्षयंकरम्

37.11

दारिद्र्यव्याधिमरणबन्धनव्यसनानि च ।
एतानि चैव पापस्य फलानीति मतिर्मम

37.12

एवं ज्ञात्वा ततश्चैव तपः कुरुत दुष्करम् ।
तथा चैव सुराः सर्वे देवा ह्यग्निपुरोगमाः

37.13

तच्छ्रुत्वा वचनं तथ्यं ब्रह्मणः परमेष्ठिनः ।
नर्मदाम् आगताः सर्वे देवा ह्यग्निपुरोगमाः

37.14

चेरुर्वै तत्र विपुलं तपः सिद्धिमवाप्नुवन् ।
तदाप्रभृति तत्तीर्थं देवतीर्थम् अनुत्तमम्

37.15

गीयते त्रिषु लोकेषु सर्वपापक्षयंकरम् ।
तत्र गत्वा च यो मर्त्यो विधिना संयतेन्द्रियः

37.16

स्नानं समाचरेद्भक्त्या स लभेन्मौक्तिकं फलम् ।
यस्तु भोजयते विप्रांस्तस्मिंस्तीर्थे नराधिप

37.17

स लभेन्मुख्यविप्राणां फलं साहस्रिकं नृप ।
तत्र देवशिला रम्या महापुण्यविवर्धिनी

37.18

संन्यासेन मृता ये तु तेषां स्याद् अक्षया गतिः ।
अग्निप्रवेशं यः कुर्यात् तस्मिंस् तीर्थे नराधिप

37.19

रुद्रलोके वसेत् तावद् यावद् आभूतसंप्लवम् ।
एवं स्नानं जपो होमः स्वाध्यायो देवतार्चनम्

37.20

सुकृतं दुष्कृतं वा ऽपि तत्र तीर्थे ऽक्षयं भवेत् ।
एष ते विधिरुद्दिष्ट उत्पत्तिश्चैव भारत

37.21

देवतीर्थस्य निखिला यथा वै शङ्कराच्छ्रुता ।
पठन्ति ये पापहरं सर्वदुःखविमोचनम्

37.22

देवतीर्थस्य चरितं देवलोकं व्रजन्ति ते

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc