भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 36

36.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मेघनादतीर्थमाहात्म्यवर्णनं नाम पञ्चत्रिंशो ऽध्यायः ॥
र्क्व् अध्याय 36
मार्कण्डेय उवाच:
ततो गच्छेच्च राजेन्द्र दारुतीर्थमनुत्तमम् ।
दारुको यत्र संसिद्ध इन्द्रस्य दयितः पुरा

36.2

युधिष्ठिर उवाच:
दारुकेण कथं तात तपश्चीर्णं पुरानघ ।
विधानं श्रोतुमिच्छामि त्वत्सकाशाद्द्विजोत्तम

36.3

श्रीमार्कण्डेय उवाच:
हन्त ते कथयिष्यामि विचित्रं यत्पुरातनम् ।
वृत्तं स्वर्गसभामध्ये ऋषीणां भावितात्मनाम्

36.4

सूतो वज्रधरस्येष्टो मातलिर्नाम नामतः ।
स पुत्रं शप्तवान्पूर्वं कस्मिंश्चित्कारणान्तरे

36.5

शापाहतो वेपमान इन्द्रस्य चरणौ शुभौ ।
प्रपीड्य मूर्ध्ना देवेशं विज्ञापयति भारत

36.6

तमुवाचाभिशप्तं चाप्यनाथं च सुरेश्वरः ।
कर्मणा केन शापस्य घोरस्यान्तो भविष्यति

36.7

नर्मदातटमाश्रित्य तोषयन्वै महेश्वरम् ।
तिष्ठ यावद् युगस्यान्तं पुनर्जन्म ह्यवाप्स्यसि

36.8

पुनर्भूत्वा तु पूतस्त्वं दारुको नाम विश्रुतः ।
संसेव्य परमं देवं शङ्खचक्रगदाधरम्

36.9

मानुषं भावमापन्नस्ततः सिद्धिमवाप्स्यसि ।
एवमुक्तस्तु देवेन सहस्राक्षेण धीमता

36.10

प्रणम्य शिरसा भूमिम् आगतो ऽसौ ह्यचेतनः ।
नर्मदातटमाश्रित्य कर्षयन्निजविग्रहम्

36.11

व्रतोपवाससंखिन्नो जपहोमरतः सदा ।
महादेवं महात्मानं वरदं शूलपाणिनम्

36.12

भक्त्या तु परया राजन्यावदाभूतसम्प्लवम् ।
अंशावतरणाद् विष्णोः सूतो भूत्वा महामतिः

36.13

तोषयन् वै जगन्नाथं ततो यातो हि सद्गतिम्

36.14

एष तत्सम्भवस्तात दारुतीर्थस्य सुव्रत ।
कथितो ऽयं मया पूर्वं यथा मे शङ्करो ऽब्रवीत्

36.15

ततो युधिष्ठिरः श्रुत्वा विस्मयं परमं गतः ।
भ्रात्ःन् विलोकयामास हृष्टरोमा मुहुर्मुहुः

36.16

श्रीमार्कण्डेय उवाच:
तस्मिंस्तीर्थे नरः स्नात्वा विधिपूर्वं नरेश्वर ।
उपास्य संध्यां देवेशमर्चयेद्यश्च शङ्करम्

36.17

वेदाभ्यासं तु तत्रैव यः करोति समाहितः ।
सो ऽश्वमेधफलं राजंल्लभते नात्र संशयः

36.18

तस्मिंस्तीर्थे तु यो भक्त्या भोजयेद् ब्राह्मणाञ्छुचिः ।
स तु विप्रसहस्रस्य लभते फलमुत्तमम्

36.19

स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ।
यत्कृतं शुद्धभावेन तत्सर्वं सफलं भवेत्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc