रेवाखाण्ड (संशोधित पाठ) · अध्याय 35
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रवितीर्थवर्णनं नाम चतुस्त्रिंशो ऽध्यायः ॥
र्क्व् अध्याय 35
युधिष्ठिर उवाच:
जलमध्ये महादेवः केन तिष्ठति हेतुना ।
उत्तरं दक्षिणं कूलं वर्जयित्वा द्विजोत्तम
श्रीमार्कण्डेय उवाच:
एतदाख्यानमतुलं पुण्यं श्रुतिमुखावहम् ।
पुराणे यच्छ्रुतं तात तत्ते वक्ष्याम्यशेषतः
त्रेतायुगे महाभाग रावणो देवकण्टकः ।
त्रैलोक्यविजयी रौद्रः सुरासुरभयंकरः
देवदानवगन्धर्वैर् ऋषिभिश्च तपोधनैः ।
अवध्यो ऽथ विमानेन यावत्पर्यटते महीम्
तावद्धिन्ध्यगिरेर् मध्ये दानवो बलदर्पितः ।
मयो नामेति विख्यातो गुहावासी तपश्चरन्
तस्य पार्श्वगतो रक्षो विनयाद् अवनिं गतः ।
पूजितो दानसन्मानैर् इदं वचनम् अब्रवीत्
कस्येयं पद्मपत्राक्षी पूर्णचन्द्रनिभानना ।
किंनामधेया तपति तप उग्रं कथं विभो
मय उवाच:
दानवानां पतिः श्रेष्ठो मयो ऽहं नाम नामतः ।
भार्या तेजोवती नाम तस्यास्तु तनया शुभा
मन्दोदरीति विख्याता तपते भर्तृकारणात् ।
आराधयन्ती भर्तारमुमाया दयितं शुभम्
तच्छ्रुत्वा वचनं तस्य रावणो मदमोहितः ।
प्रसृतः प्रणतो भूत्वा मयं वचनम् अब्रवीत्
पौलस्त्यान्वयसंजातो देवदानवदर्पहा ।
प्रार्थयामि महाभाग सुतां त्वं दातुमर्हसि
ज्ञात्वा पैतामहं वृत्तं मयेनापि महात्मना ।
रावणाय सुता दत्ता पूजयित्वा विधानतः
गृहीत्वा तां तदा रक्षो ऽभ्यर्च्यमानो निशाचरैः ।
देवोद्याने विमानैश्च क्रीडते स तया सह
केनचित्त्वथ कालेन रावणो लोकरावणः ।
पुत्रं पुत्रवतां श्रेष्ठो जनयामास भारत
तेनैव जातमात्रेण रावो मुक्तो महात्मना ।
संवर्तकस्य मेघस्य तेन लोका जडीकृताः
श्रुत्वा तन्नर्दितं घोरं ब्रह्मा लोकपितामहः ।
नाम चक्रे तदा तस्य मेघनादो भविष्यति
एवंनामा कृतः सो ऽपि परमं व्रतमास्थितः ।
तोषयामास देवेशमुमया सह शङ्करम्
व्रतैर्नियमदानैश्च होमजाप्यविधानतः ।
कृच्छ्रचान्द्रायणैर्नित्यं कृशं कुर्वन्कलेवरम्
एवम् अन्यद्दिने तात कैलासं धरणीधरम् ।
गत्वा लिङ्गद्वयं गृह्य प्रस्थितो दक्षिणामुखः
नर्मदातटम् आश्रित्य स्नातुकामो महाबलः ।
निक्षिप्य पूजयन् देवं कृतजाप्यो नरेश्वर
तत्रायतनावासेन स्नातो हुतहुताशनः ।
कृतकृत्यमिवात्मानं मानयित्वा निशाचरः
गन्तुकामः परं मार्गं लङ्कायां नृपसत्तम ।
एकमुद्धरतो लिङ्गं प्रणतः सव्यपाणिना
द्वितीयं तु द्वितीयेन भक्त्या पौलस्त्यनन्दनः ।
तावद् एव महालिङ्गं पतितं नर्मदांभसि
याहि याहीति चेत्युक्त्वा जलमध्ये प्रतिष्ठितः ।
नमित्वा रावणिस्तस्य देवस्य परमेष्ठिनः
जगामाकाशम् आविश्य पूज्यमानो निशाचरैः ।
तदा प्रभृति तत्तीर्थं मेघनादेति विश्रुतम्
पूर्वं तु गर्जनं नाम सर्वपापक्षयंकरम् ।
तस्मिंस्तीर्थे तु राजेन्द्र यस्तु स्नानं समाचरेत्
अहोरात्रोषितो भूत्वा अश्वमेधफलं लभेत् ।
पिण्डदानं तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप
यत्फलं सत्त्रयज्ञेन तद्भवेन्नात्र संशयः ।
तेन द्वादशवर्षाणि पितरः संप्रतर्पिताः
यस्तु भोजयते विप्रं षड्रसात्रेन भारत ।
अक्षयपुण्यम् आप्नोति तत्र तीर्थे नरोत्तम
प्राणत्यागं तु यः कुर्याद् भावितो भावितात्मना ।
स वसेच्छाङ्करे लोके यावद् आ भूतसम्प्लवम्
एषा ते नरशार्दूल गर्जनोत्पत्तिरुत्तमा ।
कथिता स्नेहबन्धेन सर्वपापक्षयकरी
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0