रेवाखाण्ड (संशोधित पाठ) · अध्याय 34
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ऽग्नितीर्थमाहात्म्यवर्णनं नाम त्रयस्त्रिंशो ऽध्यायः ॥
र्क्व् अध्याय 34
श्रीमार्कण्डेय उवाच:
तत्रैव तु भवेदन्यद् आदित्यस्य महात्मनः ।
कीर्तयामि नरश्रेष्ठ यदि ते श्रवणे मतिः
युधिष्ठिर उवाच:
एतदाश्चर्यमतुलं श्रुत्वा तव मुखोद्गतम् ।
विस्मयाद्धृष्टरोमाहं जातो ऽस्मि मुनिसत्तम
सहस्रकिरणो देवो हर्ता कर्ता निरञ्जनः ।
अवतारेण लोकानाम् उद्धर्ता नर्मदातटे
पुरुषाकारो भगवानुताहो तपसः फलात् ।
कस्य गोत्रे समुत्पन्नः कस्य देवो ऽभवद् वशी
श्रीमार्कण्डेय उवाच:
कुलिकान्वयसम्भूतो ब्राह्मणो भक्तिमाञ्छुचिः ।
ईक्ष्यामीति रविं तत्र तीर्थे यात्राकृतोद्यमः
योजनानां शतं साग्रं निराहारो गतोदकः ।
प्रस्थितो देवदेवेन स्वप्नान्ते वारितः किल
भोभो मुने महासत्त्व अलं ते व्रतमीदृशम् ।
सर्वं व्याप्य स्थितं पश्य स्थावरं जङ्गमं च माम्
तपाम्यहं ततो वर्षं निगृह्णाम्य् उत्सृजामि च ।
न भृतं चैव मृत्युं च यः पश्यति स पश्यति
वरं वरय भद्रं त्वम् आत्मनो यस्तवेप्सितम्
ब्राह्मण उवाच:
यदि तुष्टो ऽसि मे देव देयो यदि वरो मम ।
उत्तरे नर्मदाकूले सदा संनिहितो भव
ये भक्त्या परया देव योजनानां शते स्थिताः ।
स्मरिष्यन्ति जितात्मानस् तेषां त्वं वरदो भव
कुब्जान्धबधिरा मूका ये केचिद्विकलेन्द्रियाः ।
तव पादौ नमस्यन्ति तेषां त्वं वरदो भव
शीर्णघ्राणा गतधियो ह्यस्थिचर्मावशेषिताः ।
तेषां त्वं करुणां देव अचिरेण कुरुष्व ह
ये ऽपि त्वां नर्मदातोये स्नात्वा तत्र दिने दिने ।
अर्चयन्ति जगन्नाथ तेषां त्वं वरदो भव
प्रभाते ये स्तविष्यन्ति स्तवैर्वैदिकलौकिकैः ।
अभिप्रेतं वरं देव तेषां त्वं दद भोच्युत
तवाग्रे वपनं देव कारयन्ति नरा भुवि ।
स्वामिंस्तेषां वरो देय एष मे परमो वरः
एवमस्त्विति तं चोक्त्वा मुनिं करुणया पुनः ।
शतभागेन राजेन्द्र स्थित्वा चादर्शनं गतः
तत्र तीर्थे नरो भक्त्या गत्वा स्नानं समाचरेत् ।
तर्पयेत् पितृदेवांश्च सो ऽग्निष्टोमफलं लभेत्
अग्निप्रवेशं यः कुर्यात्तस्मिंस् तीर्थे नराधिप ।
द्योतयन्वै दिशः सर्वा अग्निलोकं स गच्छति
यस्तत्तीर्थं समासाद्य त्यजतीह कलेवरम् ।
स गतो वारुणं लोकमित्येवं शङ्करो ऽब्रवीत्
तत्र तीर्थे तु यः कश्चित् संन्यासेन तनुं त्यजेत् ।
षष्टिवर्षसहस्राणि स्वर्गलोके महीयते
अप्सरोगणसंकीर्णे दिव्यशब्दानुनादिते ।
उषित्वायाति मर्त्ये वै वेदवेदाङ्गविद् भवेत्
व्याधिशोकविनिर्मुक्तो धनकोटिपतिर्भवेत् ।
पुत्रदारसमोपेतो जीवेच्च शरदः शतम्
प्रातरुत्थाय यस्तत्र स्मरते भास्करं तदा ।
आजन्मजनितात् पापान् मुच्यते नात्र संशयः
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0