रेवाखाण्ड (संशोधित पाठ) · अध्याय 30
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कावेरीसङ्गममाहात्म्यवर्णनं नामैकोनत्रिंशो ऽध्यायः ॥
र्क्व् अध्याय 30
श्रीमार्कण्डेय उवाच:
नर्मदोत्तरकूले तु दारुतीर्थमनुत्तमम् ।
यत्र सिद्धो महाभाग तपस्तप्त्वा द्विजोत्तमः
युधिष्ठिर उवाच:
को ऽसौ द्विजवरश्रेष्ठः सिद्धस्तत्र महामुने ।
दारुकेति सुतः कस्य एतन्मे वक्तुम् अर्हसि
श्रीमार्कण्डेय उवाच:
भार्गवे विपुले वंशे धीमतो देवशार्मणः ।
दारुर्नाम महाभागो वेदवेदाङ्गपारगः
ब्रह्मचारी गृहस्थश्च वानप्रस्थो विधिक्रमात् ।
यतिधर्मविधानेन चचार विपुलतपः
ध्यायन्वै स महादेवं निराहारो युधिष्ठिर ।
उवास तीर्थे तस्मिन् वै यावत्प्राणपरिक्षयम्
तस्य नाम्ना तु तत्तीर्थं त्रिषु लोकेषु विश्रुतम् ।
तत्र स्नात्वा विधानेन अर्चयेत्पितृदेवताः
सत्यवादी जितक्रोधः सर्वभूतहिते रतः ।
सर्वान्कामान् अवाप्नोति राजन्नत्रैव सवर्था
यः कुर्याद् उपवासं च सत्यशौचपरायणः सौत्रामणिफलं चास्य सम्भवत्यविचारितम्
ऋग्वेदजापी ऋग्वेदी साम वा सामपारगः ।
यजुर्वेदी यजुर्जप्त्वा लभते फलम् उत्तमम्
प्राणांस् त्यजति यो मर्त्यस् तस्मिंस्तीर्थे विधानतः ।
अनिवर्तिका गतिस्तस्य इत्येवं शङ्करो ऽब्रवीत्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0