भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 29

29.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे त्रिपुरविध्वंसने ज्वालेश्वरतीर्थामरेश्वतीर्थमाहात्म्यवर्णनं नामाष्टाविंशो ऽध्यायः ॥
र्क्व् अध्याय 29
युधिष्ठिर उवाच:
कावेरीति च विख्याता त्रिषु लोकेषु सत्तम ।
माहात्म्यं श्रोतुम् इच्छामि तस्या मार्कण्ड तत्त्वतः

29.2

कीदृशं दर्शनं तस्याः फलं स्पर्शे ऽथवा विभो ।
स्नाने जाप्ये ऽथवा दान उपवासे तथा मुने

29.3

कथयस्व महाभाग कावेरीसङ्गमे फलम् ।
धर्मः श्रुतो ऽथ दृष्टो वा कथितो वा कृतो ऽपि वा

29.4

अनुमोदितो वा विप्रेन्द्र पुनातीति श्रुतं मया ।
यथा धर्मप्रसङ्गे तु मुने धर्मो ऽपि जायते

29.5

स्वर्गश्च नरकश्चैव इत्येवं वैदिकी श्रुतिः

29.6

श्रीमार्कण्डेय उवाच:
साधु साधु महाभाग यत्पृष्टो ऽहं त्वयाधुना ।
शृणुष्वैकमना भूत्वा कावेरीफलम् उत्तमम्

29.7

अस्ति यक्षो महासत्त्वः कुबेरोनाम विश्रुतः ।
सो ऽपि तीर्थप्रभावेन राजन्यक्षाधिपो ऽभवत्

29.8

तच्छृणुष्व विधानेन भक्त्या परमया नृप ।
सिद्धिं प्राप्तो महाभाग कावेरीसङ्गमेन तु

29.9

कावेर्या नर्मदायास् तु सङ्गमे लोकविश्रुते ।
तत्र स्नात्वा शुचिर्भूत्वा कुबेरः सत्यविक्रमः

29.10

विधिवन्नियमं कृत्वा शास्त्रयुक्त्या नरोत्तम ।
आराधयन्महादेवमेकचित्तः सनातनम्

29.11

एकाहारो वसन्मासं तथा षष्ठाह्नकालिकः ।
पक्षोपवासी न्यवसत् कंचित् कालं नृपोत्तम

29.12

मूलशाकफलैश्चान्यं कालं नयति बुद्धिमान् ।
किंचित्कालं वसंस्तत्र तीर्थे शैवालभोजनः

29.13

पराकेणानयत्कालं कृच्छ्रेणापि च मानद ।
चान्द्रायणेन चाप्यन्यमन्यं वाय्वम्बुभोजनः

29.14

एवं तत्र नरश्रेष्ठ कामरागविवर्जितः ।
स्थितो वर्षशतं साग्रं कर्षयन्स्वं तथा वपुः

29.15

ततो वर्षशतस्यान्ते देवदेवो महेश्वरः ।
तुष्टस्तु परया भक्त्या तमुवाच हसन्निव

29.16

भोभो यक्ष महासत्त्व वरं वरय सुव्रत ।
परितुष्टो ऽस्मि ते भक्त्या तव दास्ये यथेप्सितम्

29.17

यक्ष उवाच:
यदि तुष्टो ऽसि देवेश उमया सह शङ्कर ।
अद्यप्रभृति सर्वेषां यक्षाणामधिपो भवे

29.18

अक्षयश्चाव्ययश्चैव तव भक्तिपुरःसरः ।
धर्मे मतिं च मे नित्यं ददस्व परमेश्वर

29.19

ईश्वर उवाच:
यत्त्वया प्रार्थितं सर्वं फलं धर्मस्य तत्तथा ।
इत्येवमुक्त्वा तं तत्र जगामादर्शनं हरः

29.20

सो ऽपि स्नात्वा विधानेन संतर्प्य पितृदेवताः ।
आमन्त्रयित्वा तत्तीर्थं कृतार्थश्च गृहं ययौ

29.21

पूजितस्तत्र यक्षैस्तु सो ऽभिषिक्तो विधानतः ।
चकार विपुलं तत्र राज्यमीप्सितमुत्तमम्

29.22

तत्र चान्ये सुराः सिद्धा यक्षगन्धर्वकिंनराः ।
गणाश्चाप्सरसां तत्र ऋषयश्च तथानघ

29.23

कावेरीसङ्गमं तेन सर्वपापहरं विदुः ।
स्वर्गाणामपि सर्वेषां द्वारमेतद्युधिष्ठिर

29.24

ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।
कावेरीसङ्गमे स्नात्वा यैर्दत्तं हि तिलोदकम्

29.25

दश पूर्वे परे तात मातृतः पितृतस्तथा ।
पितरः पितामहास्तेन उद्धृता नरकार्णवात्

29.26

तस्मात्सर्वप्रयत्नेन तत्र स्नायीत मानवः ।
अर्चयेदीश्वरं देवं यदीच्छेच्छाश्वतीं गतिम्

29.27

कावेरीसङ्गमे राजन्स्नानदानार्चनं नरैः ।
कृतं भक्त्या नरश्रेष्ठ अश्वमेधाधिकं फलम्

29.28

होमेन चाक्षयः स्वर्गो जपादायुर्विवर्धते ।
ध्यानतो नित्यमायाति पदं शिवकलात्मकम्

29.29

अग्निप्रवेशं यः कुर्यात् तस्मिंस् तीर्थे नरेश्वर ।
अग्निलोके वसेत्तावद्यावदाभूतसम्प्लवम्

29.30

अनाशकं तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप ।
तस्य पुण्यफलं यद्वै तच्छृणुष्व नरोत्तम

29.31

गन्धर्वाप्सरःसंकीर्णे विमाने सूर्यसन्निभे ।
वीज्यमानो वरस्त्रीभिर्दैवतैः सह मोदते

29.32

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
क्रीडते रुद्रलोकस्थस्तदन्ते भुवि चागतः

29.33

भोगवान्दानशीलश्च जायते पृथिवीपतिः ।
आधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम्

29.34

एवं गुणगणाकीर्णा कावेरी सा सरिन्नृप ।
त्रिषु लोकेषु विख्याता नर्मदासङ्गमे सदा

29.35

जितवाक्कायचित्ताश्च ध्येयध्यानरतास् तथा ।
कावेरीसङ्गमे तात ते ऽपि मोक्षमवाप्नुयुः

29.36

शृणु ते ऽन्यत्प्रवक्ष्यामि आश्चर्यं नृपसत्तम ।
त्रिषु लोकेषु का त्वन्या दृश्यते सरिता समा

29.37

लब्धं यैर् नर्मदातोयं ये च कुर्युः प्रदक्षिणम् ।
ये पिबन्ति जलं तत्र ते पुण्या नात्र संशयः

29.38

न तेषां सन्ततिच्छेदो दश जन्मानि पञ्च च ।
तेषां पापं विलीयेत हिमं सूर्योदये यथा

29.39

गङ्गायमुनसङ्गे वै यत्फलं लभते नरः ।
तत्फलं लभते मर्त्यः कावेरीस्नानमाचरन्

29.40

भौमे तु भूतजायोगे व्यतीपाते च संक्रमे ।
राहुसोमसमायोगे तदेवाष्टगुणं स्मृतम्

29.41

अशीतिश्च यवाः प्रोक्ता गङ्गायामुनसङ्गमे ।
कावेरीनर्मदायोगे तदेवाष्टगुणं स्मृतम्

29.42

गङ्गा षष्टिसहस्रैस्तु क्षेत्रपालैः प्रपूज्यते ।
तदर्धैर् अन्यतीर्थानि रक्षन्ते नात्र संशयः

29.43

अमरेश्वरे तु सरितां ये योगाः परिकीर्तिताः ।
ते त्वशीतिसहस्रैस्तु क्षेत्रपालैस्तु रक्षिताः

29.44

तथामरेश्वरे याम्ये लिङ्गं वै चपलेश्वरम् ।
द्वितीयं चण्डहस्ताख्यं द्वे लिङ्गे तीर्थरक्षके

29.45

शिवेन स्थापिते पूर्वं कावेर्याद्यभिरक्षके ।
लक्षेण रक्षिता देवी नर्मदा बहुकल्पगा

29.46

धनुषां षष्ट्यभियुतैः पुरुषैरीशयोजितैः ।
ओं कारशतसाहस्रैः पर्वतश्चाभिरक्षितः

29.47

अन्यदेशकृतं पापम् अस्मिन् क्षेत्रे विनश्यति ।
अस्मिंस्तीर्थे कृतं पापं वज्रलेपो भविष्यति

29.48

एषा ते कथिता तात कावेरी सरितां वरा ।
रुद्रदेहसमुत्पन्ना तेन पुण्या सरिद्वरा

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc