भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 31

31.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दारुतीर्थमाहात्म्यवर्णनं नाम त्रिंशो ऽध्यायः ॥
र्क्व् अध्याय 31
श्रीमार्कण्डेय उवाच:
ततो गच्छेच्च राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ।
ब्रह्मावर्तमिति ख्यातं सर्वपापप्रणाशनम्

31.2

तत्र संनिहितो ब्रह्मा नित्यसेवी युधिष्ठिर ।
ऊर्ध्वबाहुर्निरालम्बचकार भ्रमणं सदा

31.3

एकाहारवशे ऽतिष्ठद्द्वादशाब्दं महाव्रती ।
अत्र तीर्थे विधानेन चिन्तयन् वै महेश्वरम्

31.4

तेन तत्पुण्यमाख्यातं ब्रह्मावर्तमिति प्रभो ।
तत्र स्नात्वा विधानेन तर्पयेत् पितृदेवताः

31.5

अर्चयेद्देवमीशानं विष्णुं वा परमेश्वरम् ।
यत्फलं सर्वयज्ञानां विधिवद्दक्षिणावताम्

31.6

तत्फलं समवाप्नोति तत्तीर्थस्य प्रभावतः ।
यस्मिंस्तीर्थे तु यो देवो दानवो वा द्विजो ऽथ वा

31.7

सिद्धस्तेनैव तन्नाम्ना ख्यातं लोके महच्च तत् ।
न जलं न स्थलं नाम क्षेत्रं वा ह्यूषराणि च

31.8

पवित्रत्वं लभन्त्येते पौरुषेण विना नृणाम् ।
सामर्थ्यान्निश्चयाद्धैर्यात्सिध्यन्ति पुरुषा नृप

31.9

प्रमादात् तस्य लोभेन पतन्ति नरके ध्रुवम्

31.10

संनिरुध्येन्द्रियग्रामं यत्र यत्र वसेन् मुनिः ।
तत्र तत्र कुरुक्षेत्रं नैमिषं पुष्कराणि च

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc