भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 224

224.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे वासवेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रयोविंशत्यधिकद्विशततमो ऽध्यायः ॥
र्क्व् अध्याय 224
मार्कण्डेय उवाच:
ततः क्रोशान्तरे पार्थ तीर्थं कोटीश्वरं परम् ।
यत्र स्नानं च दानं च जपहोमार्चनादिकम् ।
भक्त्या कृतं नरैस्तत्र सर्वं कोटिगुणं भवेत्

224.2

तत्र देवाः सगन्धर्वा ऋषयः सिद्धचारणाः ।
जलधिं प्रतिगच्छन्ति नर्मदां वीक्षितुं किल

224.3

मिलिताः कोटिशो राजन्रेवासागरसङ्गमे ।
विनोदमतुलं दृष्ट्वा रेवार्णवसमागमे

224.4

स्नात्वा शिवं च संस्थाप्य पूजयित्वा महेश्वरम् ।
कोटीश्वराभिधानं तु स्वस्वभक्त्या विधानतः

224.5

कोटीतीर्थे परां सिद्धिं सम्प्राप्ताः सर्वतोषणात् ।
तेन तत्पुण्यमतुलं सर्वतीर्थेषु चोत्तमम्

224.6

तत्र तीर्थे तु यत्किंचिच्छुभं वा यदि वाशुभम् ।
क्रियते नृपशार्दूल सर्वं कोटिगुणं भवेत्

224.7

तत्र तीर्थे तु मार्गस्था ये केचिदृषिसत्तमाः ।
सिद्धामृतपदं यान्ति पितृलोकं तथोत्तमम्

224.8

उत्तरे नर्मदातीरे दक्षिणे चाश्रिताश्च ये ।
देवलोकं गतास् तत्र इति मे निश्चिता मतिः

224.9

बिल्वार्कपुष्पैर् धत्तूरकुशकाशप्रसूनकैः ।
ऋतूद्भवैस्तथान्यैश्च पूजयित्वा महेश्वरम्

224.10

नानोपचारैर् विधिवन् मन्त्रपूर्वं युधिष्ठिर ।
धूपदीपार्धनैवेद्यैस्तोषयित्वा च धूर्जटिम्

224.11

शिवलोकमवाप्नोति यावदिन्द्राश्चतुर्दश ।
पौषकृष्णाष्टमीयोगे विशेषः पूजने स्मृतः

224.12

नित्यं च नृपतिश्रेष्ठ चतुर्दश्यष्टमीषु च ।
शिवमभ्यर्च्य विप्रांश्च भोजयेद् भक्तितो वरान्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc