भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 225

225.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटीश्वरतीर्थमाहात्म्यवर्णनं नाम चतुर्विंशत्यधिकद्विशततमो ऽध्यायः ॥
र्क्व् अध्याय 225
श्रीमार्कण्डेय उवाच:
ततः क्रोशान्तरे गच्छेद् अलिकातीर्थमुत्तमम् ।
अलिका नाम गान्धर्वी कुशीला कुटिलाशया

225.2

चित्रसेनस्य दौहित्री विद्यानन्दमृषिं गता ।
वव्रे ते स्वीकृता तेन दशवर्षाणि तं श्रिता

225.3

पतिं जघान तं सुप्तं कस्मिंश्चित् कारणान्तरे ।
गत्वा निवेदयामास पितरं रत्नवल्लभम्

225.4

पित्रा मात्रा च संत्यक्ता बहुभिर्भर्त्सिता नृप ।
गर्भघ्नी त्वं पतिघ्नी त्वमिति दर्शय मा मुखम्

225.5

ब्रह्मघ्नी याहि पापिष्ठे परित्यक्ता गृहाद्व्रज

225.6

मार्कण्डेय उवाच:
इति दुःखान्विता मूढा ताभ्यां निर्भर्त्सिता सती ।
तनुं त्यक्तुं मनश्चक्रे प्राप्य तीर्थान्तरं क्वचित्

225.7

संपृच्छ्यमाना तीर्थानि ब्राह्मणेभ्यो युधिष्ठिर ।
श्रुत्वा पापहरं तीर्थं रेवासागरसङ्गमे

225.8

तत्र पार्थ तपश्चक्रे निराहारा जितव्रता ।
कृच्छ्रातिकृच्छ्रपाराकमहासांतपनादिभिः

225.9

चान्द्रायणैर्ब्रह्मकूर्चैः कर्शयामास वै तनुम् ।
एवं वर्षशतं सार्द्धं व्यतीतं तपसा नृप

225.10

तस्या विशुद्धिम् इच्छन्त्याः शिवध्यानार्चनादिभिः ।
ततः कतिपयाहोभिस् तस्या ज्ञात्वा हठं परम् ।
परितुष्टः शिवः प्राह पार्वत्या परिचोदितः

225.11

ईश्वर उवाच:
पुत्रि मा साहसं कार्षीः शुद्धदेहासि साम्प्रतम् ।
तुष्टो ऽहं तपसा ते ऽद्य वरं वरय वाञ्छितम्

225.12

अलिकोवाच:
यदि तुष्टो ऽसि देवेश वरार्हा यद्यहं मता ।
नानापापाग्नितप्ताया देहि शुद्धिं परां मम

225.13

त्वं मे नाथो ह्यनाथायास्त्वमेव जगतां गुरुः ।
दीनानाथसमुद्धर्ता शरण्यः सर्वदेहिनाम्

225.14

ईश्वर उवाच:
त्वं भद्रे शुद्धदेहासि मा किंचिद् अनुशोचिथाः ।
स्वनाम्ना स्थापयित्वेह मां ततः स्वर्गमेष्यसि

225.15

इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत ।
अलिकापि ततो भक्त्या स्नात्वा संस्थाप्य शङ्करम्

225.16

दत्त्वा दानं च विप्रेभ्यो लोकमाप महोत्कटम् ।
पितरं च समासाद्य मातरं च युधिष्ठिर

225.17

तैश्च संमानिता प्रीत्या बन्धुभिः सालिका ततः ।
विमानवरमारूढा दिव्यमालान्विता नृप

225.18

गौरीलोकमनुप्राप्तसखित्वे ऽद्यापि मोदते ।
ततः प्रभृति तत्पार्थ विख्यातम् अलिकेश्वरम्

225.19

तत्र तीर्थे तु या नारी पुरुषो वा युधिष्ठिर ।
स्नात्वा सम्पूजयेद्भक्त्या महादेवमुमायुतम्

225.20

स पापैर्विविधैर्मुक्तो लोकमाप्नोति शांकरम् ।
मानसं वाचिकं पापं कायिकं यत्पुरा कृतम्

225.21

सर्वं तद्विलयं याति भोजयित्वा द्विजान्सदा ।
दीपं दत्त्वा च देवाग्रे न रोगैः परिभूयते

225.22

धूपपात्रं विमानं च घण्टां कलशमेव च ।
दत्त्वा देवाय राजेन्द्र शाक्रं लोकमवाप्नुयात्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc