रेवाखाण्ड (संशोधित पाठ) · अध्याय 223
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तिलादेश्वरतीर्थमाहात्म्यवर्णनं नाम द्वाविंशदधिकद्विशततमो ऽध्यायः ॥
र्क्व् अध्याय 223
मार्कण्डेय उवाच:
ततः क्रोशान्तरे पार्थ वासवं तीर्थमुत्तमम् ।
वसुभिः स्थापितं तत्र स्थित्वा वै द्वादशाब्दकम्
धरो ध्रुवश्च सोमश्च आपश्चैवानिलो ऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवो ऽष्टाविमे पुरा
पितृशापपरिक्लिष्टा गर्भवासाय भारत ।
नार्मदं तीर्थमासाद्य तपश्चक्रुर्यतेन्द्रियाः
आराधयन्तः परमं भवानीपतिम् अव्यम् ।
द्वादशाब्दानि राजेन्द्र ततस्तुष्टो महेश्वरः
प्रत्यक्षः प्रददौ तेभ्यस्त्वभीष्टं वरमुत्तमम् ।
ततः स्वनाम्ना संस्थाप्य वसवस्तं महेश्वरम् ।
जग्मुराकाशमाविश्य प्रसन्ने सति शङ्करे
ततः प्रभृति विख्यातं तीर्थं तद्वासवाह्वयम् ।
तस्मिंस्तीर्थे महाराज यो भक्त्या पूजयेच्छिवम् ।
यथालब्धोपहारैश्च दीपं दद्यात् प्रयत्नतः
शुक्लपक्षे तदाष्टम्यां प्रत्यहं वापि शक्तितः ।
अष्टौ वर्षसहस्राणि स वसेच्छिवसंनिधौ
ततः शिवालयं याति गर्भवासं न पश्यति ।
पुष्पैर्वा पल्लवैर्वापि फलैर्धान्यैस् तथापि वा
पूजयेद्देवमीशानं स दैन्यं नाप्नुयात् क्वचित् ।
सर्वशोकविनिर्मुक्तः स्वर्गलोके महीयते
एकाहमपि कौन्तेय यो वसेद्वासवेश्वरे ।
पापराशिं विनिर्धूय भानुवद्दिवि मोदते
विप्रांश्च भोजयेद्भक्त्या दद्याद् वासांसि दक्षिणाम्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0