रेवाखाण्ड (संशोधित पाठ) · अध्याय 222
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हंसेश्वरतीर्थमाहात्म्यवर्णनं नामैकविंशदधिकद्विशततमो ऽध्यायः ॥
र्क्व् अध्याय 222
श्रीमार्कण्डेय उवाच:
ततः क्रोशान्तरे गच्छेत्तिलादं तीर्थमुत्तमम् ।
तिलप्राशनकृद्यत्र जाबालिः शुद्धिमाप्तवान्
पितृमातृपरित्यागी भ्रातुर्भार्याभिलाषकृत् ।
पुत्रविक्रयकृत्पापश्छलकृद्गुरुणा सह
एवं दोषसमाविष्टो यत्र यत्रापि गच्छति ।
तत्र तत्रापि धिक्कारं लभते सत्सु भारत ।
न कोऽपि संगतिं धत्ते तेन सार्द्धं सभास्वपि
इति लज्जान्वितो विप्रः काले न महता नृप ।
चिन्तामवाप महतीम् अगतिज्ञो हि पावने
चकार सर्वतीर्थानि रेवां चाप्यवगाहयत्
अणिवापान्तम् आसाद्य दक्षिणे नर्मदातटे ।
तस्थौ यत्र व्रती पार्थ जाबालिः प्राशयंस्तिलान्
तिलैरेकाशनं कुर्वंस् तथैवैकान्तराशनम् ।
त्र्यहषड्द्वादशाहाशी पक्षमासाशनस्तथा
कृच्छ्रचान्द्रायणादीनि व्रतानि च तिलैरपि ।
तिलादत्वमनुप्राप्तो ह्यब्दद्वासप्ततिं क्रमात्
कालेन गच्छता तस्य प्रसन्नो ऽभवदीश्वरः ।
प्रादाद् इहामुत्रिकीं तु शुद्धिं सालोक्यमात्मकम्
तेन स स्थापितो देवः स्वनाम्ना भरतर्षभ ।
तिलादेश्वरसंज्ञां च प्राप लोकादपि प्रभुः
तदा प्रभृति विख्यातं तीर्थं पापप्रणाशनम् ।
तत्र तीर्थे नरः स्नात्वा चतुर्दश्यष्टमीषु च
उपवासपरः पार्थ तथैव हरिवासरे ।
तिलहोमी तिलोद्वर्ती तिलस्नायी तिलोदकी
तिलदाता च भोक्ता च नानापापैः प्रमुच्यते ।
तिलैरापूरयेल्लिङ्गं तिलतैलेन दीपदः ।
रुद्रलोकम् अवाप्नोति पुनात्य् आ सप्तमं कुलम्
तिलपिण्डप्रदानेन श्राद्धे नृपतिसत्तम ।
विकर्मस्थाश्च गच्छन्ति गतिमिष्टां हि पूर्वजाः
स्वर्गलोकस्थिताः श्राद्धैर् ब्राह्मणानां च भोजनैः ।
अक्षयां तृप्तिमासाद्य मोदन्ते शाश्वतीः समाः
पितुः कुलं मातृकुलं तथा भार्याकुलं नृप ।
कुलत्रयं समुद्धृत्य स्वर्गं नयति वै नरः
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0