भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 221

221.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे लोटणेश्वरतीर्थमाहात्म्यवर्णनं नाम विंशत्युत्तरद्विशततमो ऽध्यायः ॥
र्क्व् अध्याय 221
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र रेवाया दक्षिणे तटे ।
क्रोशद्वयान्तरे तीर्थं मतृतीर्थाद् अनुत्तमम्

221.2

नाम्ना हंसेश्वरं पुण्यं वैमनस्यविनाशनम् ।
कश्यपस्य कुले जातो हंसो दाक्षायणीसुतः

221.3

ब्रह्मणो वाहनं जातः पुरा तप्त्वा तपो महत् ।
सैकदा विधिनिर्देशं विना वैयग्र्यमास्थितः

221.4

अभिभूतः शिवगणैः प्रणनाश युधिष्ठिर ।
दक्षयज्ञप्रमथने कांदिशीको विधिं विना

221.5

ब्रह्मणा संसृतो ऽप्याशु नायाति स यदा खगः ।
तदा तं शप्तवान्ब्रह्मा पातयामास वै पदात्

221.6

ततः स शप्तमात्मानं मत्वा हंसस्त्वरान्वितः ।
पितामहमुपागम्य प्रणिपत्येदम् अब्रवीत्

221.7

हंस उवाच:
तिर्यग्योनिसमुत्पन्नं भवाञ्छप्तुं न चार्हति ।
स्वभाव एव तिर्यक्षु विवेकविकलं मनः

221.8

तथापि देव पापो ऽस्मि यदहं स्वामिनं त्यजे ।
किं तु धावद्भिर् अत्युग्रैर्गणैः शार्वैः पितामह ।
सहसाहं भयाक्रान्तस्त्रस्तस्त्यक्त्वा पलायितः

221.9

अद्यापि भयमेवाहं पश्यन्नस्मि विभो पुरः ।
तेन स्मृतो ऽपि भवता नाव्रजं भवदन्तिके

221.10

श्रीमार्कण्डेय उवाच:
इति ब्रुवन्नेव हि धातुरग्रे हंसः श्वसत्यक्षिपूज्यः सुदीनः ।
तिर्यञ्चं मां पापिनं मूढबुद्धिं प्रभो पुरः पतितं पाहि पाहि

221.11

एको देवस्त्वं हि सर्गस्य कर्ता नानाविधं सृष्टमेतत्त्वयैव ।
अहं सृष्टस्त्वीदृशो यत्त्वया वै सो ऽयं दोषो धातर् अद्धा तवैव

221.12

शापस्य वानुग्रहस्यापि शक्तस्त्वत्तो नान्यः शरणं कं व्रजामि ।
सेवाधर्माद्विच्युतं दासभूतं चपेटैर्हन्तव्यं वै तात मां त्राहि भक्तम्

221.13

विद्याविद्ये त्वत्त एवाविरास्तां धर्माधर्मौ सदसद् द्युर्निशे च ।
नानाभावाञ्जगतस्त्वं विधत्सेस् तं त्वामेकं शरणं वै प्रपद्ये

221.14

एको ऽसि बहुरूपो ऽसि नानाचित्रैककर्मतः ।
निष्कर्माखिलकर्मासि त्वामतः शरणं व्रजे

221.15

नमोनमो वरेण्याय वरदाय नमोनमः ।
नमो धात्रे विधात्रे च शरण्याय नमोनमः

221.16

शिक्षाक्षरवियुक्तेयं वाणी मे स्तौति किं विभो ।
का शक्तिः किं परिज्ञानमिदमुक्तं क्षमस्व मे

221.17

श्रीमार्कण्डेय उवाच:
एवं वदति हंसे वै ब्रह्मा प्राह प्रसन्नधीः ।
शिक्षा दत्ता तवैवेयं मा विषादं कृथाः खग

221.18

तपसा शोधयात्मानं यथा शापान्तमाप्नुयाः ।
रेवासेवां कुरु स्नात्वा स्थापयित्वा महेश्वरम् ।
अचिरेणैव कालेन ततः संस्थानमाप्स्यसि

221.19

यच्चेष्ट्वा बहुभिर् यज्ञैः समाप्तवरदक्षिणैः ।
गोस्वर्णकोटिदानैश्च तत्फलं स्थापिते शिवे

221.20

ब्रह्मघ्नो वा सुरापो वा स्वर्णहृद् गुरुतल्पगः ।
रेवातीरे शिवं स्थाप्य मुच्यते सर्वपातकैः

221.21

तस्माद्भर्गसरित्तीरे स्थापयित्वा त्रियम्बकम् ।
वियुक्तः सर्वदोषैस्त्वं यास्यसे पदमुत्तमम्

221.22

एवमुक्तः स विधिना हृष्टतुष्टः खगोत्तमः ।
तथेत्युक्त्वा जगामाशु नर्मदातीरमुत्तमम्

221.23

तपस्तप्त्वा कियत्कालं स्थापयामास शङ्करम्

221.24

स्वनाम्ना भरतश्रेष्ठ हंसेश्वरमनुत्तमम् ।
पूजयित्वा परं स्थानं प्राप्तवान्खगसत्तमः

221.25

तत्र हंसेश्वरे तीर्थे गत्वा स्नात्वा युधिष्ठिर ।
पूजयेत्परमेशानं स पापैः परिमुच्यते

221.26

स्तुवन्नेकमना देवं न दैन्यं प्राप्नुयात् क्वचित् ।
श्राद्धं दीपप्रदानं च ब्राह्मणानां च भोजनम् ।
दत्त्वा शक्त्या नृपश्रेष्ठ स्वर्गलोके महीयते

221.27

त्रिकालम् एककालं वा यो भक्त्या पूजयेच्छिवम् ।
नवप्रसूतां धेनुं च दत्त्वा पार्थ द्विजोत्तमे ।
षष्टिवर्षसहस्राणि शिवलोके महीयते

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc