रेवाखाण्ड (संशोधित पाठ) · अध्याय 211
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पुङ्खिलतीर्थमाहात्म्यवर्णनं नाम दशोत्तरद्विशततमो ऽध्यायः ॥
र्क्व् अध्याय 211
श्रीमार्कण्डेय उवाच:
आश्चर्यभूतं लोकस्य देवदेवेन यत्कृतम् ।
तत्ते सर्वं प्रवक्ष्यामि नर्मदातटवासिनाम्
द्विजान् सुकृत्पणान् देवः कुष्ठी भूत्वा ययाच ह ।
श्राद्धकाले तु सम्प्राप्ते रक्तगन्धानुलेपनः
स्रवद्बुद्बुदगात्रस्तु मक्षिकाकृमिसंवृतः ।
दुश्चर्मा दुर्मुखो गन्धी प्रस्खलंश्च पदे पदे
ब्राह्मणावसथं गत्वा स्खलन्द्वारे ऽब्रवीद् इदम् ।
भोभो गृहपते त्वद्य ब्राह्मणैः सह भोजनम्
त्वद्गृहे कर्तुम् इच्छामि ह्येभिः सह सुसंस्कृतम् ।
ततस्तं ब्रह्माणं दृष्ट्वा यजमानसमन्विताः
स्रवन्तं सर्वगात्रेषु धिग् धिग् इत्येवम् अब्रुवन् ।
निर्गच्छस्वाशु दुर्गन्ध गृहाच्छीघ्रं द्विजाधम
अभोज्यमेतत्सर्वेषां दर्शनात् तव सत्कृतम् ।
एवमेव तथेत्युक्त्वा देवदेवो महेश्वरः
जगामाकाशममलं दृश्यमानो द्विजोत्तमैः ।
गते चादर्शनं देवे स्नात्वाभ्युक्ष्य समन्ततः
भुञ्जते ऽस्म द्विजा राजन्यावत् पात्रे पृथक्पृथक् ।
यत्रयत्र च पश्यन्ति तत्रतत्र कृमिर्बहुः
दृष्ट्वा विस्मयमापन्नाः सर्वे किमिति चाब्रुवन् ।
ततः कश्चिद् उवाचेदं ब्राह्मणो गुणवानजः
योगीन्द्रः शङ्कया तत्र बहुविप्रसमागमे ।
यो ऽत्र पूर्वं समायातः स योगी परमेश्वरः
तस्येदं क्रीडितं मन्ये भर्त्सितस्य विपाकजम् ।
फलं भवति नान्यस्य ह्यतिथेः शास्त्रनिश्चयात्
सम्पूज्य परमात्मा वै ह्यतिथिश्च विशेषतः ।
श्राद्धकाले तु सम्प्राप्तम् अतिथिं यो न पूजयेत्
पिशाचा राक्षसास्तस्य तद्विलुम्पन्त्यसंशयम् ।
रूपान्वितं विरूपं वा मलिनं मलिनाम्बरम्
योगीन्द्रं श्वपचं वापि अतिथिं न विचारयेत् ।
तच्छ्रुत्वा वचनं तस्य यजमानपुरोगमाः
ब्राह्मणा द्विजमन्वेष्टुं धाविताः सर्वतोदिशम् ।
तावत् कथंचित् केनापि गहनं वनमाश्रितः
दृष्टो दृष्ट इति प्रोक्तं तेन ते सर्व आगताः ।
ततः पश्यन्ति तं विप्रं स्थाणुवन्निश्चलं स्थितम्
क्रन्दते न चलति स्पन्दते न च पश्यति ।
जल्पन्ति करुणं केचित् स्तुवन्ति च तथापरे
वाग्भिः सततम् इष्टाभिः स्तूयमानस्त्रिलोचनः ।
क्षुधार्दितानां देवेश ब्राह्मणानां विशेषतः ।
विनष्टमन्नं सर्वेषां पुनः संकर्तुम् अर्हसि
श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिर ।
परया कृपया देवः प्रसन्नस् तान् उवाच ह
मया प्रसन्नेन महानुभावास्तदेव वो ऽन्नं विहितं सुधेव ।
भुञ्जन्तु विप्राः सह बन्धुभृत्यैर् अर्चन्तु नित्यं मम मण्डलं च
ततश्चायतनं पार्थ देवदेवस्य शूलिनः ।
मुण्डिनामेति विख्यातं सर्वपापहरं शुभम् ।
कार्त्तिक्यां तु विशेषेण गयातीर्थेन तत्समम्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0