भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 212

212.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मुण्डितीर्थमाहात्म्यवर्णनं नामैकादशोत्तरद्विशततमो ऽध्यायः ॥
र्क्व् अध्याय 212
श्रीमार्कण्डेय उवाच:
अथान्यत् सम्प्रवक्ष्यामि देवस्य चरितं महत् ।
श्रुतमात्रेण येनाशु सर्वपापैः प्रमुच्यते

212.2

भिक्षुरूपं परं कृत्वा देवदेवो महेश्वरः ।
एकशालां गतो ग्रामं भिक्षार्थी क्षुत्पिपासितः

212.3

अक्षसूत्रोद्यतकरो भस्मगुण्ठितविग्रहः ।
स्फुरत्त्रिशूलो विश्वेशो जटाकुण्डलभूषितः

212.4

कृत्तिवासा महाकायो महाहिकृतभूषणः ।
वादयन्वै डमरुकं डिण्डिमप्रतिमं शुभम्

212.5

कपालपाणिर्भगवान्बालकैर् बहुभिर् वृतः ।
क्वचिद्गायन्हसंश्चैव नृत्यन्वदन् क्वचित् क्वचित्

212.6

यत्र यत्र गृहे देवो लीलया डिण्डमं न्यसेत् ।
भाराक्रान्तं गृहं पार्थ तत्रतत्र विनश्यति

212.7

एवं सम्प्रचरन् देवो वेष्टितो बहुभिर् जनैः ।
दृश्यादृश्येन रूपेण निर्जगाम बहिः प्रभुः

212.8

इतश्चेतश्च धावन्तं न पश्यन्ति यदा जनाः ।
विस्मितास्ते स्थिताः शम्भुर्भविष्यति ततो ऽस्तुवन्

212.9

तेषां तु स्तुवतां भक्त्या शङ्करं जगतां पतिम् ।
डिण्डिरूपो हि भगवांस्तदासौ प्रत्यदृश्यत

212.10

तदाप्रभृति देवेशो डिण्डिमेश्वर उच्यते ।
दर्शनात् स्पर्शनाद् राजन् सर्वपापैः प्रमुच्यते

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc