रेवाखाण्ड (संशोधित पाठ) · अध्याय 210
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भारभूतितीर्थमाहात्म्यवर्णनं नाम नवाधिकद्विशततमो ऽध्यायः ॥
र्क्व् अध्याय 210
श्रीमार्कण्डेय उवाच:
तस्यैवानन्तरं तात पुङ्खिलं तीर्थमुत्तमम् ।
तत्र तीर्थे पुरा पुङ्खः पार्थ सिद्धिमुपागतः
जामदग्न्यो महातेजाः क्षत्रियान्तकरः प्रभुः ।
तपः कृत्वा सुविपुलं नर्मदोत्तरतीरभाक्
ततः प्रभृति विख्यातं पुङ्खतीर्थं नरेश्वर ।
तत्र तीर्थे तु यः स्नात्वा ह्याराध्य परमेश्वरम्
इहलोके बलैर्युक्तः परे मोक्षमवाप्नुयात् ।
देवान्पित्ःन् समभ्यर्च्य पित्ःणाम् अनृणी भवेत्
तत्र तीर्थे नरो यस्तु प्राणत्यागं करोति वै ।
अनिवर्तिका गतिस् तस्य रुद्रलोकाद् असंशयम्
तत्र तीर्थे नरः स्नात्वा हयमेधफलं लभेत्
तत्र तीर्थे नरो यस्तु ब्राह्मणान् भोजयेन् नृप ।
एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता
तत्र तीर्थे तु यः कश्चित् पूजयेद् वृषभध्वजम् ।
वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यसंशयम्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0