भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 200

200.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आश्विनतीर्थमाहात्म्यवर्णनं नामैकोनद्विशततमो ऽध्यायः ॥
र्क्व् अध्याय 200
श्रीमार्कण्डेय उवाच:
तस्यैवानन्तरं पार्थ सावित्रीतीर्थमुत्तमम् ।
यत्र सिद्धा महाभागा सावित्री वेदमातृका

200.2

युधिष्ठिर उवाच:
सावित्री का द्विजश्रेष्ठ कथं वाराध्यते बुधैः ।
प्रसन्ना वा वरं कं च ददाति कथयस्व मे

200.3

श्रीमार्कण्डेय उवाच:
पद्मा पद्मासनस्थेनाधिष्ठिता पद्मयोगिनी ।
सावित्रतेजःसदृशी सावित्री तेन चोच्यते

200.4

पद्मानना पद्मवर्णा पद्मपत्रनिभेक्षणा ।
ध्यातव्या ब्राह्मणैर्नित्यं क्षत्रवैश्यैर् यथाविधि

200.5

ब्रह्महत्याभयात्सा हि न तु शूद्रैः कदाचन ।
उच्चारणाद् धारणाद् वा नरके पतति ध्रुवम्

200.6

वेदोच्चारणमात्रेण क्षत्रियैर् धर्मपालकैः ।
जिह्वाछेदो ऽस्य कर्तव्यः शूद्रस्येति विनिश्चयः

200.7

बाला बालेन्दुसदृशी रक्तवस्त्रानुलेपना ।
उषःकाले तु ध्यातव्या सन्ध्या सन्धान उत्तमे

200.8

उत्तुङ्गपीवरकुचा सुमुखी शुभदर्शना ।
सर्वाभरणसम्पन्ना श्वेतमाल्यानुलेपना

200.9

श्वेतवस्त्रपरिच्छन्ना श्वेतयज्ञोपवीतिनी ।
मध्याह्नसन्ध्या ध्यातव्या तरुणा भुक्तिमुक्तिदा

200.10

प्रदोषे तु पुनः पार्थ श्वेता पाण्डुरमूर्धजा ।
सुमृता तु दुर्गकान्तारे मातृवत्परिरक्षति

200.11

विशेषेण तु राजेन्द्र सावित्रीतीर्थमुत्तमम् ।
स्नात्वाचम्य विधानेन मनोवाक्कायकर्मभिः

200.12

प्राणायामैर् दहेद् दोषान् सप्तजन्मार्जितान्बहून् ।
आपोहिष्ठेति मन्त्रेण प्रोक्षयेदात्मनस्तनुम्

200.13

नवषट् च तथा तिस्रस्तत्र तीर्थे नृपोत्तम ।
आपोहिष्ठेति त्रिरावृत्य प्रतिग्राहैर् न लिप्यते

200.14

अघमर्षणं त्र्यृचं तोयं यथावेदम् अथापि वा ।
उपपापैर् न लिप्येत पद्मपत्रमिवाम्भसा

200.15

त्र्यापं हि कुरुते विप्र उल्लेखत्रयम् आचरेत् ।
चतुर्थं कारयेद् यस् तु ब्रह्महत्यां व्यपोहति

200.16

द्रुपदाख्यश्च यो मन्त्रो वेदे वाजसनेयके ।
अन्तर्जले सकृज्जप्तः सर्वपापक्षयंकरः

200.17

उदुत्यम् इति मन्त्रेण पूजयित्वा दिवाकरम् ।
गायत्रीं च जपेद् देवीं पवित्रां वेदमातरम्

200.18

गायत्रीं तु जपेद् देवीं यः सन्ध्यानन्तरं द्विजः ।
सर्वपापविनिर्मुक्तो ब्रह्मलोकं स गच्छति

200.19

दशभिर्जन्मभिर्लब्धं शतेन तु पुराकृतम् ।
त्रियुगं तु सहस्रेण गायत्री हन्ति किल्बिषम्

200.20

गायत्रीसारमात्रो ऽपि वरं विप्रः सुयन्त्रितः ।
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी

200.21

सन्ध्याहीनो ऽशुचिर् नित्यमनर्हः सर्वकर्मसु ।
यदन्यत् कुरुते किंचिन्न तस्य फलभाग् भवेत्

200.22

सन्ध्यां नोपासते यस्तु ब्राह्मणो मन्दबुद्धिमान् ।
स जीवन्नेव शूद्रः स्यान् मृतः श्वा सम्प्रजायते

200.23

सावित्रीतीर्थमासाद्य सावित्रीं यो जपेद्द्विजः ।
त्रैविद्यं तु फलं तस्य जायते नात्र संशयः

200.24

पित्ःनुद्दिश्य यः स्नात्वा पिण्डनिर्वपणं नृप ।
कुरुते द्वादशाब्दानि तृप्यन्ति तत्पितामहाः

200.25

सावित्रीतीर्थमासाद्य यः कुर्यात् प्राणसंक्षयम् ।
ब्रह्मलोकं वसेत् तावद् यावद् आभूतसम्प्लवम्

200.26

पूर्णे चैव ततः काल इह मानुष्यतां गतः ।
चतुर्वेदो द्विजो राजञ्जायते विमले कुले

200.27

धनधान्यचयोपेतः पुत्रपौत्रसमन्वितः ।
व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc