रेवाखाण्ड (संशोधित पाठ) · अध्याय 199
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टनवत्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 199
श्रीमार्कण्डेय उवाच:
तस्यैवानन्तरं राजन्नाश्विनं तीर्थमुत्तमम् ।
कामिकं सर्वतीर्थानां प्राणिनां सिद्धिदायकम्
तत्र तीर्थे ऽश्विनौ देवौ सुरूपौ भिषजां वरौ ।
तपः कृत्वा सुविपुलं संजातौ यज्ञभागिनौ
संमतौ सर्वदेवानामादित्यतनयावुभौ ।
नासत्यौ सत्त्वं पन्नौ सर्वदुःखघ्नसत्तमौ
युधिष्ठिर उवाच:
आदित्यस्य सुतौ तात नासत्यौ येन हेतुना ।
संजातौ श्रोतुम् इच्छामि निर्णयं परमं द्विज
मार्कण्डेय उवाच:
पुराणे भास्करे तात एतद्विस्तरतो मया ।
संश्रुतं देवदेवस्य मार्तण्डस्य महात्मनः
तत्ते संक्षेपतः सर्वं भक्तियुक्तस्य भारत ।
कथयामि न सन्देहो वृद्धभावेन कर्शितः
अतितेजोरवेर्दृष्ट्वा राज्ञी देवी नरोत्तम ।
चचार मेरुकान्तारे वडवा तप उल्बणम्
ततः कतिपयाहस्य कालस्य भगवान्रविः ।
दृष्ट्वा तु रूपमुत्सृज्य परमं तेज उज्ज्वलम्
मनोभववशीभूतो हयो भूत्वा लघुक्रमः ।
विस्फुरन्ती यथाप्राणं धावमाना इतस्ततः
हेषमाणः स्वरेणासौ मैथुनायोपचक्रमे ।
सम्मुखी तु ततो देवी निवृत्ता लघुविक्रमा
यथा तथा नासिकायां प्रविष्टं बीजमुत्तमम् ।
ततो नासागते बीजे संजातो गर्भ उत्तमः
जातौ यतः सुतौ पार्थ नासत्यौ विश्रुतौ ततः ।
सुसमौ सुविभक्ताङ्गौ बिम्बाद्बिम्बमिवोद्यतौ
अधिकौ सर्वदेवानां रूपैश् चर्यसमन्वितौ ।
नर्मदातटमाश्रित्य भृगुकच्छे गतावुभौ ।
परां सिद्धिमनुप्राप्तौ तपः कृत्वा सुदुश्चरम्
तत्र तीर्थे तु यः स्नात्वा तर्पयेत् पितृदेवताः ।
सुरूपः सुभगः पार्थ जायते यत्र तत्र च
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0