भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 201

201.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सावित्रीतीर्थमाहात्म्यवर्णनं नाम द्विशततमो ऽध्यायः ॥
र्क्व् अध्याय 201
श्रीमार्कण्डेय उवाच:
ततो गच्छेन् महीपाल देवतीर्थमनुत्तमम् ।
यत्र सिद्धा महाभागा देवाः सेन्द्रा युधिष्ठिर

201.2

स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ।
तत्र तीर्थप्रभावेन कृतमानन्त्यमश्नुते

201.3

विशेषाद्भाद्रपदे तु कृष्णपक्षे त्रयोदशीम् ।
प्रधानं सर्वतीर्थानां देवैरध्यासितं पुरा

201.4

स्नात्वा त्रयोदशीदिने श्राद्धं कृत्वा विधानतः ।
देवैः संस्थापितं देवं सम्पूज्य वृषभध्वजम् ।
सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc