भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 170

170.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे काममोदिनीहरणवर्णनं नामैकोनसप्तत्यधिशततमो ऽध्यायः ॥
र्क्व् अध्याय 170
श्रीमार्कण्डेय उवाच:
कामप्रमोदिनीसख्यो नीयमानां च तेन तु ।
दृष्ट्वा ताश् चुक्रुशुः सर्वा निःसृत्य जलमध्यतः

170.2

गता राजगृहे सर्वाः कथयन्ति सुदुःखिताः ।
कामप्रमोदिनी राजन्हृता श्येनेन पक्षिणा

170.3

क्रीडन्ती च जलस्थाने तडागे देवसन्निधौ ।
अन्वेष्या च त्वया राजंस्तस्य मार्गं विजानता

170.4

तासां तद्वचनं श्रुत्वा देवपन्नः सुदुःखितः ।
हाहेत्युक्त्वा समुत्थाय रुदमानो वरासनात्

170.5

मन्त्रिभिः सहितस्तस्मिंस्तडागे जलसन्निधौ ।
न चिह्नं न च पन्थानं दृष्ट्वा दुःखान्मुमोह च

170.6

तस्य राज्ञस्तु दुःखेन दुःखितो नागरो जनः ।
क्षणेनाश्वासितो राजा मन्त्रिभिः सपुरोहितैः

170.7

किं कुर्म इत्युवाचेदमस्मिन्काले विधीयताम् ।
सर्वैस्तत्संविदं कृत्वा वाहिनीं चतुरङ्गिणीम्

170.8

प्रेषयामि दिशः सर्वा हस्त्यश्वरथसंकुला ।
वादित्राणि च वाद्यन्ते व्याकुलीभूतसंकुले

170.9

नाराचैस्तोमरैर्भल्लैः खड्गैः परश्वधादिभिः ।
राजा संनाहबद्धो ऽभूद्गनं ग्रसते किल

170.10

न देवो न च गन्धर्वो न दैत्यो न च राक्षसः ।
किं करिष्यति राजाद्य न जाने रोषनिष्कृतिम्

170.11

नागरो ऽपि जनस्तत्र दृष्ट्वा चकितमानसः ।
चतुर्दशसहस्राणि दन्तिनां सृणिधारिणाम्

170.12

अश्वारोहसहस्राणि ह्यशीतिः शस्त्रपाणिनाम् ।
रथानां त्रिसहस्राणि विंशतिर्भरतर्षभ

170.13

सङ्ग्रामभेरीनिनदैः खुररेणुर्नभोगता ।
एतस्मिन्नन्तरे तात रक्षको नगरस्य हि

170.14

गृहीत्वाभरणं तस्यास्त्वङ्गप्रत्यङ्गिकं तथा ।
कुण्डलाङ्गदकेयूरहारनूपुरझल्लरीः

170.15

निवेद्याकथयद्राज्ञे मया दृष्टं त्ववेक्षणात् ।
तापसानामाश्रमे तु माण्डव्यो यत्र तिष्ठति

170.16

तापसैर्वेष्टितो यत्र ददृशे तत्र सन्निधौ ।
दण्डवासिवचः श्रुत्वा प्रत्यक्षाङ्गविभूषणम्

170.17

स क्रोधरक्तनयनो मन्त्रिणो वीक्ष्य नैगमान् ।
ईदृग्भूतसमाचारो ब्राह्मणो नगरे मम

170.18

चौरचर्यां व्रतच्छन्नः परद्रव्यापहरकः ।
तेन कन्या हृता मे ऽद्य तपस्विपापकर्मिणा

170.19

शाकुन्तं रूपमास्थाय जलस्थो गगनं ययौ ।
पाखण्डिनो विकर्मस्थान् बिडालव्रतिकाञ्छठान्

170.20

चाटुतस्करदुर्वृत्तान् हन्यान्नस्त्यस्य पातकम् ।
न द्रष्टव्यो मया पापः स्तेयी कन्यापहारकः

170.21

शूलम् आरोप्यतां क्षिप्रं न विचारस्तु तस्य वै ।
स च वध्यो मया दुष्टो रक्षोरूपी तपोधनः

170.22

एवं ब्रुवंश्चलन्क्रोधादादिश्य दण्डवासिनम् ।
कार्याकार्यं न विज्ञाय शूलमारोपयद्द्विजम्

170.23

पौरा जानपदाः सर्वे अश्रुपूर्णमुखास्तदा ।
हाहेत्युक्त्वा रुदन्त्यन्ये वदन्ति च पृथक्पृथक्

170.24

कुत्सितं च कृतं कर्म राज्ञा चण्डालचारिणा ।
ब्राह्मणो नैव वध्यो हि विशेषेण तपोवृतः

170.25

यदि रोषसमाचारो निर्वास्यो नगराद्बहिः ।
न जातु ब्राह्मणं हन्यात् सर्वपापे ऽप्यवस्थितम्

170.26

राष्ट्रादेनं बहिष्कुर्यात् समग्रधनमक्षतम् ।
नाश्नाति च गृहे राजन्नाग्निर्नगरवासिनाम् ।
सर्वे ऽप्युद्विग्नमनसो गृहव्याप्तिविवर्जिताः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc