भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 169

169.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अङ्कूरेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टषष्ट्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 169
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्परं तीर्थं पुण्यं पापप्रणाशनम् ।
माण्डव्यो यत्र संसिद्ध ऋषिर्नारायणस्तथा

169.2

नारायणेन शुश्रूषा शूलस्थेन कृता पुरा ।
तत्र स्नात्वा महाराज मुच्यते पापकञ्चुकात्

169.3

युधिष्ठिर उवाच:
आश्चर्यमेतल्लोकेषु यत्त्वया कथितं मुने ।
न दृष्टं न श्रुतं तात शूलस्थेन तपः कृतम्

169.4

एतत्सर्वं कथय मे ऋषिभिः सहितस्य वै ।
अस्य तीर्थस्य माहात्म्यं माण्डव्यस्य कुतूहलात्

169.5

श्रीमार्कण्डेय उवाच:
शृणु राजन्यथावृत्तपुरा त्रेतायुगे क्षितौ ।
लोकपालोपमो राजा देवपन्नो महामतिः

169.6

धर्मज्ञश्च कृतज्ञश्च यज्वा दानरतः सदा ।
प्रजा ररक्ष यत्नेन पिता पुत्रान् इवौरसान्

169.7

दात्यायनी प्रिया भार्या तस्य राज्ञो वशानुगा ।
हारनूपुरघोषेण झङ्काररवनादिता

169.8

परस्परं तयोः प्रीतिर् वर्धते ऽनुदिनं नृप ।
वंशस्तम्बे स्थितो राजा संशास्ति पृथिवीमिमाम्

169.9

हस्त्यश्वरथसम्पूर्णां धनवाहनसंयुताम् ।
अलंकृतो गुणैः सर्वैर् अनपत्यो महीपतिः

169.10

दुःखेन महताविष्टः संतप्तः सन्ततिं विना ।
स्नानहोमरतो नित्यं द्वादशाब्दानि भारत

169.11

व्रतोपवासनियमैः पत्नीभिः सह तस्थिवान् ।
आराधयद्भगवतीं चामुण्डां मुण्डमर्दिनीम्

169.12

स्तोत्रैर् अनेकैर् भक्त्या च पूजाविधिसमाधिना ।
जय वाराहि चामुण्डे जय देवि त्रिलोचने

169.13

ब्राह्मि रौद्रि च कौमारि कात्यायनि नमो ऽस्तु ते ।
प्रचण्डे भैरवे रौद्रि योगिन्याकाशगामिनि

169.14

नास्ति किंचित्त्वया हीनं त्रैलोक्ये सचराचरे ।
राज्ञा स्तुता च संतुष्टा देवी वचनमब्रवीत्

169.15

वरयस्व यथाकामं यस्ते मनसि वर्तते ।
आराधिता त्वया भक्त्या तुष्टा दास्यामि ते वरम्

169.16

देवपन्न उवाच:
यदि तुष्टासि देवेशि वरार्हो यदि वाप्यहम् ।
पुत्रसन्तानरहितं संतप्तं मां समुद्धर

169.17

सन्तानं नय मे वृद्धिं गोत्ररक्षां कुरुष्व मे ।
अपुत्रिणां गृहाणीह श्मशानसदृशानि हि

169.18

पितरस्तस्य नाश्नन्ति देवता ऋषिभिः सह ।
क्रियमाणे ऽप्यहरहः श्राद्धे मत्पितरः सदा

169.19

दर्शयन्ति सदात्मानं स्वप्ने क्षुत्पीडितं मम ।
इति राज्ञो वचः श्रुत्वा देवी ध्यानमुपागता

169.20

दिव्येन चक्षुषा दृष्टं त्रैलोक्यं सचराचरम् ।
प्रसन्नवदना देवी राजानमिदमब्रवीत्

169.21

सन्तानं नास्ति ते राजंस्त्रैलोक्ये सचराचरे ।
यजस्व यज्ञपुरुषमपत्यं नास्ति ते ऽन्यथा

169.22

मया दृष्टं महीपाल त्रैलोक्यं दिव्यचक्षुषा ।
एवमुक्त्वा गता देवी राजा स्वगृहमागमत्

169.23

इयाज यज्ञपुरुषं संजाता कन्यका ततः ।
तेजस्विनी रूपवती सर्वलोकमनोहरा

169.24

देवगन्धर्वलोके ऽपि तादृशी नास्ति कामिनी ।
तस्या नाम कृतं पित्रा हर्षात् कामप्रमोदिनी

169.25

ततः कालेन ववृधे रूपेणास्तम्भयज्जगत् ।
हंसलीलागतिः सुभ्रूः स्तनभारावनामिता

169.26

रक्तमाल्याम्बरधरा कुण्डलाभरणोज्ज्वला ।
दिव्यानुलेपनवती सखीभिः सा सुरक्षिता

169.27

कुचमध्यगतो हारो विद्युन्मालेव राजते ।
भ्रमराञ्चितकेशी सा बिम्बोष्ठी चारुहासिनी

169.28

कर्णान्तप्राप्तनेत्राभ्यां पिबन्तीवाथ कामिनः ।
चन्द्रताम्बूलसौरभ्यैराकर्षन्तीव मन्मथम्

169.29

कम्बुग्रीवा चारुमध्या ताम्रपादाङ्गुलीनखा ।
निम्ननाभिः सुजघना रम्भोरू सुदती शुभा

169.30

मातापितृसुहृद्वर्गे क्रीडानन्दविवर्धिनी ।
एकस्मिन्दिवसे बाला सखीवृन्दसमन्विता

169.31

चन्दनागरुतांबूलधूपसौमनसाञ्चिता ।
गृहीत्वा पुष्पधूपादि गता देवीप्रपूजने

169.32

तडागतट उत्सृज्य भूषणान्यङ्गवेष्टकान् ।
चक्रुः सरसिताः क्रीडां जलमध्यगतास्तदा

169.33

क्रीडन्तीं तामवेक्ष्याथ ससखीं विमले जले ।
राक्षसः शम्बरो नाम श्येनरूपेण चागमत्

169.34

गृहीता जलमध्यस्था तेन सा काममोदिनी ।
खमुत्पपात दुष्टात्मा गृहीत्वाभरणान्यपि

169.35

वायुमार्गं गतः सो ऽथ कामिन्या सह भारत ।
अपतन्कुण्डलादीनि यत्र तोये महामुनिः

169.36

माण्डव्यो नर्मदातीरे काष्ठवत्संजितेन्द्रियः ।
लीनो माहेश्वरे स्थाने नारायणपदे परे

169.37

तस्य चानुचरो भ्राता भ्रातुः शुश्रूषणे रतः ।
तपोजपकृशीभूतो दध्यौ देवं जनार्दनम्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc