रेवाखाण्ड (संशोधित पाठ) · अध्याय 171
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे माण्डव्यशूलारोपणवर्णनं नाम सप्तत्यधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 171
श्रीमार्कण्डेय उवाच:
कथितं ब्राह्मणं द्रष्टुं शूले क्षिप्तं तपोधनैः ।
नारायणसमीपे तु गताः सर्वे महर्षयः
नारदो देवलो रैभ्यो यमः शातातपो ऽङ्गिराः ।
वसिष्ठो जमदग्निश्च याज्ञवल्क्यो बृहस्पतिः
कश्यपो ऽत्रिर्भरद्वाजो विश्वामित्रो ऽरुणिर्मुनिः ।
वालखिल्यादयो ऽन्ये च सर्वे ऽप्यृषिगणान्वयाः
ददृशुः शूलमारूढं माण्डव्यमृषिपुंगवाः ।
प्रोचुर्नारायणं विप्रं किं कुर्मस्तव चेप्सितम्
सर्वे ते तत्र सांनिध्यान् माण्डव्यस्य महात्मनः ।
संभ्रान्ता आगता ऊचुः किं मृतः किं नु जीवति
अवस्थां तस्य ते दृष्ट्वा विषादमगमन्परम् ।
असहित्वा तु तद्दुःखं सर्वे ते मनसा द्विजाः
पृच्छयतां यदि मन्येत राजानं भस्मसात्कुरु ।
तेषां तद्वचनं श्रुत्वा वाक्यं नारायणो ऽब्रवीत्
मयि जीवति मद्भ्राता ह्यवस्थामीदृशीं गतः ।
धिग् जीवितं च मे किंतु तपसो विद्यते फलम्
दृष्ट्वा शूलस्थितं ज्येष्ठं मन्मनो नु विदीर्यते ।
परं किं तु करिष्यामि येन राष्ट्रं सराजकम्
भस्मसाच्च करोम्यद्य भवद्भिः क्षम्यतामिह ।
एवमुक्त्वा गृहीत्वासौ करस्थमभिमन्त्रयेत्
क्रोधेन पश्यते यावत्तावद्धुंकारको ऽभवत् ।
तेन हुङ्कारशब्देन ऋषयो विस्मितास्तदा
माण्डव्यस्य समीपे तु ह्यपृच्छंस्ते द्विजोत्तमाः ।
निवारयसि किं विप्र शापं नृपजिघांसनम्
अपापस्य तु येनेह कृतमस्य जिघांसनम् ।
ऋषीणां वचनं श्रुत्वा कृच्छ्रान् माण्डव्यको ऽब्रवीत्
अभिवन्दामि वो मूर्ध्ना स्वागतं ऋषयः सदा ।
अर्घ्यसन्मानपूजार्हाः सर्वे ऽत्रोपविशन्तु ते
निविष्टैकाग्रमनसा सर्वान्माण्डव्यको ऽब्रवीत्
प्राप्तं दुःखं मया घोरं पूर्वजन्मार्जितं फलम् ।
मा विषादं कुरुध्वं भोः कृतं पापं तु भुज्यते
ऋषय ऊचुः ।
केन कर्मविपाकेन इह जात्यन्तरं व्रजेत् ।
दानधर्मफलेनैव केन स्वर्गं च गच्छति
माण्डव्य उवाच:
अदत्तदाना जायन्ते परभाग्योपजीविनः ।
न स्नानं न जपो होमो नातिथ्यं न सुरार्चनम्
न पर्वणि पितृश्राद्धं न दानं द्विजसत्तमाः ।
व्रजन्ति नरके घोरे यान्ति ते त्वन्त्यजां गतिम्
पुनर्दरिद्राः पुनरेव पापाः पापप्रभावान्नरके वसन्ति ।
तेनैव संसरिणि मर्त्यलोके जीवादिभूते कृमयः पतङ्गाः
ये स्नानशीला द्विजदेवभक्ता जितेन्द्रिया जीवदयानुशीलाः ।
ते देवलोकेषु वसन्ति हृष्टा ये धर्मशीला जितमानरोषाः
विद्याविनीता न परोपतापिनः स्वदारतुष्टाः परदारवर्जिताः ।
तेषां न लोके भयमस्ति किंचित्स्वभावशुद्धा गतकल्मषा हि ते
ऋषय ऊचुः ।
पूर्वजन्मनि विप्रेन्द्र किं त्वया दुष्कृतं कृतम् ।
येन कष्टमिदं प्राप्तं सन्धानं शूलगर्हितम्
शूलस्थं त्वां समालक्ष्य ह्यागताः सर्व एव हि ।
जीवन्तं त्वां प्रपश्याम त्वन्तरन्नवतारयन् ।
रुजासंतापजं दुःखं सोढ्वापि त्वमवेदनः
माण्डव्य उवाच:
स्वयमेव कृतं कर्म स्वयमेवोपभुज्यते ।
सुकृतं दुष्कृतं पूर्वे नान्ये भुञ्जन्ति कर्हिचित्
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
तथा पूर्वकृतं कर्म कर्तारम् उपगच्छति
न माता न पिता भ्राता न भार्या न सुताः सुहृत् ।
न कस्य कर्मणां लेपः स्वयमेवोपभुज्यते
श्रूयतां मम वाक्यं च भवद्भिः पृच्छितो ह्यहम् ।
पूर्वे वयसि भो विप्रा मलस्नानकृतक्षणः
अज्ञानाद्बालभावेन यूका कण्टे ऽधिरोपिता ।
तैलाभ्यक्तशिरोगात्रे मया यूका घृता न हि
कङ्कतीं रोप्य केशेषु सासा कण्टे ऽधिरोपिता ।
तेषु पापं कृतं सद्यः फलमेतन्ममाभवत्
किंचित्कालं क्षपित्वाहं प्राप्स्ये मोक्षं निरामयम् ।
भवन्तस्त्विह सन्तापं मां कुरुध्वं महर्षयः
इमाम् अवस्थां भुक्त्वाहं कंचिच्छपे न चोच्चरे ।
अहनि कतिचिच्छूले क्षपयिष्यामि किल्बिषम्
प्राक्तनं कर्म भुञ्जामि यन्मया संचितं द्विजाः ।
क्षन्तव्यमस्य राज्ञो ऽथ कोपश्चैव विसर्ज्यताम्
श्रुत्वा तु तस्य तद्वाक्यं माण्डव्यस्य महर्षयः ।
प्रहर्षमतुलं लब्ध्वा साधु साध्वित्यपूजयन्
नारायण उवाच:
इदं जलं मन्त्रपूतं कस्मिन्स्थाने क्षिपाम्यहम् ।
येन राजा भवेद्भस्म सराष्ट्रः सपुरोहितः
माण्डव्य उवाच:
इदं जलं च रक्षस्व कालकूटविषोपमम् ।
समुद्रे क्षिपयिष्यामि देवकार्यं समुत्थितम्
अथ ते मुनयः सर्वे माण्डव्यं प्रणिपत्य च ।
आमन्त्रयित्वा हर्षाच्च कश्यपाद्या गृहान्ययुः
गच्छमानास्तु ते चोक्ताः पञ्चमे ऽहनि तापसाः ।
आगन्तव्यं भवद्भिश्च मत्सकाशं प्रतिज्ञया
तथेति ते प्रतिज्ञाय नारदाद्या अदर्शनम् ।
गतेषु विप्रमुख्येषु शाण्डिली च तपोधना
द्वितीये ऽह्नि समायाता न तु बुद्ध्वाथ तं ऋषिम् ।
भर्तारं शिरसा धार्य रात्रौ पर्यटते स्म सा
न दृष्टः शूलके विप्रो भराक्रान्त्या युधिष्ठिर ।
स्खलिता तस्य जानुभ्यां शूलस्थस्य पतिव्रता
सर्वाङ्गेषु व्यथा जाता तस्याः प्रस्खलनान् मुनेः ।
ईदृशीं वर्तमानां च ह्यवस्थां पूर्वदैविकीम्
पुनः पापफलं किंचिद्धा कष्टं मम वर्तते ।
व्यथितो ऽहं त्वया पापे किमर्थं सूनकर्मणि
स्वैरिणीं त्वां प्रपश्यामि राक्षसी तस्करी नु किम् ।
एवमुक्त्वा क्षणं मोहात्क्रन्दमानो मुहुर्मुहुः
तपस्विनो ऽथ ऋषयः सर्वे संत्रस्तमानसाः ।
पश्यमाना मुनेः कष्टं पृच्छन्ते ते युधिष्ठिर
पर्यटसे किमर्थं त्वं निशीये वहनं नु किम् ।
क्षिप्तं तु झोलिकाभारं किंवागमनकारणम् ।
व्यथामुत्पाद्य ऋषये दुःखाद्दुःखविलासिनि
शाण्डिल्युवाच:
नासुरीं न च गन्धर्वीं न पिशाचीं न राक्षसीम् ।
पतिव्रतां तु मां सर्वे जानन्तु तपसि स्थिताम्
न मे कामो न मे क्रोधो न वैरं न च मत्सरः ।
अज्ञानाद् दृष्टिमान्द्याच्च स्खलनं क्षन्तुमर्हथ
वहनं भर्तृसौख्याय दिवा सम्पीड्यते रुजा ।
अयं भर्ता विजानीथ झोलिकासंस्थितः सदा
भरणं पानं वस्त्रं च ददाम्येतस्य रोगिणः ।
ऋषिः शौनकमुख्यो ऽसौ शाण्डिलीं मां विजानत
स्वभर्तृधर्मिणीं कोपं मा कुरुष्वातिथिं कुरु ।
सतां समीपं सम्प्राप्तां सर्वं मे क्षन्तुम् अर्हथ
ऋषय ऊचुः ।
परव्यथां न जानीषे व्यचरन्ती यदृच्छया ।
प्रभाते ऽभ्युदिते सूर्ये तव भर्ता मरिष्यति
आत्मदुःखात् परं दुःखं न जानासि कुलाधमे ।
तेन वाक्येन घोरेण शाण्डिली विमनाभवत्
परं विषादमापन्ना क्षणं ध्यात्वाब्रवीद् वचः ।
कोपात् संरक्तनयना निरीक्षन्ती मुनींस् तदा
सतां गेहे किल प्राप्ता भवतां चापकारिणी ।
सामेनातिथिपूजायां शिष्टे च गृहमागते
भवद्भिर् ईदृगातिथ्यं कृतं चैव ममैव तु ।
स्वर्गापवर्गधर्मश्च भवद्भिर् न निरीक्षितम्
प्राजापत्याम् इमां दृष्ट्वा मां यथा प्राकृताः स्त्रियः ।
भवन्तः स्त्रीबलं मेऽद्य पश्यन्तु दिवि देवताः
मरिष्यति न मे भर्ता ह्यादित्यो नोदयिष्यति ।
अन्धकारं जगत्सर्वं क्षीयते नाद्य शर्वरी
एवमुक्ते तया वाक्ये स्तम्भिते ऽर्के तमोमयम् ।
न च प्रजायते सर्वं निर्वषट्कारसत्क्रियम्
स्वाहाकारः स्वधाकारः पञ्चयज्ञविधिर्नहि ।
स्नानं दानं जपो नास्ति सन्ध्यालोपव्यतिक्रमः ।
षण्मासं च तदा पार्थ लुप्तपिण्डोदकक्रियम्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0