रेवाखाण्ड (संशोधित पाठ) · अध्याय 168
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मार्कण्डेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तषष्ट्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 168
श्रीमार्कण्डेय उवाच:
नर्मदादक्षिणे रोधस्यङ्कूरेश्वरमुत्तमम् ।
तीर्थं सर्वगुणोपेतं त्रिषु लोकेषु विश्रुतम्
यत्र सिद्धं महारक्ष आराध्य तु महेश्वरम् ।
शङ्करं जगतः प्राणं स्मृतिमात्रावहारिणम्
युधिष्ठिर उवाच:
किं तद्रक्षो द्विजश्रेष्ठ किंनाम कस्य वान्वये ।
एतद्विस्तरतः सर्वं कथयस्व ममानघ
अज्ञानतिमिरान्धा ये पुमांसः पापकारिणः ।
युष्मद्विधैर् दीपभूतैः पश्यन्ति सचराचरम्
धर्मपुत्रवचः श्रुत्वा मार्कण्डेयो मुनीश्वरः ।
स्मितं कृत्वा बभाषे तां कथां पापप्रणाशनीम्
मार्कण्डेय उवाच:
मानसो ब्रह्मणः पुत्रः पुलस्त्यो नाम पार्थिव ।
वेदशास्त्रप्रवक्ता च साक्षाद्वेधा इवापरः
तृणबिन्दुसुता तस्य भार्यासीत्परमेष्ठिनः ।
तस्य धर्मप्रसङ्गेन पुत्रो जातो महामनाः
यस्माद्वेदेतिहासैश्च सषडङ्गपदक्रमाः ।
विश्रान्ता ब्रह्मणा दत्ता नाम विश्रवसेति च
कस्मिंश्चिद् अथ काले च भरद्वाजो महामुनिः ।
स्वसुतां प्रददौ राजन्मुदा विश्रवसे नृप
स तया रमते सार्धं पौलोम्या मघवा इव ।
मुदा परमया राजन्ब्राह्मणो वेदवित्तमः
केनचित् त्वथ कालेन पुत्रः पुत्रगुणैर्युतः ।
जज्ञे विश्रवसो राजन्नाम्ना वैश्रवणः श्रुतः
सो ऽपि मौनव्रतं कृत्वा बालभावाद्युधिष्ठिर ।
सर्वभूताभयं दत्त्वा चचार परमं व्रतम्
तस्य तुष्टो महादेवो ब्रह्मा ब्रह्मर्षिभिः सह ।
सखित्वं चेश्वरो दत्त्वा धनदत्वं जगाम ह
यमेन्द्रवरुणानां च चतुर्थस्त्वं भविष्यसि ।
ब्रह्माप्युक्त्वा जगामाशु लोकपालत्वम् ईप्सितम्
ततस्त्वनन्तरे काले कैकसी नाम राक्षसी ।
पातालं भूतलं त्यक्त्वा विश्रवं चकमे पतिम्
पुत्रो ऽथ रावणो जातस्तस्या भरतसत्तम ।
कुम्भकर्णो महारक्षो धर्मात्मा च विभीषणः
कुम्भश्चैव विकुम्भश्च कुम्भकर्णसुतावुभौ ।
महाबलौ महावीर्यौ महान्तौ पुरुषोत्तम
अङ्कूरो राक्षसश्रेष्ठः कुम्भस्य तनयो महान् ।
विभीषणं च गुणवद्दृष्ट्वैवं राक्षसोत्तमः
ततः स यौवनं प्राप्य ज्ञात्वा रक्षः पितामहम् ।
परं निर्वेदमापन्नश्चचार सुमहत्तपः
दक्षिणं पश्चिमं गत्वा सागरं पूर्वमुत्तरम् ।
नर्मदायां प्रसङ्गेन ह्यङ्कूरो राक्षसेश्वरः
तपश्चचार सुमहद्दिव्यं वर्षशतं किल ।
ततस्तुष्टो महादेवः साक्षात् परपुरंजयः
वरेण छन्दयामास राक्षसं वृषकेतनः ।
वरं वृणीष्व भद्रं ते तव दास्यामि सुव्रत
प्रोवाच राक्षसो वाक्यं देवदेवं महेश्वरम् ।
वरदं सो ऽग्रतो दृष्ट्वा प्रणम्य च पुनःपुनः
यदि तुष्टो महादेव वरदो ऽसि सुरेश्वर ।
दुर्लभं सर्वभूतानाममरत्वं प्रयच्छ मे
मम नाम्ना स्थितो ऽनेन वरेण त्रिपुरान्तक ।
सदा संनिहितो ऽप्यत्र तीर्थे भवितुम् अर्हसि
ईश्वर उवाच:
यावद् विभीषणमतं यावद् धर्मनिषेवणम् ।
करिष्यसि दृढात्मा त्वं तावदेतद्भविष्यति
एवमुक्त्वा ययौ देवः सर्वदैवतपूजितः ।
विमानेनार्कवर्णेन कैलासं धरणीधरम्
गते चादर्शनं देवे स्नात्वाचम्य विधानतः ।
स्थापयामास राजेन्द्र ह्यङ्कूरेश्वरमुत्तमम्
गन्धपुष्पैस्तथा धूपैर्वस्त्रालङ्कारभूषणैः ।
पताकैश् चामरैश् छत्रैर् जयशब्दादिमंगलैः
पूजयित्वा सुरेशानं स्तोत्रैर्हृद्यैः सुपुष्कलैः ।
जगाम भवनं रक्षो यत्र राजा विभीषणः
पूजितः स यथान्यायं दानसन्मानगौरवैः ।
सौदर्ये स्थापितो भावे सो ऽवात्सीत्परयामुदा
तत्र तीर्थे तु यः स्नात्वा पूजयेत् परमेश्वरम् ।
अङ्कूरेश्वरनामानं सो ऽश्वमेधफलं लभेत्
माण्डव्यखातमारभ्य सङ्गमं वापि यच्छुभम् ।
रेवाया आमलक्याश्च देवक्षेत्रं महेश्वरम्
माण्डव्यखातात् पश्चिमतस्तीर्थं तदङ्कूरेश्वरम् ।
तत्र तीर्थे नरः स्नात्वा शुचिः प्रयतमानसः
सन्ध्यामाचम्य यत्नेन जपं कृत्वाथ भारत ।
तर्पयित्वा पित्ःन्देवान् मनुष्यान् भरतर्षभ
सचैलः क्लिन्नवसनो मौनमास्थाय संयतः ।
अष्टम्यां वा चतुर्दश्याम् उपोष्य विधिवन्नरः
पूजां यः कुरुते राजंस्तस्य पुण्यफलं शृणु ।
साग्रं तु योजनशतं तीर्थान्यायतनानि च
भवन्ति तानि दृष्टानि ततः पापैः प्रमुच्यते ।
तत्र तीर्थे तु यद्दानं देवमुद्दिश्य दीयते
स्नात्वा तु विधिवत्पात्रे तदक्षयमुदाहृतम् ।
होमाद्दशगुणं प्रोक्तं फलं जाप्ये ततो ऽधिकम्
त्रिगुणं चोपवासेन स्नानेन च चतुर्गुणम् ।
संन्यासं कुरुते यस्तु प्राणत्यागं करोति वा
अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ।
कृमिकीटपतङ्गानां तत्र तीर्थे युधिष्ठिर ।
अङ्कूरेश्वरनामाख्ये मृतानां सुगतिर्भवेत्
एतत्ते कथितं राजन्नङ्कूरेश्वरसम्भवम् ।
तीर्थं सर्वगुणोपेतं परमं पापनाशनम्
ये ऽपि शृण्वन्ति भक्त्येदं कीर्त्यमानं महाफलम् ।
लभन्ते नात्र सन्देहः शिवस्य भुवनं हि ते
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0