भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 167

167.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम षट्षष्ट्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 167
युधिष्ठिर उवाच:
नर्मदादक्षिणे कूले त्वच्चिह्नेनोपलक्षितम् ।
तीर्थम् एतन् ममाख्याहि सम्भवं च महामुने

167.2

मार्कण्डेय उवाच:
पुरा कृतयुगस्यादौ दक्षिणे गिरिमुत्तमम् ।
विन्ध्यं सर्वगुणोपेतं नियतो नियताशनः

167.3

ऋषिसङ्घैः कृतातिथ्यो दण्डके न्यवसं चिरम् ।
उषित्वा सुचिरं कालं वर्षाणामयुतं सुखी

167.4

तान् ऋषीन् समनुज्ञाप्य शिष्यैरनुगतस्ततः ।
निवृत्तः सुमहाभाग नर्मदाकूलम् आगतः

167.5

पुण्यं च रमणीयं च सर्वपापविनाशनम् ।
कृत्वाहमास्पदं तत्र द्विजसंघसमायुतः

167.6

ब्रह्मचारिभिराकीर्णं गार्हस्थ्ये सुप्रतिष्ठितैः ।
वानप्रस्थैश्च यतिभिर्यताहारैर् यतात्मभिः

167.7

तपस्विभिर्महाभागैः कामक्रोधविवर्जितैः ।
तत्राहं वर्षमयुतं तपः कृत्वा सुदारुणम्

167.8

आराधयं वासुदेवं प्रभुं कर्तारम् ईश्वरम् ।
जपंस्तपोभिर्नियमैर्नर्मदाकूलमाश्रितः

167.9

ततस्तौ वरदौ देवौ समायातौ युधिष्ठिर ।
प्रत्यक्षौ भास्करौ राजन्नुमाश्रीभ्यां विभूषितौ

167.10

प्रणम्याहं ततो देवौ भक्तियुक्तो वचो ऽब्रुवम् ।
भवन्तौ प्रार्थयामि स्म वरार्हौ वरदौ शिवौ

167.11

धर्मस्थितिं महाभागौ भक्तिं वानुत्तमां युवाम् ।
अजरो व्याधिरहितः पञ्चविंशतिवर्षवत् ।
अस्मिन्स्थाने सदा स्थेयं सह देवैरसंशयम्

167.12

एवमुक्तौ मया पार्थ तौ देवौ कृष्णशङ्करौ ।
मामूचतुः प्रहृष्टौ तौ निवासार्थं युधिष्ठिर

167.13

देवावूचतुः ।
अस्मिन्स्थाने स्थितौ विद्धि सह देवैः सवासवैः ।
एवमुक्त्वा ततो देवौ तत्रैवान्तरधीयताम्

167.14

अहं च स्थापयित्वा तौ शङ्करं कृष्णमव्ययम् ।
कृतकृत्यस्ततो जातः सम्पूज्य सुसमाहितः

167.15

तस्मिंस्तीर्थे नरः स्नात्वा पूजयेत् परमेश्वरम् ।
मार्कण्डेश्वरनाम्ना वै विष्णुं त्रिभुवनेश्वरम्

167.16

स गच्छेत्परमं स्थानं वैष्णवं शैवमेव च ।
घृतेन पयसा वाथ दध्ना च मधुना तथा

167.17

नार्मदेनोदकेनाथ गन्धधूपैः सुशोभनैः ।
पुष्पोपहारैश्च तथा नैवेद्यैर् नियतात्मवान्

167.18

एवं विष्णोः प्रकुर्वीत जागरं भक्तितत्परः ।
स्नानादीनि तथा राजन्प्रयतः शुचिमानसः

167.19

ज्येष्ठे मासि सिते पक्षे चतुर्दश्यामुपोषितः ।
द्वादश्यां कारयेद् देवपूजनं वैष्णवो नरः

167.20

एवं कृत्वा चतुर्दश्यामेकादश्यां नरोत्तम ।
वैष्णवं लोकम् आप्नोति विष्णुतुल्यो भवेन्नरः

167.21

माहेश्वरे च राजेन्द्र गणवन्मोदते पुरे ।
श्राद्धं च कुरुते तत्र पित्ःन् उद्दिश्य सुस्थिरः

167.22

तस्य ते ह्यक्षयां तृप्तिं प्राप्नुवन्ति न संशयः ।
नर्मदायां द्विजः स्नात्वा मौनी नियतमानसः

167.23

उपास्य सन्ध्यां तत्रस्थो जपं कृत्वा सुशोभनम् ।
तर्पयित्वा पित्ःन्देवान्मनुष्यांश्च यथाविधि

167.24

कृष्णस्य पुरतः स्थित्वा मार्कण्डेशस्य वा पुनः ।
ऋग्यजुःसाममन्त्रांश्च जपेदत्र प्रयत्नतः

167.25

ऋचमेकां जपेद्यस्तु ऋग्वेदस्य फलं लभेत् ।
यजुर्वेदस्य यजुषा साम्ना सामफलं लभेत्

167.26

एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ।
मृतप्रजा तु या नारी वन्ध्या स्त्रीजननी तथा

167.27

रुद्रांस्तु विधिवज्जप्त्वा ब्राह्मणो वेदतत्त्ववित् ।
लिङ्गस्य दक्षिणे पार्श्वे स्थापयेत् कलशं शिवम्

167.28

रुद्रैकादशभिर्मन्त्रैः स्नापयेत् कलशाम्भसा ।
पुत्रमाप्नोति राजेन्द्र दीर्घायुषमकल्मषम्

167.29

मार्कण्डेश्वरवृक्षान्यो दूरस्थान् अपि पश्यति ।
ब्रह्महत्यादिपापेभ्यो मुच्यते शङ्करो ऽब्रवीत्

167.30

य इदं शृणुयाद्भक्त्या पठेद्वा नृपसत्तम ।
सर्वपापविशुद्धात्मा जायते नात्र संशयः

167.31

इदं यशस्यमायुष्यं धन्यं दुःखप्रणाशनम् ।
पठतां शृण्वतां वापि सर्वपापप्रमोचनम्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc