भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 164

164.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नागतीर्थमाहात्म्यवर्णनं नाम त्रिषष्ट्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 164
श्रीमार्कण्डेय उवाच:
ततो गच्छेन्महाराज सांवौरं तीर्थमुत्तमम् ।
यत्र संनिहितो भानुः पूज्यमानः सुरासुरैः

164.2

तत्र ये पङ्गुतां प्राप्ताः शीर्णघ्राणनखा नराः ।
दद्रुमण्डलभिन्नाङ्गा मक्षिकाकृमिसंकुलाः

164.3

मातापितृभ्यां रहिता भ्रातृभार्याविवर्जिताः ।
अनाथा विकला व्यङ्गा मग्ना ये दुःखसागरे

164.4

तेषां नाथो जगद्योनिर्नर्मदातटमाश्रितः ।
सांवौरनाथो लोकानामार्तिहा दुःखनाशनः

164.5

तत्र तीर्थे तु यः स्नात्वा मासमेकं निरन्तरम् ।
पूजयेद् भास्करं देवं तस्य पुण्यफलं शृणु

164.6

यत्फलं चोत्तरे पार्थ तथा वै पूर्वसागरे ।
दक्षिणे पश्चिमे स्नात्वा तत्र तीर्थे तु तत् फलम्

164.7

कौमारे यौवने पापं वार्द्धके यच्च संचितम् ।
तत् प्रणश्यति सांवौरे स्नानमात्रान्न संशयः

164.8

न व्याधिर्नैव दारिद्र्यं न चैवेष्टवियोजनम् ।
सप्तजन्मानि राजेन्द्र सांवौरपरिसेवनात्

164.9

सप्तम्यामुपवासेन तद्दिने चाप्युपोषिते ।
स तत्फलमवाप्नोति तत्र स्नात्वा न संशयः

164.10

रक्तचन्दनमिश्रेण यदर्घ्येण फलं स्मृतम् ।
तत्र तीर्थे नृपश्रेष्ठ स्नात्वा तत्फलमाप्नुयात्

164.11

नर्मदासलिलं रम्यं सर्वपातकनाशनम् ।
निरीक्षितं विशेषेण सांवौरेण महात्मना

164.12

ते धन्यास्ते महात्मानस् तेषां जन्म सुजीवितम् ।
स्नात्वा पश्यन्ति देवेशं सांवौरेश्वरमुत्तमम्

164.13

सूर्यलोके वसेत् तावद् यावद् आभूतसम्प्लवम्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc