भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 163

163.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गोपेश्वरतीर्थमाहात्म्यवर्णनं नाम द्विषष्ट्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 163
श्रीमार्कण्डेय उवाच:
ततो गच्छेन्महाराज नागतीर्थमनुत्तमम् ।
आश्विनस्य सिते पक्षे पञ्चम्यां नियतः शुचिः

163.2

रात्रौ जागरणं कृत्वा गन्धधूपनिवेदनैः ।
प्रभाते विमले स्नात्वा श्राद्धं कृत्वा यथाविधि

163.3

मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ।
तत्र तीर्थे तु यो राजन्प्राणत्यागं करिष्यति

163.4

अनिवर्तिका गतिस्तस्य प्रोवाचेति शिवः स्वयम्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc