भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 165

165.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सांवौरेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःषष्ट्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 165
श्रीमार्कण्डेय उवाच:
नर्मदादक्षिणे कूले सिद्धेश्वरमिति श्रुतम् ।
तीर्थं परं महाराज सिद्धैः कृतमिति प्रभो

165.2

तत्र तीर्थं महापुण्यं सर्वतीर्थेषु पावनम् ।
नर्मदाया महाराज दक्षिणं कूलमाश्रितम्

165.3

तत्र तीर्थे नरः स्नात्वा तर्पयेत् पितृदेवताः ।
श्राद्धं तत्रैव यो दद्यात् पित्ःन् उद्दिश्य भारत

165.4

तृप्यन्ति पितरस्तस्य द्वादशाब्दान्न संशयः ।
तत्र तीर्थे तु यो भक्त्या स्नात्वा पूजयते शिवम्

165.5

रात्रौ जागरणं कृत्वा पठेत्पौराणिकीं कथाम् ।
ततः प्रभाते विमले स्नानं कुर्याद्यथाविधि

165.6

वीक्षते गिरिजाकान्तं स गच्छेत् परमां गतिम् ।
पुरा सिद्धा महाभागाः कपिलाद्या महर्षयः

165.7

जपन्तश्च परं ब्रह्म योगसिद्धा महाव्रताः ।
सिद्धिं ते परमां प्राप्ता नर्मदायाः प्रभावतः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc