रेवाखाण्ड (संशोधित पाठ) · अध्याय 161
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मोक्षतीर्थमाहात्म्यवर्णनं नाम षष्ट्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 161
श्रीमार्कण्डेय उवाच:
ततो गच्छेन्महाराज सर्पतीर्थमनुत्तमम् ।
यत्र सिद्धा महासर्पास्तपस्तप्त्वा युधिष्ठिर
वासुकिस्तक्षको घोरः सार्प ऐरावतस्तथा ।
कालियश्च महाभागः कर्कोटकधनंजयौ
शङ्खचूडो महातेजा धृतराष्ट्रो वृकोदरः ।
कुलिको वामनश्चैव तेषां ये पुत्रपौत्रिणः
तत्र तीर्थे महापुण्ये तपस्तप्त्वा सुदुष्करम् ।
भुञ्जन्ति विविधान्भोगान्क्रीडन्ति च यथासुखम्
तत्र तीर्थे तु यः स्नात्वा तर्पयेत् पितृदेवताः ।
वाजपेयफलं तस्य पुरा प्रोवाच शङ्करः
स्नातानां सर्पतीर्थे तु नराणां भुवि भारत ।
सर्पवृश्चिकजातिभ्यो न भयं विद्यते क्वचित्
मृतो भोगवतीं गत्वा पूज्यमानो महोरगैः ।
नागकन्यापरिवृतो महाभोगपतिर्भवेत्
मार्गशीर्षस्य मासस्य कृष्णपक्षे च याष्टमी ।
सोपवासः शुचिर्भूत्वा लिङ्गं सम्पूरयेत् तिलैः ।
यथाविभवसारेण गन्धपुष्पैः समर्चयेत्
एवं विधाय विधिवत्प्रणिपत्य क्षमापयेत् ।
तस्य यत्फलमुद्दिष्टं तच्छृणुष्व नरेश्वर
तिलास्तत्र च यत्संख्याः पत्रपुष्पफलानि च ।
तावत् स्वर्गपुरे राजन्मोदते कालमीप्सितम्
ततः स्वर्गात्परिभ्रष्टो जायते विमले कुले ।
सुरूपः सुभगश्चैव धनकोटिपतिर्भवेत्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0