रेवाखाण्ड (संशोधित पाठ) · अध्याय 160
॥ इति श्रीस्कन्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे ऽनरकेश्वरतीर्थमाहात्म्यवर्णनं नामैकोनषष्ट्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 160
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्पाण्डुपुत्र मोक्षतीर्थमनुत्तमम् ।
सेवितं देवगन्धर्वैर्मुनिभिश्च तपोधनैः
बहवस्तन्न जानन्ति विष्णुमायाविमोहिताः ।
यत्र सिद्धा महाभागा ऋषयः सतपोधनाः
पुलस्त्यः पुलहो विद्वान्क्रतुश्चैव महामतिः ।
प्राचेतसो वसिष्ठश्च दक्षो नारद एव च
एते चान्ये महाभागाः सप्तसाहस्रसंज्ञिताः ।
मोक्षं गताः सह सुतैस्तत्तीर्थं तेन मोक्षदम्
तत्र प्रवाहमध्ये तु पतिता तमहा नदी ।
तत्र तत्सङ्गमं तीर्थं सर्वपापक्षयंकरम्
ऋग्यजुःसामसंज्ञानाम् अभ्यस्तानां तु यत्फलम् ।
सम्यग्जप्त्वा तु विधिना गायत्रीं तत्र तल्लभेत्
तत्र दत्तं हुतं जप्तं तीर्थसेवार्जितं फलम् ।
सर्वमक्षयतां याति मोक्षसाधनमुत्तमम्
तत्र तीर्थे मृतानां तु संन्यासेन द्विजन्मनाम् ।
अनिवर्तिका गतिस्तेषां मोक्षतीर्थप्रभावतः
एष ते विधिरुद्दिष्टः संक्षेपेण मयानघ ।
व्युष्टिस्तीर्थस्य महती पुराणे याभिधीयते
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0