भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 162

162.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सर्पतीर्थमाहात्म्यवर्णनं नामैकषष्ट्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 162
श्रीमार्कण्डेय उवाच:
गोपेश्वरं ततो गच्छेत् सर्पक्षेत्रादनन्तरम् ।
यत्र स्नानेन चैकेन मुच्यन्ते पातकैर्नराः

162.2

तत्र तीर्थे तु यः स्नात्वा कुरुते प्राणसंक्षयम् ।
स गच्छेद्यदि युक्तो ऽपि पापेन शिवमन्दिरम्

162.3

तत्र तीर्थे तु यः स्नात्वा पूजयेद्देवमीश्वरम् ।
मुच्यते सर्वपापैश्च रुद्रलोकं स गच्छति

162.4

क्रीडित्वा च यथाकामं रुद्रलोके महातपाः ।
इह मानुष्यतां प्राप्य राजा भवति धार्मिकः

162.5

हस्त्यश्वरथसम्पन्नो दासीदाससमन्वितः ।
पूज्यमानो नरेन्द्रैश्च जीवेद्वर्षशतं सुखी

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc