रेवाखाण्ड (संशोधित पाठ) · अध्याय 157
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शुक्लतीर्थमहात्म्यवर्णनं नाम षट्पञ्चाशदधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 157
श्रीमार्कण्डेय उवाच:
तस्यैवानन्तरं राजञ्छुक्लतीर्थसमीपतः ।
वासुदेवस्य तीर्थं तु सर्वलोकेषु पूजितम्
तद्धि पुण्यं सुविख्यातं नर्मदायां पुरातनम् ।
यत्र हुङ्कारमात्रेण रेवा क्रोशं जगाम सा
यदा प्रभृति राजेन्द्र हुङ्कारेण गता सरित् ।
तदाप्रभृति स स्वामी हुङ्कारः शब्दितो बुधैः
हुङ्कारतीर्थे यः स्नात्वा पश्यत्यव्ययमच्युतम् ।
स मुच्यते नरः पापैः सप्तजन्म कृतैरपि
संसारार्णवमग्नानां नराणां पापकर्मिणाम् ।
नैवोद्धर्ता जगन्नाथं विना नारायणं परः
सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पितम् ।
तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषां हृदिस्थो भगवान्मङ्गलायतनो हरिः
यद् अन्यद् देवतार्चायाः फलं प्राप्नोति मानवः ।
साष्टाङ्गप्रणिपातेन तत्फलं लभते हरेः
रेणुगुण्ठितगात्रस्य यावन्तो ऽस्य रजःकणाः ।
तावद्वर्षसहस्राणि विष्णुलोके महीयते
सम्मार्जनाभ्युक्षणलेपनेन तदालये नश्यति सर्वपापम् ।
नारी नराणां परया तु भक्त्या दृष्ट्वा तु रेवां नरसत्तमस्य
येनार्चितो भगवान्वासुदेवो जन्मार्जितं नश्यति तस्य पापम् ।
स याति लोकं गरुडध्वजस्य विधूतपापः सुरसङ्घपूज्यताम्
शाठ्येनापि नमस्कारं प्रयुञ्जंश् चक्रपाणिनः ।
सप्तजन्मार्जितं पापं गच्छत्याशु न संशयः
पूजायां प्रीयते रुद्रो जपहोमैर् दिवाकरः ।
शङ्खचक्रगदापाणिः प्रणिपातेन तुष्यति
भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् ।
विषमविषयतोये मज्जतामप्लवानां भवति शरणमेको विष्णुपोतो नराणाम्
हुङ्कारतीर्थे राजेन्द्र शुभं वा यदि वाशुभम् ।
यत्कृतं पुरुषव्याघ्र तन्नश्यति न कर्हिचित्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0