भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 156

156.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे चाणक्यसिद्धिप्राप्तिवर्णनं नाम पञ्चपञ्चाशदधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 156
श्रीमार्कण्डेय उवाच:
नास्ति लोकेषु तत्तीर्थं पृथिव्यां यन्नरेश्वर ।
शुक्लतीर्थेन सदृशमुपमानेन गीयते

156.2

शुक्लतीर्थं महातीर्थं नर्मदायां व्यवस्थितम् ।
प्रागुदक्प्रवणे देशे मुनिसङ्घनिषेवितम्

156.3

वैशाखे च तथा मासि कृष्णपक्षे चतुर्दशी ।
कैलासादुमया सार्द्धं स्वयमायाति शङ्करः

156.4

मध्याह्नसमये स्नात्वा पश्यत्यात्मानमात्मना ।
ब्रह्मविष्ण्विन्द्रसहितः शुक्लतीर्थे समाहितः

156.5

कार्त्तिक्यां तु विशेषेण वैशाख्यां च नरोत्तम ।
ब्रह्मविष्णुमहादेवान् स्नात्वा पश्यति तद्दिने

156.6

देवराजः सुरैः सार्द्धं वायुमार्गव्यवस्थितः ।
कृष्णपक्षे चतुर्दश्यां स्नात्वा पश्यति शङ्करम्

156.7

गन्धर्वाप्सरसो यक्षाः सिद्धविद्याधरोरगाः ।
तद्दिने ते ऽपि देवेशं दृष्ट्वा मुञ्चन्ति किल्बिषम्

156.8

अर्धयोजनविस्तारं तदर्द्धेनैव चायतम् ।
शुक्लतीर्थं महापुण्यं महापातकनाशनम्

156.9

यत्र स्थितैः प्रदृश्यन्ते वृक्षाग्राणि नरोत्तमैः ।
तत्र स्थिता महापापैर् मुच्यन्ते पूर्वसंचितैः

156.10

पापोपपातकैर्युक्तो नरः स्नात्वा प्रमुच्यते ।
उपार्जिता विनश्येत भ्रूणहत्यापि दुस्त्यजा

156.11

यस्मात्तत्रैव देवेश उमया सह तिष्ठति ।
वैशाख्यां च विशेषेण कैलासादेति शङ्करः

156.12

तेन तीर्थं महापुण्यं सर्वपातकनाशनम् ।
कथितं ब्रह्मणा पूर्वं मया तव तथा नृप

156.13

रजकेन यथा धौतं वस्त्रं भवति निर्मलम् ।
तथा तत्र वपुःस्नानं पुरुषस्य भवेच्छुचि

156.14

पूर्वे वयसि पापानि कृत्वा पुष्टानि मानवः ।
अहोरात्रोषितो भूत्वा शुक्लतीर्थे व्यपोहति

156.15

शुक्लतीर्थे महाराज राकां रेवाजलाञ्जलिम् ।
कल्पकोटिसहस्राणि दत्त्वा स्युः पितरः शिवाः

156.16

न माता न पिता बन्धुः पतनं नरकार्णवे ।
उद्धरन्ति यथा पुण्यं शुक्लतीर्थे नरेश्वर

156.17

तपसा ब्रह्मचर्येण न तां गच्छन्ति सद्गतिम् ।
शुक्लतीर्थे मृतो जन्तुर्देहत्यागेन यां लभेत्

156.18

कार्त्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशीम् ।
घृतेन स्नापयेद् देवमुपोष्य प्रयतो नरः

156.19

स्नात्वा प्रभाते रेवायां दद्यात्सघृतकम्बलम् ।
सहिरण्यं यथाशक्ति देवमुद्दिश्य शङ्करं

156.20

देवस्य पूरणं कुर्याद्घृतेन घृतकम्बलम् ।
स गच्छति महातेजाः शिवलोकं मृतो नरः

156.21

एकविंशकुलोपेतो यावदाभूतसम्प्लवम् ।
शुक्लतीर्थे नरः स्नात्वा ह्युमां रुद्रं च यो ऽर्चयेत्

156.22

गन्धपुष्पादिधूपैश्च सो ऽश्वमेधफलं लभेत् ।
मासोपवासं यः कुर्यात् तत्र तीर्थे नरेश्वर

156.23

मुच्यते स महत्पापैः सप्तजन्मसुसंचितैः ।
उष्ट्रीक्षीरमविक्षीरं नवश्राद्धे च भोजनम्

156.24

वृषलीगमनं चैव तथाभक्ष्यस्य भक्षणम् ।
अविक्रये ऽनृते पापं माहिषे ऽयाज्ययाजके

156.25

वार्द्धुष्ये पङ्क्तिगरदे देवब्राह्मणदूषके ।
एवमादीनि पापानि तथान्यान्यपि भारत

156.26

चान्द्रायणेन नश्यन्ति शुक्लतीर्थे न संशयः ।
शुक्लतीर्थे तु यः स्नात्वा तर्पयेत् पितृदेवताः

156.27

तस्य ते द्वादशाब्दानि तृप्तिं यान्ति सुतर्पिताः ।
पादुकोपानहौ छत्रं शय्यामासनम् एव च

156.28

सुवर्णं धनधान्यं च श्राद्धं युक्तहलं तथा ।
अन्नं पानीयसंहितं तस्मिंस्तीर्थे ददन्ति ये

156.29

हृष्टाः पुष्टा मृता यान्ति शिवलोकं न संशयः ।
तत्र तीर्थे तु यो भक्त्या शिवमुद्दिश्य भारत

156.30

भिक्षामात्रं तथान्नं ये ते ऽपि स्वर्यान्ति वै नराः ।
यज्विनां व्रतिनां चैव तत्र तीर्थनिवासिनाम्

156.31

अपि वालाग्रमात्रं हि दत्तं भवति चाक्षयम् ।
अग्निप्रवेशं यः कुर्याच्छुक्लतीर्थे समाहितः

156.32

रागद्वेषविनिर्मुक्तो हृदि ध्यात्वा जनार्दनम् ।
सर्वकामसुसम्पूर्णः स गच्छेद् वारुणं पुरम्

156.33

न रोगो न जरा तत्र यत्र देवो ऽंभसां पतिः ।
अनाशकं तु यः कुर्यात् तस्मिंस्तीर्थे युधिष्ठिर

156.34

अनिवर्तिका गतिस् तस्य रुद्रलोकाद् असंशयम् ।
अवशः स्ववशो वापि जन्तुस्तत्क्षेत्रमण्डले

156.35

मृतः स तु न सन्देहो रुद्रस्यानुचरो भवेत् ।
शुक्लतीर्थे तु यः कन्यां शक्त्या दद्याद् अलंकृताम्

156.36

विधिना यो नृपश्रेष्ठ कुरुते वृषमोक्षणम् ।
तस्य यत् फलम् उद्दिष्टं पुराणे रुद्रभाषितम्

156.37

तदहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप ।
यावन्तो रोमकूपाः स्युः सर्वाङ्गेषु पृथक्पृथक्

156.38

तावद् वर्षसहस्राणि रुद्रलोके महीयते ।
शुक्लतीर्थे तु यद् दत्तं ग्रहणे चन्द्रसूर्ययोः

156.39

वर्धते तद्गुणं तावद्दिनानि दश पञ्च च ।
शुक्लतीर्थे शुचिर्भूत्वा यः करोति प्रदक्षिणम्

156.40

पृथ्वी प्रदक्षिणा तेन कृता यत्तस्य तत्फलम् ।
शोभनं मिथुनं यस्तु रुद्रम् उद्दिश्य पूजयेत्

156.41

सप्त जन्मानि तस्यैव वियोगो न च वै क्वचित् ।
एतत्ते कथितं राजन् संक्षेपेण फलं महत्

156.42

शुक्लतीर्थस्य यत्पुण्यं यथा देवाच्छ्रुतं मया ।
य इदं शृणुयाद्भक्त्या पुराणे विहितं फलम्

156.43

स लभेन्नात्र सन्देहः सत्यं सत्यं पुनः पुनः ।
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम्

156.44

मोक्षार्थी लभते मोक्षं स्नानदानफलं महत्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc