भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 158

158.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हुङ्कारस्वामितीर्थमाहात्म्यवर्णनं नाम सप्तपञ्चाशदधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 158
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्परं तीर्थं सङ्गमेश्वरमुत्तमम् ।
नर्मदादक्षिणे कूले सर्वपापभयापहम्

158.2

धनदस्तत्र विश्रान्तो मुहूर्तं नृपसत्तम ।
पितृलोकात्समायातः कैलासं धरणीधरम्

158.3

प्रत्ययार्थं नृपश्रेष्ठ ह्यद्यापि धरणीतले ।
कृष्णवर्णा हि पाषाणा दृश्यन्ते स्फटिकोज्ज्वलाः

158.4

विन्ध्यनिर्झरनिष्क्रान्ता पुण्यतोया सरिद्वरा ।
प्रविष्टा नर्मदातोये सर्वपापप्रणाशने

158.5

सङ्गमे तत्र यः स्नात्वा पूजयेत् सङ्गमेश्वरम् ।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्य् असंशयम्

158.6

घण्टापताकावितनं यो ददेत्सङ्गमेश्वरे ।
हंसयुक्तविमानस्थो दिव्यस्त्रीशतसंवृतः

158.7

स रुद्रपदमाप्नोति रुद्रस्यानुचरो भवेत् ।
दधि भक्ते न देवस्य यः कुर्याल्लिङ्गपूरणम्

158.8

सिक्थसंख्यं शिवे लोके स वसेत् कालम् ईप्सितम् ।
श्रीफलैः पूरयेल्लिङ्गं निःस्वो भूत्वा भवस्य तु

158.9

सो ऽपि तत्फलमाप्नोति गतः स्वर्गे नरेश्वर ।
अक्षया सन्ततिस्तस्य जायते सप्तजन्मसु

158.10

स्नपनं देवदेवस्य दध्ना मधुघृतेन वा ।
यः करोति विधानेन तस्य पुण्यफलं शृणु

158.11

धृतक्षीरवहा नद्यो यत्र वृक्षा मधुस्रवाः ।
तत्र ते मानवा यान्ति सुप्रसन्ने महेश्वरे

158.12

पत्रं पुष्पं फलं तोयं यस्तु दद्यान्महेश्वरे ।
तत्सर्वं सप्तजन्मानि ह्यक्षयं फलम् अश्नुते

158.13

सर्वेषामेव पात्राणां महापात्रं महेश्वरः ।
तस्मात् सर्वप्रयत्नेन पूजनीयो महेश्वरः

158.14

ब्रह्मचर्यस्थितो नित्यं यस्तु पूजयते शिवम् ।
इह जीवन्स देवेशो मृतो गच्छेद् अनामयम्

158.15

शिवे तु पूजिते पार्थ यत्फलं प्राप्यते बुधैः ।
योगीन्द्रे चैव तत्पार्थ पूजिते लभते फलम्

158.16

ते धन्यास्ते महात्मानस् तेषां जन्म सुजीवितम् ।
येषां गृहेषु भुञ्जन्ति शिवभक्तिरता नराः

158.17

संनिरुध्येन्द्रियग्रामं यत्रयत्र वसेन्मुनिः ।
तत्र तत्र कुरुक्षेत्रं नैमिषं पुष्कराणि च

158.18

यत्फलं वेदविदुषि भोजिते शतसंख्यया ।
तत्फलं जायते पार्थ ह्येकेन शिवयोगिना

158.19

यत्र भुञ्जति भस्माङ्गी मूर्खो वा यदि पण्डितः ।
तत्र भुञ्जति देवेशः सपत्नीको वृषध्वजः

158.20

विप्राणां वेदविदुषां कोटिं संभोज्य यत्फलम् ।
भिक्षामात्रप्रदानेन तत्फलं शिवयोगिनाम्

158.21

सङ्गमेश्वरमासाद्य प्राणत्यागं करोति यः ।
न तस्य पुनरावृत्तिः शिवलोकात् कदाचन

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc