भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 149

149.1

॥ इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मङ्गलेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टाचत्वारिंशदधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 149
श्रीमार्कण्डेय उवाच:
तस्यैवानन्तरं तीर्थं लिङ्गेश्वरमिति श्रुतम् ।
दर्शनाद् देवदेवस्य यत्र पापं प्रणश्यति

149.2

कृत्वा तु कदनं घोरं दानवानां युधिष्ठिर ।
वाराहं रूपमास्थाय नर्मदायां व्यवस्थितः

149.3

तत्र तीर्थे तु यः स्नानं कृत्वा देवं नमस्यति ।
स मुच्यते नृपश्रेष्ठ महापापैः पुराकृतैः

149.4

द्वादश्यां कृष्णपक्षस्य शुक्ले च समुपोषितः ।
गन्धमाल्यैर्जगन्नाथं पूजयेत् पाण्डुनन्दन

149.5

ब्राह्मणांश्च महाभाग दानसंमानभोजनैः ।
पूजयेत्परया भक्त्या तस्य पुण्यफलं शृणु

149.6

सत्रयाजिफलं जन्तुर् लभते द्वादशाब्दकैः ।
ब्राह्मणान्भोजयंस्तत्र तदेव लभते फलम्

149.7

तर्पयित्वा पित्ःन् देवान् स्नात्वा तद्गतमानसः ।
जपेद् द्वादशनामानि देवस्य पुरतः स्थितः

149.8

मासि मासि निराहारो द्वादश्यां कुरुनन्दन ।
केशवं पूजयेन् नित्यं मासि मार्गशिरे बुधः

149.9

पौषे नारायणं देवं माघमासे तु माधवम् ।
गोविन्दं फाल्गुने मासि विष्णुं चैत्रे समर्चयेत्

149.10

वैशाखे मधुहन्तारं ज्येष्ठे देवं त्रिविक्रमम् ।
वामनं तु तथाषाढे श्रावणे श्रीधरं स्मरेत्

149.11

हृषीकेशं भाद्रपदे पद्मनाभं तथाश्विने ।
दामोदरं कार्त्तिके तु कीर्तयन् नावसीदति

149.12

वाचिकं मानसं पापं कर्मजं यत्पुरा कृतम् ।
तन्नश्यति न सन्देहो मासनामानुकीर्तनात्

149.13

स्वयं विनुद्धः सततमुन्मिषन्निमिषंस्तथा ।
शीघ्रं प्रपश्य भुञ्जानो मन्त्रहीनं समुद्गिरेत्

149.14

परमापद्गतस्यापि जन्तोरेषा प्रतिक्रिया ।
यन्मासाधिपतेर् विष्णोर् मासनामानुकीर्तनम्

149.15

ता निशास्ते च दिवसास्ते मासास्ते च वत्सराः ।
नराणां सफला येषु चिन्तितो भगवान्हरिः

149.16

परमापद्गतस्यापि यस्य देवो जनार्दनः ।
नावसर्पति हृत्पद्मात्स योगी नात्र संशयः

149.17

ते भाग्यहीना मनुजाः सुशोच्यास्ते भूमिभाराय कृतावताराः ।
अचेतनास्ते पशुभिः समाना ये भक्तिहीना भगवत्यनन्ते

149.18

ते पूर्णकार्याः पुरुषाः पृथिव्यां ते स्वाङ्गपाताद्भुवनं पुनन्ति ।
विचक्षणा विश्वविभूषणास्ते ये भक्तियुक्ता भगवत्यनन्ते

149.19

स एव सुकृती तेन लब्धं जन्मतरोः फलम् ।
चित्ते वचसि काये च यस्य देवो जनार्दनः

149.20

एतत्तीर्थवरं पुण्यं लिङ्गो यत्र जनार्दनः ।
वञ्चयित्वा रिपून्संख्ये क्रोधो भूत्वा सनातनः

149.21

उपप्लवे चन्द्रमसो रवेश्च यो ह्यष्टकानामयनद्वये च ।
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात् पितृभ्यः प्रयतो मनुष्यः

149.22

घोणोन्मीलितमेरुरन्ध्रनिवहो दुःखाब्धिमज्जत्प्लवः प्रादुर्भूतरसातलोदरबृहत्पङ्कार्धमग्नक्षुरः ।
फूत्कारोत्करनुन्नवातविदलद्दिग्दन्तिनादश्रुतिन्यस्तस्तब्धवपुः श्रुतिर्भवतु वः क्रोडो हरिः शान्तये

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc