रेवाखाण्ड (संशोधित पाठ) · अध्याय 150
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे लिङ्गवाराहतीर्थमाहात्म्यवर्णनं नामैकोनपञ्चाशदधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 150
श्रीमार्कण्डेय उवाच:
ततो गच्छेन्महाराज कुसुमेश्वरमुत्तमम् ।
दक्षिणे नर्मदाकूले उपपातकनाशनम्
कामेन स्थापितो देवः कुसुमेश्वरसंज्ञितः ।
ख्यातः सर्वेषु लोकेषु देवदेवः सनातनः
कामो मनोभवो विश्वः कुसुमायुधचापभृत् ।
स कामान् ददाति सर्वान् पूजितो मीनकेतनः
तेन निर्दग्धकायेन चाराध्य परमेश्वरम् ।
अनङ्गेन तथा प्राप्तमङ्गित्वं नर्मदातटे
युधिष्ठिर उवाच:
अङ्गिभृतस्य नाशत्वमनङ्गस्य तु मे वद ।
न श्रुतं न च मे दृष्टं भूतपूर्वं कदाचन
एतत्सर्वं यथा वृत्तमाचक्ष्व द्विजसत्तम ।
श्रोतुमिच्छामि विप्रेन्द्र भीमार्जुनयमैः सह
श्रीमार्कण्डेय उवाच:
आदौ कृतयुगे तात देवदेवो महेश्वरः ।
तपश्चचार विपुलं गङ्गासागरसंस्थितः
तेन सम्पादिता लोकास्तपसा ससुरासुराः ।
जग्मुस्ते शरणं सर्वे देवदेवं शचीपतिम्
व्यापकः सर्वभूतानां देवदेवो महेश्वरः ।
संतापयति लोकांस्त्रींस्तन्निवारय गोपते
श्रुत्वा तद्वचनं तेषां देवानां बलवृत्रहा ।
चिन्तयामास मनसा तपोविघ्नायचादिशत्
अप्सरां मेनकां रम्भां घृताचीं च तिलोत्तमाम् ।
वसन्तं कोकिलं कामं दक्षिणानिलमुत्तमम्
गत्वा तत्र महादेवं तपश्चरणतत्परम् ।
क्षोभयध्वं यथान्यायं गङ्गासागरवासिनम्
एवमुक्तास्तु ते सर्वे देवराजेन भारत ।
देवाप्सरःसमोपेता जग्मुस्ते हरसन्निधौ
वसन्तमासे कुसुमाकराकुले मयूरदात्यूहसुकोकिलाकुले ।
प्रनृत्य देवाप्सरगीतसंकुले प्रवाति वाते यमनैरृताकुले
तेन संमूर्छिताः सर्वे संसर्गाच्च खगोत्तमाः ।
मधुमाधवगन्धेन सकिन्नरमहोरगाः
यावद् आलोकते तावत्तद्वनं व्याकुलीकृतम् ।
वीक्षते मदनाविष्टं दशावस्थागतं जनम्
देवदेवो ऽपि देवानाम् अवस्थात्रितयं गतः ।
सात्त्विकीं राजसीं राजंस्तामसीं तां शृणुष्व मे
एकं योगसमाधिना मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या जघनस्थलस्तनतटे शृङ्गारभारालसम् ।
अन्यद्दूरनिरस्तचापमदनक्रोधानलोद्दीपितं शम्भोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः
एवं दृष्टः स देवेन सशरः सशरासनः ।
भस्मीभूतो गतः कामो विनाशः सर्वदेहिनाम्
कामं दृष्ट्वा क्षयं यातं तत्र देवाप्सरोगणाः ।
भीता यथागतं सर्वे जग्मुश्चैव दिशो दश
कामेन रहिता लोकाः ससुरासुरमानवाः ।
ब्रह्माणं शरणं जग्मुर्देवा इन्द्रपुरोगमाः
सीदमानं जगद् दृष्ट्वा तमूचुः परमेष्ठिनम् ।
जानासि त्वं जगच्छेषं प्रभो मैथुनसम्भवात्
प्रजाः सर्वा विशुष्यन्ति कामेन रहिता विभो
एतच्छ्रुत्वा वचस्तेषां देवानां प्रपितामहः ।
जगाम सहितस् तत्र यत्र देवो महेश्वरः
अतोषयज्जगन्नाथं सर्वभूतमहेश्वरम् ।
स्तुतिभिस्तण्डकैः स्तोत्रैर्वेदवेदाङ्गसम्भवैः
ततस् तुष्टो महादेवो देवानां परमेश्वरः ।
उवाच मधुरां वाणीं देवान्ब्रह्मपुरोगमान्
किं कार्यं कश्च सन्तापः किं वागमनकारणम् ।
देवतानाम् ऋषीणां च कथ्यतां मम माचिरम्
देवा ऊचुः ।
कामनाशाज्जगन्नाशो भवितायं चराचरे ।
त्रैलोक्यं त्वं पुनः शम्भो उत्पादयितुम् अर्हसि
एतच्छ्रुत्वा वचस् तेषां विमृश्य परमेश्वरः ।
चिन्तयामास कामस्य विग्रहं भुवि दुर्लभम्
आजगाम ततः शीघ्रम् अनङ्गो ह्यङ्गतां गतः ।
प्राणदः सर्वभूतानां पश्यतां नृपसत्तम
ततः शङ्खनिनादेन भेरीणां निःस्वनेन च ।
अभ्यनन्दंस् ततो देवं सुरासुरमहोरगाः
नमस्ते देवदेवेश कृतार्थाः सुरसत्तमाः ।
विसर्जिताः पुनर्जग्मुर् यथागतम् अरिन्दम
गतेषु सर्वदेवेषु कामदेवो ऽपि भारत ।
तपश्चचार विपुलं नर्मदातटमाश्रितः
तपोजपकृशीभूतो दिव्यं वर्षशतं किल ।
महाभूतैर्विघ्नकरैः पीड्यमानः समन्ततः
आत्मविघ्नविनाशार्थं संस्मृतः कुण्डलेश्वरः ।
चकार रक्षां सर्वत्र शरपाते नृपोत्तम
ततस्तुष्टो महादेवो दृढभक्त्या वरप्रदः ।
वरेण छन्दयामास कामं कामविनाशनः
ज्ञात्वा तुष्टं महादेवमुवाच झषकेतनः ।
प्रणतः प्राञ्जलिर् भूत्वा देवदेवं त्रिलोचनम्
यदि तुष्टो ऽसि देवेश यदि देयो वरो मम ।
अत्र तीर्थे जगन्नाथ सदा संनिहितो भव
तथेति चोक्त्वा वचनं देवदेवो महेश्वरः ।
जगामाकाशमाविश्य स्तूयमानो ऽप्सरोगणैः
गते चादर्शनं देवे कामदेवो जगद्गुरुम् ।
स्थापयामास राजेन्द्र कुसुमेश्वरसंज्ञितम्
तत्र तीर्थे तु यः स्नात्वा ह्युपवासपरायणः ।
चैत्रमासे चतुर्दश्यां मदनस्य दिने ऽथवा
प्रभाते विमले प्राप्ते स्नात्वा पूज्य दिवाकरम् ।
तिलमिश्रेण तोयेन तर्पयेत् पितृदेवताः
कृत्वा स्नानं विधानेन पूजयित्वा च तं नृप ।
पिण्डनिर्वपणं कुर्यात् तस्य पुण्यफलं शृणु
सत्त्रयाजिफलं यच्च लभते द्वादशाब्दिकम् ।
पिण्डदानात्फलं तच्च लभते नात्र संशयः
अङ्कुल्लमूले यः पिण्डं पित्ःनुद्दिश्य दापयेत् ।
तस्य ते द्वादशाब्दानि तृप्तिं यान्ति पितामहाः
कृमिकीटपतङ्गा ये तत्र तीर्थे युधिष्ठिर ।
प्राप्नुवन्ति मृताः स्वर्गं किं पुनर्ये नरा मृताः
संन्यासं कुरुते यो ऽत्र जितक्रोधो जितेन्द्रियः ।
कुसुमेशे नरो भक्त्या स गच्छेच्छिवमन्दिरम्
तत्र दिव्याप्सरोभिश्च देवगन्धर्वगायनैः ।
क्रीडते सेव्यमानस्तु कल्पकोटिशतं नृप
पूर्णे चैव ततः काल इह मानुष्यतां गतः ।
जायते राजराजेन्द्रैः पूज्यमानो नृपो महान्
सुरूपः सुभगो वाग्मी विक्रान्तो मतिमाञ्छुचिः ।
जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः
एतत्पुण्यं पापहरं तीर्थकोटिशताधिकम् ।
कुसुमेशेति विख्यातं सर्वदेवनमस्कृतम्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0