रेवाखाण्ड (संशोधित पाठ) · अध्याय 148
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तचत्वारिंशदधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 148
श्रीमार्कण्डेय उवाच:
ततो गच्छेन्महीपाल तीर्थमङ्गारकं शिवम् ।
उत्तरे नर्मदाकूले सर्वपापक्षयंकरम्
चतुर्थ्यङ्गारकदिने संकल्प्य कृतनिश्चयः ।
स्नायादस्तं गते सूर्ये सन्ध्योपासनतत्परः
पूजयेल्लोहितं भक्त्या गन्धमाल्यविभूषणैः ।
संस्थाप्यस्थण्डिले देवं रक्तचन्दनचर्चितम्
अङ्गारकायेति नमः कर्णिकायां प्रपूजयेत् ।
कुजाय भूमिपुत्राय रक्ताङ्गाय सुवाससे
हरकोपोद्भवायेति स्वेदजायातिबाहवे ।
सर्वकामप्रदायेति पूर्वादिषु दलेषु च
एवं सम्पूज्य विधिवद्दद्यादर्घ्यं विधानतः ।
भूमिपुत्र महावीर्य स्वेदोद्भव पिनाकिनः
अङ्गारक महातेजा लोहिताङ्ग नमो ऽस्तु ते ।
करकं वारिसंयुक्तं शालितंदुलपूरितम्
सहिरण्यं सवस्त्रं च मोदकोपरि संस्थितम् ।
ब्राह्मणाय निवेद्यं तत्कुजो मे प्रीयतामिति
अर्घं दत्त्वा विधानेन रक्तचन्दनवारिणा ।
रक्तपुष्पसमाकीर्णं तिलतंदुलमिश्रितम्
कृत्वा ताम्रमये पात्रे मण्डले वर्तुले शुभे ।
कृत्वा शिरसि तत्पात्रं जानुभ्यां धरणीं गतः
मन्त्रपूतं महाभाग दद्याद् अर्घ्यं विचक्षणः ।
ततो भुञ्जीत मौनेन क्षारतिलाम्लवर्जितम्
स्निग्धं मृदुसमधुरम् आत्मनः श्रेय इच्छता ।
एवं चतुर्थे सम्प्राप्ते चतुर्थ्यङ्गारके नृप
सौवर्णं कारयेद्देवं यथाशक्ति सुरूपिणम् ।
स्थापयेत् ताम्रके पात्रे गुडपीठसमन्विते
गन्धपुष्पादिभिर्देवं पूजयेद् गुडसंस्थितम् ।
ईशान्यां स्थापयेद्देवं गुडतोयसमन्वितम्
कासारेण तथाग्नेय्यां स्थापयेत् करकं परम् ।
रक्ततन्दुलसंमिश्रं नैरृत्यां वायुगोचरे
स्थापयेन्मोदकैः सार्धं चतुर्थं करकं बुधः ।
सूत्रेण वेष्टितग्रीवं गन्धमाल्यैर् अलंकृतम्
शङ्खतूर्यनिनादेन जयशब्दादिमङ्गलैः ।
रक्ताम्बरधरं विप्रं रक्तमाल्यानुलेपनम्
वेदिमध्यगतं वापि महदासनसंस्थितम् ।
सुरूपं सुभगं शान्तं सर्वभूतहिते रतम्
वेदविद्याव्रतस्नातं सर्वशास्त्रविशारदम् ।
पूजयित्वा यथान्यायं वाचयेत्पाण्डुनन्दन
रक्तां गां च ततो दद्याद् रक्तेनानडुहा सह ।
प्रीयतां भूमिजो देवः सर्वदैवतपूजितः
विप्रं प्रदक्षिणीकृत्य पत्नीपुत्रसमन्वितः ।
पितृमातृसुहृत्सार्द्धं क्षमाप्य च विसर्जयेत्
एवं कृतस्य तस्याथ तस्मिंस्तीर्थे विशेषतः ।
यत्पुण्यं फलमुद्दिष्टं तत्ते सर्वं वदाम्यहम्
सप्त जन्मानि राजेन्द्र सुरूपः सुभगो भवेत् ।
तीर्थस्यास्य प्रभावेन नात्र कार्या विचारणा
अकामो वा सकामो वा तत्र तीर्थे मृतो नरः ।
अङ्गारकपुरं याति देवगन्धर्वपूजितः
उपभुज्य यथान्यायं दिव्यान्भोगाननुत्तमान् ।
इह मानुष्यलोके वै राजा भवति धार्मिकः
सुरूपः सुभगश्चैव सर्वव्याधिविवर्जितः ।
जीवेद्वर्षशतं साग्रं सर्वलोकनमस्कृतः
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0