रेवाखाण्ड (संशोधित पाठ) · अध्याय 139
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शक्रतीर्थमाहात्म्यवर्णनम् नामाष्टत्रिंशदधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 139
श्रीमार्कण्डेय उवाच:
ततो गच्छेन् महाराज सोमतीर्थमनुत्तमम् ।
यत्र सोमस्तपस्तप्त्वा नक्षत्रपथमास्थितः
तत्र तीर्थे तु यः स्नायादाचम्य विधिपूर्वकम् ।
कृतजाप्यो रविं ध्यायेत् तस्य पुण्यफलं शृणु
ऋग्वेदयजुर्वेदाभ्यां सामवेदेन भारत ।
जपतो यत्फलं प्रोक्तं गायत्र्या चात्र तत्फलम्
तत्र तीर्थे तु यो भक्त्या ब्राह्मणान् भोजयेच्छुचिः ।
तेन सम्यग्विधानेन कोटिर्भवति भोजिता
पादुकोपानहौ छत्रं वस्त्रकम्बलवाजिनः ।
यो दत्ते विप्रमुख्याय तस्य तत्कोटिसंमितम्
सहस्रं तु सहस्राणामनृचां यस्तु भोजयेत् ।
एकस्य मन्त्रयुक्तस्य कलां नार्हति षोडशीम्
एवं तु भोजयेत् तत्र बह्वृचं वेदपारगम् ।
शाखान्तर्गम् अथाध्वर्युं छन्दोगं वा समाप्तिगम्
अग्निहोत्रसहस्रस्य यत्फलं प्राप्यते बुधैः ।
समं तद्वेदविदुषा तीर्थे सोमस्य तत्फलम्
भोजयेद्यः शतं तेषां सहस्रं लभते नरः ।
एकस्य योगयुक्तस्य तत्फलं कवयो विदुः
संनिरुध्येन्द्रियग्रामं यत्रयत्र वसेन् मुनिः ।
तत्रतत्र कुरुक्षेत्रं नैमिषं पुष्कराणि च
तस्मात्सर्वप्रयत्नेन ग्रहणे चन्द्रसूर्ययोः ।
संक्रान्तौ च व्यतीपाते योगी भोज्यो विशेषतः
संन्यासं कुरुते यस्तु तत्र तीर्थे युधिष्ठिर ।
विमानेन महाभागाः स याति त्रिदिवं नरः
सोमस्यानुचरो भूत्वा तेनैव सह मोदते
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0