रेवाखाण्ड (संशोधित पाठ) · अध्याय 138
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कर्कटेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तत्रिंशदधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 138
श्रीमार्कण्डेय उवाच:
ततो गच्छेत् पाण्डुपुत्र शक्रतीर्थम् अनुत्तमम् ।
यत्र सिद्धो महाभागो देवराजः शतक्रतुः
गौतमेन पुरा शप्तं ज्ञात्वा देवाः सुरेश्वरम् ।
ब्रह्माद्या देवताः सर्व ऋषयश्च तपोधनाः
गौतमं प्रार्थयामासुर् वाक्यैः सानुनयैः शुभैः ।
गतराज्यं गतश्रीकं शक्रं प्रति मुनीश्वर
इन्द्रेन रहितं राज्यं न कश्चित् कामयेद् द्विज ।
देवो वा मानवो वापि एतत्ते विदितं प्रभो
तस्य त्वं भगयुक्तस्य दयां कुरु द्विजोत्तम ।
गतश्चादर्शनं शक्रो दूषितः स्वेन पाप्मना
देवानां वचनं श्रुत्वा गौतमो वेदवित्तमः ।
तथेति कृत्वा शक्रस्य वरं दातुं प्रचक्रमे
एतद्भगसहस्रं तु पुरा जातं शतक्रतो ।
तल्लोचनसहस्रं तु मत्प्रसादाद् भविष्यति
एवमुक्तः सहस्राक्षः प्रणम्य मुनिसत्तमम् ।
ब्राह्मणांस् तान् महाभागान् नर्मदां प्रत्यगात् ततः
स्नात्वा स विमले तोये संस्थाप्य त्रिपुरान्तकम् ।
जगाम त्रिदशावासं पूज्यमानो ऽप्सरोगणैः
तत्र तीर्थे तु यः स्नात्वा पूजयेत् परमेश्वरम् ।
परदाराभिगमनान् मुच्यते पातकान् नरः
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0