रेवाखाण्ड (संशोधित पाठ) · अध्याय 140
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सोमतीर्थमाहात्म्यवर्णनं नामैकोनचत्वारिंशदधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 140
मार्कण्डेय उवाच:
ततो गच्छेन्महाराज नन्दाह्रदमनुत्तमम् ।
यत्र सिद्धा महाभागा नन्दा देवी वरप्रदा
महिषासुरे महाकाये पुरा देवभयंकरे ।
शूलिन्या शूलभिन्नाङ्गे कृते दानवसत्तमे
येनैकादशरुद्राश्च ह्यादित्याः समरुद्गणाः ।
वसवो वायुना सार्द्धं चन्द्रादित्यौ सुरेश्वर
बलिना निर्जिता येन ब्रह्मविष्णुमहेश्वराः ।
सङ्ग्रामे सुमहाघोरे कृते देवभयंकरे
कृत्वा तत्कदनं घोरं नन्दा देवी सुरेश्वरी ।
यस्मात्स्नाता विशालाक्षी तेन नन्दाह्रदः स्मृतः
तत्र तीर्थे तु यः स्नात्वा नन्दामुद्दिश्य भारत ।
ददाति दानं विप्रेभ्यः सो ऽश्वमेधफलं लभेत्
भैरवं चैव केदारं तथा रुद्रं महालयम् ।
नन्दाह्रदश्चतुर्थः स्यात्पञ्चमं भुवि दुर्लभम्
बहवस्तं न जानन्ति कामरागसमन्विताः ।
नर्मदाया ह्रदं पुण्यं सर्वपातकनाशनम्
तत्र तीर्थे तु यः स्नात्वा नन्दां देवीं प्रपूजयेत् ।
किं तस्य हिमवन्मध्यगमनेन प्रयोजनम्
परमार्थमविज्ञाय पर्यटन्ति तमोवृताः ।
तेषां समागमे पार्थ श्रम एव हि केवलम्
पृथिव्यां सागरान्तायां स्नानदानेन यत्फलम् ।
तत्फलं समवाप्नोति स्नात्वा नन्दाह्रदे नृप
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0