भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 137

137.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अहल्यातीर्थमाहात्म्यवर्णनं नाम षट्त्रिंशदधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 137
मार्कण्डेय उवाच:
धर्मपुत्र ततो गच्छेत् कर्कटेश्वरमुत्तमम् ।
उत्तरे नर्मदाकूले सर्वपापक्षयंकरम्

137.2

तत्र स्नात्वा विधानेन यस्तु पूजयते शिवम् ।
अनिवर्तिका गतिस्तस्य रुद्रलोकाद् असंशयम्

137.3

तस्य तीर्थस्य माहात्म्यं पुराणे यच्छ्रुतं मया ।
न तद्वर्णयितुं शक्यं संक्षेपेण वदाम्यतः

137.4

तत्र तीर्थे तु यः कुर्यात्किंचित्कर्म शुभाशुभम् ।
हर्षान् मदान् महाराज तत्सर्वं जायते ऽक्षयम्

137.5

तत्र तीर्थे तपस्तप्त्वा वालखिल्या मरीचयः ।
रमन्ते ऽद्यापि लोकेषु स्वेच्छया कुरुनन्दन

137.6

तत्रस्थास्तन्न जानन्ति नराज्ञानबहिष्कृताः ।
शरीरस्थम् इवात्मानम् अक्षयं ज्योतिख्ययम्

137.7

तत्र तीर्थे नृपश्रेष्ठ देवी नारायणी पुरा ।
अद्यापि तपते घोरं तपो यावत्किलार्बुदम्

137.8

तत्र तीर्थे तु यः स्नात्वा तर्पयेत् पितृदेवताः ।
तस्य ते द्वादशाब्दानि तृप्तिं यान्ति पितामहाः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc