रेवाखाण्ड (संशोधित पाठ) · अध्याय 119
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे इन्द्रतीर्थमाहात्म्यवर्णनं नामाष्टादशोत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 119
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र कह्लोडीतीर्थम् उत्तमम् ।
रेवायाश्चोत्तरे कूले सर्वपापविनाशनम्
हितार्थं सर्वभूतानाम् ऋषिभिः स्थापितं पुरा ।
तपसा तु समुद्धृत्य नर्मदायां महाम्भसि
स्नात्वा तु कपिलातीर्थे कपिलां यः प्रयच्छति ।
श्रुत्वा चाख्यानकं दिव्यं ब्राह्मणाञ्छृणु यत्फलम्
सर्वेषामेव दानानां कपिलादानमुत्तमम् ।
ब्राह्मणान्वेषितं पूर्वमृषिदेवसमागमे
सद्यः प्रसूतां कपिलां शोभनां यः प्रयच्छति ।
सोपवासो जितक्रोधस्तस्य पुण्यफलं शृणु
ससमुद्रगुहा तेन सशैलवनकानना ।
दत्ता चैव महाबाहो पृथिवी नात्र संशयः
वाचिकं मानसं पापं कर्मणा यत्पुरा कृतम् ।
नश्यते कपिलां दत्त्वा सप्तजन्मार्जितं नृप
भूमिदानं धनं धान्यं हस्त्यश्वकनकादिकम् ।
कपिलादानस्यैकस्य कलां नार्हन्ति षोडशीम्
तत्र तीर्थे नरः स्नात्वा कपिलां यः प्रयच्छति ।
मृतो विष्णुपुरं याति गीयमानो ऽप्सरोगणैः
यावन्ति तस्या रोमाणि सवत्सायास्तु भारत ।
तावद्वर्षसहस्राणि स स्वर्गे क्रीडते चिरम्
ततो ऽवकीर्णकालेन त्विह मानुष्यतां गतः ।
धनधान्यसमोपेतो जायते विपुले कुले
वेदविद्या व्रतस्नातः सर्वशास्त्रविशारदः ।
व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम्
एतत्ते सर्वमाख्यातं कल्होडीतीर्थम् उत्तमम् ।
यत्कृत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0