रेवाखाण्ड (संशोधित पाठ) · अध्याय 120
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कह्लोडीतीर्थमाहात्म्यवर्णनं नामैकोनविंशत्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 120
श्रीमार्कण्डेय उवाच:
अतः परं प्रवक्ष्यामि कम्बुकेश्वरमुत्तमम् ।
हिरण्यकशिपुर्दैत्यो दानवो बलदर्पितः
अवध्यः सर्वलोकानां त्रिषु लोकेषु विश्रुतः ।
तस्य पुत्रो महातेजाः प्रह्लादो नाम नामतः
विष्णुप्रसादाद्भक्त्या च तस्य राज्ये प्रतिष्ठितः ।
विरोचनस्तस्य सुतस् तस्यापि बलिरेव च
बलिपुत्रो ऽभवद् बाणस्तस्मादपि च शम्बरः ।
शम्बरस्यान्वये जातः कम्बुर्नाम महासुरः
ज्ञात्वा विष्णुमयं घोरं महद्भयमुपस्थितम् ।
दानवानां विनाशाय नान्यो हेतुः कदाचन
स त्यक्त्वा पुत्रदारांश्च सुहृद्बन्धुपरिग्रहान् ।
चचार मौनमास्थाय तपः कम्बुर्महामतिः
अक्षसूत्रकरो भूत्वा दण्डी मुण्डी च मेखली ।
शाकयावकभक्षश्च वल्कलाजिनसंवृतः
स्नात्वा नित्यं धृतिपरो नर्मदाजलमाश्रितः ।
पूजयंस्तु महादेवमर्बुदं वर्षसंख्यया
ततस्तुतोष भगवान्देवदेवो महेश्वरः ।
उवाच दानवं काले मेघगम्भीरया गिरा
भोभोः कम्बो महाभाग तुष्टो ऽहं तव सुव्रत ।
इष्टं व्रतानां परमं मौनं सर्वार्थसाधनम्
चरितं च त्वया लोके देवदानवदुश्चरम् ।
वरं वृणीष्व भद्रं ते यत्ते मनसि रोचते
कम्बुरुवाच:
यदि प्रसन्नो देवेश यदि देयो वरो मम ।
अक्षय्यश्चाव्ययश्चैव स्वेच्छया विचराम्यहम्
दैत्यदानवसङ्घानां संयुगेष्वपलायिता ।
भयं चान्यन्न विद्येत मुक्त्वा देवं गदाधरम्
तस्याहं संयुगे साध्यो येनोपायेन शङ्कर ।
भवामि न सदा कालं तं वदस्व वरं मम
ईश्वर उवाच:
मम संनिहितो यत्र त्वं भविष्यसि दानव ।
तत्र विष्णुभयं नास्ति वसात्र विगतज्वरः
तस्य देवाधिदेवस्य वेदगर्भस्य संयुगे ।
शङ्खचक्रधरस्येशा नाहं सर्वे सुरासुराः
किं पुनर्यो द्विषत्येनं लोकालोकप्रभुं हरिम् ।
स सुखी वर्तते कालं न निमेषं मतं मम
तस्मात् त्वं परया भक्त्या सर्वभूतहिते रतः ।
वसिष्यसि चिरं कालम् इत्युक्त्वादर्शनं गतः
गते चादर्शनं देवे तत्र तीर्थे महामतिः ।
स्थापयामास देवेशं शिवं शान्तमनामयम्
तस्मिंस्तीर्थे महादेवं स्थापयित्वा दिवं गतः ।
तदाप्रभृति तत्पार्थ कम्बुतीर्थमिति श्रुतम् ।
विख्यातं सर्वलोकेषु महापातकनाशनम्
कम्बुतीर्थे नरः स्नात्वा विधिनाभ्यर्च्य भास्करम् ।
ऋग्यजुःसाममन्त्रैश्च स्तूयमानो नृपोत्तम
तस्य पुण्यं समुद्दिष्टं ब्राह्मणैर्वेदपारगैः ।
तत्सर्वं तु शृणुष्वाद्य ममैव गदतो नृप
ऋग्यजुःसामगीतेषु साङ्गोपाङ्गेषु यत्फलम् ।
तत्फलं समवाप्नोति गायत्रीमात्रमन्त्रवित्
तत्र तीर्थे तु यः स्नात्वा तर्पयेत् पितृदेवताः ।
पूजयेद् देवमीशानं सो ऽग्निष्टोमफलं लभेत्
अकामो वा सकामो वा तत्र तीर्थे कलेवरम् ।
यस्त्यजेन्नात्र सन्देहो रुद्रलोकं स गच्छति
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0