भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 118

118.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे त्रिलोचनतीर्थमाहात्म्यवर्णनं नाम सप्तदशोत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 118
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् ।
इन्द्रतीर्थेतिविख्यातं नर्मदादक्षिणे तटे

118.2

युधिष्ठिर उवाच:
नर्मदादक्षिणे कूले इन्द्रतीर्थं कथं भवेत् ।
श्रोतुमिच्छामि विप्रेन्द्र ह्यादिमध्यान्तविस्तरैः

118.3

एतच्छ्रुत्वा तु वचनं धर्मपुत्रस्य धीमतः ।
कथयामास तद्वत्तमितिहासं पुरातनम्

118.4

श्रीमार्कण्डेय उवाच:
विश्वासयित्वा सुचिरं धर्मशत्रुं महाबलम् ।
वृत्रं जित्वाथ हत्वा तु गच्छमानं शचीपतिम्

118.5

निष्क्राममाणं मार्गेण ब्रह्महत्या दुरासदा ।
अहोरात्रमविश्रान्ता जगाम भुवनत्रयम्

118.6

यतोयतो ब्रह्महणं याति यानेन शोभनम् ।
दिशो भागं सुरैः सार्द्धं ततो हत्या न मुञ्चति

118.7

ब्रह्महत्या सुरापानं स्तेयं गुर्वगनागमः ।
पातकानां गतिर्दृष्टा न तु विश्वासघातिनाम्

118.8

पापकर्ममुखं दृष्ट्वा स्नानदानैर्विशुध्यति ।
नारी वा पुरुषो वापि नैव विश्वासघातिनः

118.9

एवमादीनि चान्यानि श्रुत्वा वाक्यानि देवराट् ।
वचनं तद्विधैरुक्तं विषादमगमत्परम्

118.10

त्यक्त्वा राज्यं सुरैः सार्धं जगाम तप उत्तमम् ।
पुत्रदारगृहं राज्यं वसूनि विविधानि च

118.11

फलान्येतानि धर्मस्य शोभयन्ति जनेश्वरम् ।
फलं धर्मस्य भुञ्जेति सुहृत्स्वजनबान्धवाः

118.12

पश्यतां सर्वम् एतेषां पापमेकेन भुज्यते ।
परं हि सुखमुत्सृज्य कर्शयन्वै कलेवरम्

118.13

देवराजो जगामासौ तीर्थान्यायतनानि च ।
गङ्गातीर्थेषु सर्वेषु यामुनेषु तथैव च

118.14

सारस्वतेषु सर्वेषु सामुद्रेषु पृथक्पृथक् ।
नदीषु देवखातेषु तडागेषु सरःसु च

118.15

पापं न मुञ्चते सर्वे पश्चाद्देवसमागमे ।
रेवाप्रभवतीर्थेषु कूलयोर् उभयोर् अपि

118.16

पूजयन्वै महादेवं स्कन्दतीर्थं समासदत् ।
तव स्थित्वोपवासैश्च कृच्छ्रचान्द्रायणादिभिः

118.17

कर्शयन्वै स्वकं देहं न लेभे शर्म वै क्वचित् ।
ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः

118.18

आर्द्रवासास्तु हेमन्ते चचार विपुलं तपः ।
एवं तु तपतस्तस्य इन्द्रस्य विदितात्मनः

118.19

वत्सराणां सहस्राणि गतानि दश भारत ।
ततस्त्वेकादशे प्राप्ते वर्षे तु नृपसत्तम

118.20

सहसा भगवान्देवस्तु तुतोष परमेश्वरः ।
तथा ब्रह्मर्षयः सिद्धा ब्रह्मविष्णुपुरोगमाः

118.21

तत्राजग्मुः सुराः सर्वे यत्र देवः शतक्रतुः ।
दृष्ट्वा समागतान् देवान् ऋषींश्चैव महामतिः

118.22

उवाच प्रणतो भूत्वा सर्वदेवपुरोहितः ।
विदितं सर्वमेतेषां यथा वृत्रवधः कृतः

118.23

युष्माकं चाज्ञया पूर्वं ब्रह्मविष्णुमहेश्वराः ।
तथाप्येवं ब्रह्महणं मत्वा पापस्य कारिणम्

118.24

भ्रमन्तं सर्वतीर्थेषु ब्रह्महत्या न मुञ्चति ।
न नन्दति जगत्सर्वं त्रैलोक्यं सचराचरम्

118.25

यथा विहीनचन्द्रार्कं तथा राज्यमनायकम् ।
तस्मात्सर्वे सुरश्रेष्ठा विज्ञाप्यं मम सम्प्रति

118.26

कुर्वन्तु शक्रं निर्दोषं तथा सर्वे महर्षयः ।
बृहस्पतिमुखोद्गीर्णं श्रुत्वा तद्वचनं शुभम्

118.27

ततः प्रोवाच भगवान्ब्रह्मा लोकपितामहः ।
एतत्पापं महाघोरं ब्रह्महत्यासमुद्भवम्

118.28

दैवतेभ्यो ऽथ भूतेभ्यश्चतुर्भागं क्षिपाम्यहम् ।
एवं मुक्त्वा क्षिपच्चैनो जलोपरि महामतिः

118.29

अवगाह्य ततः पेया आपो वै नान्यथा बुधैः ।
धरायामक्षिपद्भागं द्वितीयं पद्मसंभवः

118.30

अभक्ष्या तेन संजाता सदाकालं वसुंधरा ।
तदार्धमर्द्धं नारीणां द्वितीये ऽह्नि युधिष्ठिर

118.31

निक्षिप्य भगवान्देवः पुनरन्यज्जगाद ह ।
असंग्राह्या त्वसंग्राह्या तेन जाता रजस्वला

118.32

चतुर्दिनानि सा प्राज्ञैः पापस्य महतो महात् ।
चतुर्थं तु ततो भागं विभज्य परमेश्वरः

118.33

कृषिगोरक्ष्यवाणिज्यैः शूद्रसेवाकरे द्विजे ।
ततो ऽभिनन्दयामासुः सर्वे देवा महर्षयः

118.34

देवेन्द्रं वाग्भिर् इष्टाभिर् नर्मदाजलसंस्थितम् ।
वरेण छन्दयामास ततस्तुष्टो महेश्वरः

118.35

वरं दास्यामि देवेश वरं वृणु यथेप्सितम्

118.36

इन्द्र उवाच:
यदि तुष्टो ऽसि देवेश यदि देयो वरो मम ।
अत्र संस्थापयिष्यामि सदा संनिहितो भव

118.37

एवमस्त्विति चोक्त्वा तं ब्रह्मविष्णुमहेश्वराः ।
जग्मुराकाशमाविश्य स्तूयमाना महर्षिभिः

118.38

गतेषु देवदेवेषु देवराजः शतक्रतुः ।
स्थापयित्वा महादेवं जगाम त्रिदशालयम्

118.39

इन्द्रतीर्थे तु यः स्नात्वा तर्पयेत् पितृदेवताः ।
महापातकयुक्तो ऽपि मुच्यते सर्वपातकैः

118.40

इन्द्रतीर्थे तु यः स्नात्वा पूजयेत् परमेश्वरम् ।
सो ऽश्वमेधस्य यज्ञस्य पुष्कलं फलम् अश्नुते

118.41

एतत्ते कथितं सर्वं तीर्थमाहात्म्यमुत्तमम् ।
श्रुतमात्रेण येनैव मुच्यन्ते पातकैर् नराः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc