भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 100

100.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नागेश्वरतीर्थमाहात्म्यवर्णनं नामैकोनशततमो ऽध्यायः ॥
र्क्व् अध्याय 100
श्रीमार्कण्डेय उवाच:
ततो गच्छेन्महीपाल तीर्थं परमरोचनम् ।
मार्कण्डेशमिति ख्यातं नर्मदादक्षिणे तटे

100.2

उत्तमं सर्वतीर्थानां गीर्वाणैर् वन्दितं शिवम् ।
गुह्याद्गुह्यतरं पुत्र नाख्यातं कस्यचिन्मया

100.3

स्थापितं तु मया पूर्वं स्वर्गसोपानसंनिभम् ।
ज्ञानं तत्रैव मे जातं प्रसादाच्छङ्करस्य च

100.4

अन्यस्तत्रैव यो गत्वा द्रुपदामन्तर्जले जपेत् ।
स पातकैरशेषश्च मुच्यते पाण्डुनन्दन

100.5

वाचिकैर् मानसैश्च वा कर्मजैरपि पातकैः ।
पिण्डिकां चाप्यवष्टभ्य याम्यामाशां च संस्थितः

100.6

योजयेच्छूलिनं भक्त्या द्वात्रिंशद्बहुरूपिणम् ।
देहपाते शिवं गच्छेदिति मे निश्चयो नृप

100.7

आज्येन बोधयेद्दीपमष्टम्यां निशि भारत ।
स्वर्गलोकमवाप्नोति इत्येवं शङ्करो ऽब्रवीत्

100.8

श्राद्धं तत्रैव यो भक्त्या कुर्वीत नृपनन्दन ।
पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम्

100.9

इङ्गुदैर्बदरैर्बिल्वैरक्षतेन जलेन वा ।
तर्पयेत् तत्र यो वंश्यानाप्नुयाज्जन्मनः फलम्

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc