भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 101

101.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मार्कण्डेश्वरतीर्थमाहात्म्यवर्णनं नाम शततमो ऽध्यायः ॥
र्क्व् अध्याय 101
श्रीमार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् ।
उत्तरे नर्मदाकूले यज्ञवाटस्य मध्यतः

101.2

संकर्षणमिति ख्यातं पृथिव्यां पापनाशनम् ।
तपश्चीर्णं पुरा राजन्बलभद्रेण तत्र वै

101.3

गीर्वाणा अपि तत्रैव संनिधौ नृपनन्दन ।
उमया सहितः शम्भुः स्थितस्तत्रैव केशवः

101.4

बलभद्रेण राजेन्द्र प्राणिनाम् उपकारतः ।
स्थापितः परया भक्त्या शङ्करः पापनाशनः

101.5

यस्तत्र स्नाति वै भक्त्या जितक्रोधो जितेन्द्रियः ।
एकादश्यां सिते पक्षे मधुना स्नापयेच्छिवम्

101.6

श्राद्धं तत्रैव यो भक्त्या पित्ःणामथ दापयेत् ।
स याति परमं स्थानं बलभद्रवचो यथा

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc