रेवाखाण्ड (संशोधित पाठ) · अध्याय 99
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे प्रभासतीर्थमाहात्म्यवर्णनं नामाष्टनवतितमो ऽध्यायः ॥
र्क्व् अध्याय 99
श्रीमार्कण्डेय उवाच:
ततो गच्छेन्महीपाल नर्मदादक्षिणे तटे ।
स्थापितं वासुकीशं तु समस्ताघौघनाशनम्
युधिष्ठिर उवाच:
कस्माच्च कारणात्तात रेवाया दक्षिणे तटे ।
वासुकीशस्थापितो वै विस्तराद्वद मे गुरो
श्रीमार्कण्डेय उवाच:
एतत्सर्वं समास्थाय नृत्यं शम्भुश्चकार वै
श्रमादजायत स्वेदो गङ्गातोयविमिश्रितम् ।
पतन्तमुरगो ऽश्नाति हरमौलिविनिर्गतम्
मन्दाकिनी ततः क्रुद्धा व्यालस्योपरि भारत ।
प्राप्नुह्यजगरत् त्वं हि भुजङ्ग क्षुद्रजन्तुक
वासुकिरुवाच:
अनुग्राह्यो ऽस्मि ते पापो दुर्नयो ऽहं हरादृते ।
त्रैलोक्यपावनी पुण्या सरित्त्वं शुभलक्षणा
संसारच्छेदनकरी ह्यार्तानामार्तिनाशनी ।
स्वर्गद्वारे स्थिता त्वं हि दयां कुरु मयीश्वरि
गङ्गोवाच:
कुरुष्व विपुलं विन्ध्यं तपस्त्वं शङ्करं प्रति ।
ततः प्राप्स्यसि स्वं स्थानं पन्नगत्वं ममाज्ञया
श्रीमार्कण्डेय उवाच:
ततो ऽसौ त्वरितो विन्ध्यं नागो गत्वा नगं शुभम् ।
तपस् तप्तुं समारेभे शङ्कराराधनोद्यतः
नित्यं दध्यौ महादेवं त्र्यक्षं डमरुकोद्यतम् ।
ततो वर्षशते पूर्ण उपरुद्धो जगद्गुरुः ।
आगतस्तत्समीपं तु श्लक्ष्णां वाणीमुदाहरत्
वरं वरय मे वत्स पन्नग त्वं कृतादर
वासुकिर् उवाच:
यदि तुष्टो ऽसि मे देव वरं दास्यसि शङ्कर ।
प्रसादात्तव देवेश भूयान्निष्पापता मम ।
तीर्थं किंचित्समाख्याहि सर्वपापप्रणाशनम्
ईश्वर उवाच:
पन्नग त्वं महाबाहो रेवां गच्छ शुभंकरीम् ।
याम्ये तस्यास्तटे पुण्ये स्नानं कुरु यथाविधि
इत्युक्त्वान्तर्दधे देवो वासुकिस्त्वरयान्वितः ।
रूपेणाजगरेणैव प्रविष्टो नर्मदाजलम्
मार्गेण तस्य संजातं जाह्नव्याः स्रोत उत्तमम् ।
निर्धूतकल्मषः सर्पः संजातो नर्मदाजले
स्थापितः शङ्करस्तत्र नर्मदायां युधिष्ठिर ।
ततो नागेश्वरं लिङ्गं प्रसिद्धं पापनाशनम्
अष्टम्यां वा चतुर्दश्यां स्नापयेन्मधुना शिवम् ।
विमुक्तकल्मषः सद्यो जायते नात्र संशयः
अपुत्रा ये नराः पार्थ स्नानं कुर्वन्ति सङ्गमे ।
ते लभन्ते सुताञ्छ्रेष्ठान् कार्त्तवीर्योपमाञ्छुभान्
श्राद्धं तत्रैव यः कुर्याद् उपवासपरायणः ।
कुर्वन्प्रमोचयेत्प्रेतान्नरकान्नृपनन्दन
सर्पाणां च भयं वंशे ज्ञातिवर्गे न जायते ।
निर्दोषं नन्दते तस्य कुलं नागप्रसादतः
एतत्ते सर्वमाख्यातं तव स्नेहान्नृपोत्तम
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0