रावणवध · अध्याय 8
आगाधत ततो व्योम हनूमानुरु-विग्रहः,
अत्यशेरत तद्-वेगं न सुपर्णाऽर्क-मारुताः
अभायत यथाऽर्केण सुप्रातेन शरन्-मुखे,
गम्यमानं न तेनाऽऽसीदगतं क्रामता पुरः.
वियति व्यत्यतन्वातां मूर्ती हरि-पयोनिधी,
व्यत्यैतां चोत्तमं मार्गमर्केन्द्रेन्दु-निषेवितम्.
व्यतिजिग्ये समुद्रोऽपि न धैर्यं तस्य गच्छतः
व्यत्यगच्छन् न च गतं प्रचण्डोऽपि प्रभञ्जनः.
व्यतिघ्नन्तीं व्यतिघ्नन्तां राक्षसीं पवनाऽऽत्मजः
जघानाऽऽविश्य वदनं निर्यात् भित्त्वोदरं द्रुतम्
अन्योन्यं स्म व्यतियुतः शब्दान् शब्दैस् तु भीषणान्
उदन्वांश् चानिलोद्धूतो म्रियमाणा च राक्षसी.
न्यविक्षत महा-ग्राह-संकुलं मकराऽऽलयम्
सैका बहूनां कुर्वाणा नक्राणां स्वाऽऽशितम्भवम्
कृतेनोपकृतं वायोः परिक्रीणानमुत्थितम्
पित्रा संरक्षितं शक्रात् स मैनाकाऽद्रिमैक्षत.
खं पराजयमानोऽसावुन्नत्य पवनाऽत्मजम्
जगादाऽद्रिर् "विजेषीष्ठा मयि विश्रम्य वैरिणम्.
फलान्यादत्स्व चित्राणि, परिक्रीडस्व सानुषु,
साध्वनुक्रीडमानानि पश्य वृन्दानि पक्षिणाम्.
क्षणं भद्राऽवतिष्ठस्व, ततः प्रस्थास्यसे पुनः
न तत् संस्थास्यते कार्यं दक्षेणोरीकृतं त्वया.
त्वयि नस् तिष्ठते प्रीतिस् तुभ्यं तिष्ठामहे वयम्,
उत्तिष्ठमानं मित्राऽर्थे कस् त्वां न बहु मन्यते.
ये सूर्यमुपतिष्ठन्ते मन्त्रैः संध्या-त्रयं द्विजाः,
रक्षोभिस् तापितास् तेऽपि सिद्धिं द्यायन्ति तेऽधुना.
अ-व्यग्रमुपतिष्ठस्व वीर ! वायोरहं सुहृत्,
रविर् वितपतेऽत्यर्थमाश्वस्य मयि गम्यताम्.
तीव्रमुत्तपमानो ऽयम-शक्यः सोढुमातपः,
आघ्नान इव संदीप्तैरलातैः सर्वतो मुहुः.
संशृणुष्व कपे ! मत्कैः संगच्छस्व वनैः शुभैः,
समारन्त ममा ऽभीष्टाः संकल्पास् त्वय्युपागते.
के न संविद्रते, वायोर् मैनाकाऽद्रिर् यथा सखा,
यत्नादुपाह्वये प्रतीतः, संह्वयस्व विवक्षितम्.
द्यामिवावयमानं तमवोचद् भूधरं कपिः
उपकुर्वन्तमत्यर्थं प्रकुर्वाणोऽनुजीवि-वत्.
"कुल-भार्यां प्रकुर्वाणमहं द्रष्टुं दशाननम्
यामि त्वरा-वान् शैलेन्द्र !, मा कस्यचिदुपस्कृथाः.
योऽपचक्रे वनात् सीतामधिचक्रे न यं हरिः,
विकुर्वाणः स्वरानद्य बलं तस्य निहन्म्यहम्.
विकुर्वे नगरे तस्य पापस्या ऽद्य रघु-द्विषः,
विनेष्ये वा प्रियान् प्राणानुदानेष्येऽथवा यशः.
विनेष्ये क्रोधमथवा क्रममाणोऽरि-संसदि"
इत्युक्त्वा खे पराक्रंस्त तूर्णं सूनुर् नभस्वतः.
परीक्षितुमुपाक्रंस्त राक्षसी तस्य विक्रमम्
दिवमाक्रममाणेव केतु-तारा भय-प्रदा.
जले विक्रममाणाया हनूमान् शत-योजनम्
आस्यं प्रविश्य निरयादणूभूया ऽप्रचेतितः.
द्रष्टुं प्रक्रममाणो ऽसौ सीतामम्भोनिधेस् तटम्,
उपाक्रंस्ता ऽऽकुलं घोरैः क्रममाणैर् निशाचरैः
आत्मानमपजानानः शश-मात्रो ऽनयद् दिनम्,
ज्ञास्ये रात्राविति प्राज्ञः प्रत्यज्ञास्त क्रिया-पटुः.
संजानानान् परिधरन् रावणाऽनुचरान् बहून्
लङ्कां समाविशद् रात्रौ वदमानोऽरि-दुर्गमाम्.
किंचिन् नोपावदिष्टा ऽसौ, केनचिद् व्यवदिष्ट न,
शृण्वन् संप्रवदमानाद् रावणस्य गुणान् जनात्.
जल्पितोत्क्रुष्ट-संगीत-प्रनृत्त-स्मित-वल्गितैः
घोषस्यान्ववदिष्टेव लङ्का पुता-क्रतोः पुरः
ऐद् विप्रवदमानैस् तां संयुक्तां ब्रह्म-राक्षसैः
तथाऽवगिरमाणैश् च पिशाचैर् माम्स-शोणितम्.
यथा-स्वं संगिरन्ते स्म गोष्ठीषु स्वामिनो गुणान्,
पान-शौण्डाः पथः क्षीबा वृन्दैरुदचरन्त च.
यानैः समचरन्ता ऽन्ये कुञ्जराऽश्व-रथाऽऽदिभिः,
संप्रायच्छन्त बन्दीभिरन्ये पुष्प-फलं शुभम्.
कोपात् काश्चित् प्रियैः प्रत्तमुपायंसत नाऽऽसवम्,
प्रेम जिज्ञासमानाभ्यस् ताभ्योऽऽशप्सत कामिनः
प्रादिदृक्षत नो नृत्यं, ना ऽशुश्रूषत गायनान्
रामं सुस्मूर्षमाणोऽसौ कपिर् विरह-दुःखितम्.
अनुजिज्ञासतेवाऽथ लङ्का-दर्षनमिन्दुना
तमोऽपहविमुक्तांऽशु पूर्वस्यां दिश्युदैयत.
आशुश्रूषन् स मैथिल्या वार्तां हर्म्येषु रक्षसाम्
शीयमानऽन्धकारेषु समचारीद-शङ्कितः.
शत-साहस्रमारक्षं मध्यगं रक्षसां कपिः
ददर्श, यं कृतान्तोऽपि म्रियेताऽऽसाद्य भीषणम्,
अध्यासिसिषमाणे ऽथ वियन्-मध्यं निशा-करे
कासांचक्रे पुरी सौघैरतीवोद्भासिभिः सितैः
इन्दुं चषक-संक्रान्तमुपायुङ्क्त यथाऽमृतम्,
पयुञ्जानः प्रिया वाचः समाजाऽनुरतो जनः
संक्ष्णुवान इवोत्कण्ठामुपाभुङ्क्त सुरामलम्
ज्योत्स्नायां विगलन्-मानस् तरुणो रक्षसां गणः
मध्वपाययत स्वच्छं सोत्पलं दयिताऽन्तिके
आत्मानं सुरताऽऽभोग-विश्रम्भोत्पादनं मुहुः
अभीषयन्त ये शक्रं राक्षसा रण-पण्डिताः
अविस्मापयमानस् तान् कपिरोटीद् गृहाद् गृहम्,
सीतां दिदृक्षुः प्रच्छन्नः सो ऽगर्धयत राक्षसान्,
अवञ्चयत मायाश् च स्व-मायाभिर् नरद्विषाम्,
अपलापयमानस्य शत्रूंस् तस्याऽभवन् मतिः
"मिथ्या कारयते चारैर् घोषणां राक्षसाऽधिपः"
गूहमानः स्व-माहात्म्यमटित्वा मन्त्रि-संसदः
नृभ्यो ऽपवदमानस्य रावणस्य गृहं ययौ,
दिशो द्योतयमानाभिर् दिव्य-नारीभिराकुलम्
श्रियमायच्छमानाभिरुत्तमाभिरनुत्तमाम्
नित्यमुद्यच्छमानाभिः स्मरसंभोग-कर्मसु
जानानाभिरलं लीला-किल किंचित-विभ्रमान्
स्वं कर्म कारयन्नास्ते निश्चिन्तो या झष-ध्वजः,
स्वार्थं कारयमाणाभिर् यूनो मद-विमोहितान्
कान्तिं स्वां वहमानाभिर् यजन्तीभिः स्व-विग्रहान्
नेत्रैरिव पिबन्तीभिः पश्यतां चित्त-संहतीः
ता हनूमान् पराकुर्वन्नगमत् पुष्पकं प्रति
विमानं मन्दरस्याद्रेरनुकुर्वदिव श्रियम्.
तस्मिन् कैलास-संकाशां शिरः-शृङ्गं भज-द्रुमम्
अभिक्षिपन्तमैक्षिष्ट रावणं पर्वत-श्रियम्
प्रवहन्तं सदामोदं सुप्तं परिजनाऽन्वितम्
मघोने परिमृष्यन्तमारभन्तं परं स्मरे
व्यरमत् प्रधनाद् यस्मात् परित्रस्तः सहस्र-दृक्,
क्षणं पर्यरमत् तस्य दर्शनान् मारुताऽऽत्मजः.
उपारंसीच् च संपश्यन् वानरस् तं चिकीर्षितात्
रम्यं मेरुमिवाऽऽधूत-काननं श्वसनोर्मिभिः
दृष्ट्वा दयितया साकं रहीभूतं दशाननम्
ना ऽत्र सीतेत्युपारंस्त दुर्मना वायु-संभवः.
ततः प्राकारमारोहत् क्षपाटानविबोधयन्,
नाऽयोधयत् समर्थोऽपि सीता-दर्शन-लालसः.
अध्यासीद्, "राघवस्या ऽहं नाशयेयं कथं शुचम्,
वैदेह्या जनयेयं वा कथमानन्दमुत्तमम्.
दृष्ट्वा राघव-कान्तां तां द्रावयिष्यामि राक्षसान्,
तस्या हि दर्शनात् पूर्वं विक्रमः कार्य-नाश-कृत्.
चिन्तयन्नित्थमुत्तुङ्गैः प्रावयन्तीं दिवं वनैः
अशोक-वनिकामारादपश्यत् स्तबकाऽऽचिताम्.
तां प्राविशत् कपि-व्याघ्रस् तरून-चलयन् शनैः
अ-त्रासयन् वन-शयान् सुप्तान् शाखासु पक्षिणः.
अवाद् वायुः शनैर् यस्यां लतां नर्तयमान-वत्
नाऽऽयासयन्त संत्रस्ता ऋतवोऽन्योन्य-संपदः.
ज्योत्स्ना ऽमृतं शशी वस्यां वापीर् विकसितोत्पलाः
अपाययत संपूर्णः सदा दश-मुखाऽऽज्ञया.
प्रादमयन्त पुष्पेषुं यस्यां बन्द्यः समाहृताः
परिमोहयमाणाभी राक्षसीभिः समावृताः.
यस्यां वासयते सीतां केवलं स्म रिपुः स्मरात्
न त्वरोचयता ऽऽत्मानं चतुरो वृद्धि-मानपि
मन्दायमान-गमनो हरितायत्-तरुं कपिः,
द्रुमैः शकशकायद्भिर् मारुतेना ऽऽट सर्वतः.
अस्यन्दन्निन्दु-मणयतो, व्यरुचन् कुमुदाऽऽकराः,
अलोठिषत वातेन प्रकीर्णः स्तबकोच्चयाः.
सीताऽन्तिके विवृत्सन्तं वर्त्स्यत्-सिद्धिं प्लवङ्गमम्
पतत्रिणः शुभा मन्द्रमानुवानास् त्वजिह्लदन्.
वर्तिष्यमाणमात्मानं सीता पत्युरिवा ऽन्तिके
उदपश्यत् तदा तथ्यैर् निमित्तैरिष्ट-दर्शनैः.
"निरवर्त्स्यन् न चेद् वार्ता सीताया, वितथैव नः
अकल्प्स्यदुद्यतिः सर्वा", हनूमानित्यचिन्तयत्.
वृक्षाद् वृक्षं परिक्रामन् रावणाद् बिभ्यतीं भृशम्
शत्रोस् त्राणम-पश्यन्तीम-दृश्यो जनकाऽऽत्मजाम्
तां पराजयमानां स प्रीते रक्ष्यां दशाऽऽननात्
अन्तर्दधानां रक्षोभ्यो मलिनां म्लान-मूर्धजाम्
रामादधीत-संदेशो वायोर् जातश् च्युत-स्मिताम्
प्रभवन्तीमिवादित्यादपश्यत् कपि-कुञ्जरः.
रोचमानः कु-दृष्टिभ्यो रक्षोभ्यः प्रत्तवान् श्रियम्
श्लाघमानः पर-स्त्रीभ्यस् तत्रऽऽगाद् राक्षसाऽधिपः.
अशप्त निह्नुवानो ऽसौ सीतायौ स्मर-मोहितः,
धारयान्निव चैतस्यै वसूनि प्रत्यपद्यत.
तस्यै स्पृहयमाणो ऽसौ बहु प्रियमभाषत,
सानुनीतिश् च सीतायै न ऽक्रुध्यन्, नाप्यसूयत.
"संक्रुध्यसि मृशा किं त्वं दिदृक्षुं मां मृगेक्षणे !,
ईक्षितव्यं पर-स्त्रीभ्यः स्व-धर्मो रक्षसामयम्.
शृण्वद्भ्यः प्रतिशृण्वन्ति मध्यमा भीरु ! नोत्तमाः,
गृणद्भ्यो ऽनुगृणन्त्यन्ये ऽकृताऽर्था, नैव मद्-विधाः.
इच्छ स्नेहेन दीव्यन्ती विषयान् भुवनेश्वरम्,
संभोगाय परिक्रीतः कर्तास्मि तव ना ऽप्रियम्.
आस्स्व साकं मया सौधे, माऽधिष्ठा निर्-जनं वनम्
मा ऽधिवात्सीर् भुवं, शय्यामधिशेष्व स्मरोत्सुका.
अभिन्यविक्षथास् त्वं मे यथैवाऽव्याहता मनः,
तवाऽप्यध्यावसन्तं मां मा रौत्सीर् हृदयं तथा.
मा ऽवमंस्था नामस्यन्तम्-कार्य-ज्ञे ! जगत्-पतिम्,
संदृष्टे मयि काकुत्स्थम-धन्यं कामयेत ? का.
यः पयो दोग्धि पाषाणं, स रामाद् भूतिमाप्नुयात्,
रावणं गमय प्रीतिं बोधयन्तं हिताऽहितं.
प्रीतो ऽहं भोजयिष्यामि भवतीं भुवन-त्रयम्,
किं विलापयसेऽत्यर्थं, पार्श्वे शायय रावणम्.
आज्ञां कारय रक्षोभिर्, मा प्रियाण्युपहारय,
कः शक्रेण कृतं नेच्छेदधिमुर्धानमञ्जलिम्.
वचनं रक्षसां पत्युरनु क्रुद्धा पति-प्रिया
पापाऽनुवासितं सीता रावणं प्राब्रवीद् वचः
"न भवाननु रामं चेदुप शूरेषु वा, ततः
अपवाह्य च्छलाद् वीरौ किमर्थं मामिहा ऽहरः,
"उप-शूरं न ते वृत्तं कथं रात्रिंचराऽधम !
यत् संप्रत्यपलोकेभ्यो लङ्कायां वसतिर् भयात्
आ राम-दर्शनात् पाप ! विद्योतस्व स्त्रियः प्रति
सद्-वृत्ताननु दुर्-वृत्तः परस्त्रीं जात-मन्मथः
अभि द्योतिष्यते रामो भवन्तम-चिरादिह,
उद्गूर्ण-बाणः संग्रामे यो नारायणतः प्रति.
कुतो ऽधियास्यसि क्रूर ! निहतस् तेन पत्रिभिः
न सूक्तं भवता ऽत्युग्रमतिरामं मदोद्धत !
परिशेषं न नामा ऽपि स्थापयिष्यति ते विभुः,
अपि स्थाणुं जयेद् रामो, भवतो ग्रहणं कियत्.
अपि स्तूह्यपिसेधा ऽस्मांस् तथ्यमुक्तं नराऽशन् !,
अपि सिञ्चेः कृशानौ त्वं दर्पं, मय्यपि यो ऽभिकः.
अधिरामे पराक्रान्तमधिकर्ता स ते क्षयम्,"
इत्युक्त्वा मैथिली तूष्णीमासांचक्रे दशाननम्.
ततः खड्गं समुद्यम्य रावणः क्रूर-विग्रहः
वैदेहीमन्तरा क्रुद्धः क्षणमूचे विनिश्वसन्.
"चिरेणा ऽनुगुणं प्रोक्ता प्रतिपत्ति-पराङ्मुखी
न मासे प्रतिपत्तासे मां चेन्, मर्तासि मैथिलि !"
प्रायुङ्क्त राक्षसीर् भीमा मन्दिराय प्रतिव्रजन्
"भयानि दत्त सीतायै सर्वा यूयं कृते मम."
गते तस्मिन् समाजग्मुर् भयाय प्रति मैथिलीम्
राक्षस्यो, रावण-प्रीत्यै क्रूरं चोचुरलं मुहुः
"रावणाय नमस्कुयाः, स्यात् सीते ! स्वस्ति ते ध्रुवम्
अन्यथा प्रातराशाय कुर्याम त्वामलं वयम्.
तृणाय मत्वा ताः सर्वा वदन्तीस् त्रिजटा ऽवदत्
"आत्मानं हत दुर्वृत्ताः ! स्व-मांसैः कुरुता ऽशनम्.
अद्य सीता मया दृष्टा सूर्यं चन्द्रमसा सह
स्वप्ने स्पृशन्ती मध्येन तनुः श्यामा सुलोचना.
तास् तया तर्जिताः सर्वा मुखैर् भीमा यथाऽऽगतम्
ययुः सुषुप्सवस् तल्पं भीमैर् वचन-कर्मभिः
गतासु तासु मैथिल्या संजानानो ऽनिलाऽऽत्मजः
आयातेन दशाऽऽस्यस्य संस्थितो ऽन्तर्हितश् चिरम्
ऋणाद् बद्ध इवान्मुक्तो वियोगेन क्रतु-द्विषः
हेतोर् बोधस्य मैथिल्याः प्रास्तावीद् राम-संकथाम्.
तं दृष्ट्वा ऽचिन्तयत् सीता-"हेतोः कस्यैष रावणः
अवरुह्य तरोरारादैति वानर-विग्रहः
पूर्वस्मादन्य-वद् भाति भावाद् दाशरथिं स्तूवन्,
ऋते क्रौर्यात् समायातो मां विश्वासयितुं नु किम् ?
इतरो रावणादेष राघवाऽनुचरो यदि,
स-फलानि निमित्तानि प्राक् प्रभातात् ततो मम.
उत्तराहि वसन् रामः समुद्राद् रक्षसां पुरम्
अवैल् लवण-तोयस्य स्थितां दक्षिणतः कथम्.
दण्डकान् दक्षिणेना ऽहं सरितो ऽद्रीन् वनानि च
अतिक्रम्या ऽम्बुधिं चैव पुंसामगममाहृता.
पृथङ् नभस्वतश् चण्डाद् वैनतेयेन वा विना
गन्तुमुत्सहते नेह कश्चित् किमुत वानरः.
इति चिन्ता-वतीं कृच्छ्रात् समासाद्य कपि-द्विपः
मुक्तां स्तोकेन रक्षोभिः प्रोचे"ऽहं राम-किङ्करः
विप्रकृष्टं महेन्द्रस्य न दूरं विन्ध्य-पर्वतात्
ना ऽनभ्याशे समुद्रस्य तव माल्यवति प्रियः.
अ-संप्राप्ते दश-ग्रीवे प्रविष्टो ऽहमिदं वनम्
तस्मिन् प्रतिगते द्रष्टुं त्वामुपाक्रंस्यचेतितः
तस्मिन् वदति रुष्टो ऽपि ना ऽकार्षं देवि ! विक्रमम्
अ-विनाशाय कार्यस्य विचिन्वानः परापरम्.
वानरेषु कपिः स्वामी नरेष्वधिपतेः सखा
जातो रामस्य सुग्रीवस् ततो दूतो ऽहमागतः
ईश्वरस्य निशाटानां विलोक्य निखिलां पुरीम्
कुशलो ऽन्वेषणस्याऽहमायुक्तो दूत-कर्मणि
दर्शनीय-तमाः पश्यन् स्त्रीषु दिव्यास्वपि स्त्रियः
प्राप्तो व्याल-तमान् व्यस्यन् भूजङ्गेभ्यो ऽपि राक्षसान्
भवत्यामुत्सुको रामः प्रसितः संगमेन ते
मघासु कृत-निर्वापः पितृभ्यो मां व्यसर्जयत्.
अयं मैथिल्यभिज्ञानं काकुत्स्थस्या ऽङ्गुलीयकः
भवत्या स्मरता ऽत्यर्थमर्पितः सादरं मम.
रामस्य दयमानो ऽसावध्येति तव लक्ष्मणः,
उपास्कृषातां राजेन्द्रावागमस्येह, मा त्रसीः.
रावणस्येह रोक्ष्यन्ति कपयो भीम-विक्रमाः,
धृत्या नाथस्व वैदेहि !, मन्योरुज्जासयाऽऽत्मनः.
राक्षसानां मयि गते रामः प्रणिहनिष्यति
प्राणानामपणिष्टाऽयं रावणस् त्वामिहानयन्.
अदेवीद् बन्धु-भोगानां, प्रादेवीदात्म-संपदम्,
शत-कृत्वस् तवैकस्याः स्मरत्यह्नो रघूत्तमः.
तवोपशायिका यावद् राक्षस्यश् चेतयन्ति न,
प्रतिसंदिश्यतां तावद् भर्तुः शार्ङ्गस्य मैथिलि !
पुरः प्रवेशमाश्चर्यं बुद्ध्वा शाखा-मृगेण सा
चूडा-माणिमभिज्ञानं ददौ रामस्य संमतम्.
रामस्य शयितं भुक्तं जल्पितं हसितं स्थितम्
प्रक्रान्तं च मुहुः पृष्ट्वा हनूमन्तं व्यसर्जयत्.
असौ दधदभिज्ञानं चिकीर्षुः कर्म दारुणम्
गामुको ऽप्यन्तिकं भर्तुर् मनसा ऽचिन्तयत् क्षणम्.
"कृत्वा कर्म यथाऽऽदिष्टं पूर्व-कार्याऽविरोधि यः
करोत्यभ्यधिकं कृत्यं, तमाहुर् दूतमुत्तमम्.
वैदेहीं दृष्टवान् कर्म कृत्वा ऽन्यैरपि दुष्करम्
यशो यास्याम्युपादाता वार्तामाख्यायकः प्रभोः.
राक्षसेन्द्रस्य संरक्ष्यं मया लव्यमिदं वनम्,"
इति संचित्य सदृशं नन्दनस्या ऽभवक् कपिः.
राघवाभ्यां शिवं, दूतस् तयोरहमिति ब्रुवन्
हितो भनज्मि रामस्य, कः किं ब्रूते ऽत्र राक्षसः,
विलुलित-पुष्प-रेणु-कपिशं प्रशान्त-कलिका-पलाश-कुसुमं कुसुम-निपात-विचित्र-वसुधं स-शब्द-निपतद् द्रुमोत्क-शकुनम्
शकुन-निनाद-नादि-ककुब् विलोल-विपलायमान-हरिणं हरिण-विलोचनाऽधिवसतिं बभञ्ज पवनाऽऽत्मजो रिपु-वनम्.
मूल पाठ: Rāvaṇavadha (= Bhaṭṭikāvya) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0