भाषा

ENहिગુ
ग्रंथ पाठ

रावणवध · अध्याय 7

7.1

ततः कर्ता वनाऽऽकम्पं ववौ वर्षा-प्रभञ्जनः,
नभः पूरयितारश् च समुन्नेमुः पयो-धराः.

7.2

तर्पणं प्रजनिष्णूनां षस्यानाम-मलं पयः
रोचिष्णवः स-विस्फूर्जा मुमुचुर् भिन्न-वद् घनाः

7.3

निराकरिष्णवो भानुं दिवं वर्तिष्णवो ऽभितः
अलंकरिष्णवो भान्तस् तडित्वन्तश् चरिष्णवः

7.4

तान् विलोक्या ऽसहिष्णुः सन् विललान्पोन्मदिष्णु-वत्
वसन् माल्यवति ग्लास्नू रामो जिष्णुर-धृष्णु-वत्

7.5

"भ्रमी कदम्ब-संभिन्नः पवनः शमिनामपि
क्लमि-त्वं कुरुतेऽत्यर्थं मेघ-शीकर-शीतलः.

7.6

संज्वारिणेव मनसा ध्वान्तमायासिना मया
द्रोहि खद्योत-संपर्कि नयनाऽमोषि दुःसहम्.

7.7

कुर्वन्ति परिसारिण्यो विद्युतः परिदेविनम्
अभ्याघातिभिरामिश्राश् चातकैः परिराटिभिः.

7.8

संसर्गी परिदाहीव शीतो ऽप्याभाति शीकरः,
सोढुमाक्रीडिनो ऽशक्याः शिखिनः परिवादिनः.

7.9

एता देवानुरोधिन्यो द्वेषिण्य इव रागिणम्
पीडयन्ति जनं धाराः पतन्त्यो ऽनपकारिणम्.

7.10

कूर्याद् योगिनमप्येष स्फूर्जा-वान् परिमोहिनम्
त्यागिनं सुख-दुःखस्य परिक्षेप्यम्भसामृतुः.

7.11

विकत्थी याचते प्रत्तम-विश्रम्भी मुहुर् जलम्
पर्जन्यं चातकः पक्षी निकृन्तन्निव मानसम्.

7.12

प्रलापिनो भविष्यन्ति कदा न्वेते ऽपलाषिणः."
प्रमाथिनो वियुक्तानां हिंसकाः पाप-दर्दुराः.

7.13

निन्दको रजनिंमन्यं दिवसं क्लेशको निशाम्
प्रावृष्यनैषीत् काकुत्स्थः कथंचित् परिदेवकः

7.14

अथोपशरदे ऽपश्यत् क्रौञ्चानां चेष्टनैः कुलैः
उत्कण्ठा-वर्धनैः शुभ्रं रवणैरम्बरं ततम्.

7.15

विलोक्य द्योतनं चन्द्रं लक्ष्मणं शोचनो ऽवदत्
"पश्य दन्द्रमणान् हंसानरविन्दसमुत्सुकान्.

7.16

कपिश् चङ्क्रमणो ऽद्यापि ना ऽसौ भवति गर्धनः,
कुर्वन्ति कोपनं तारा मण्डना गगनस्य माम्.

7.17

ना ऽवैत्याप्यायितारं किं कमलानि रविं कपिः
दीपितारं दिनाऽऽरम्भे निरस्त-ध्वान्त-संचयम्.

7.18

अतीते वर्षुके काले, प्रमत्तः स्थायुको गृहे
गामुको ध्रुवमध्वानं सुग्रीवो वालिना गतम्.

7.19

जल्पाकीभिः सहा ऽऽसीनः स्त्रीभिः प्रजविना त्वया
गत्वा लक्ष्मण ! वक्तव्यो जयिना निष्ठुरं वचः

7.20

शैले विश्रयिणं क्षिप्रमनादरिणमभ्यमी
न्यायं परिभवी ब्रूहि पापम-व्यथिनं कपिम्.

7.21

स्पृहयालुं कपिं स्त्रीभ्यो निद्रालुम-दयालु-वत्
श्रद्धालुं भ्रामरं धारुं सद्रुमद्रौ वद द्रुतम्."

7.22

सृमरो भङ्गुर-प्रज्ञो गृहीत्वा भासुरं धनुः
विदुरो जित्वरः प्राप लक्ष्मणो गत्वरान् कपीन्.

7.23

तं जागरूकः कार्येषु दन्दशूक-रिपुं कपिः
अ-कम्प्रं मारुतिर् दीप्रं नम्रः प्रावेशयद् गुहाम्

7.24

कम्राभिरावृतः स्त्रीभिराशंसुः क्षेममात्मनः
इच्छुः प्रसादं प्रणयन् सुग्रीवः प्रावदन् नृपम्.

7.25

"अहं स्वप्नक् प्रसादेन तव वन्दारुभिः सह
अ-भीरुरवसं स्त्रीभिर् भासुराभिरीहेश्वरः.

7.26

विद्यन्-नाशं रवेर् भासं विभ्राजं शश-लाञ्छनम्
राम-प्रत्तेषु भोगेषु नाहमज्ञासिषं रतः

7.27

एष शोक-च्छिदो वीरान् प्रभो ! सम्प्रति वानरान्
धरा-शैल-समुद्राणामन्त-गान् प्रहिणोम्यहम्.

7.28

राघवस्य ततः कार्यं कारुर् वानर-पुङ्गवः
सर्व-वानर-सेनानामाश्वागमनमादिशत्.

7.29

"वयमद्यैव गच्छामो रामं द्रष्टुं त्वराऽन्विताः
कारका मित्र-कार्याणि सीता-लाभाय", सो ऽब्रवीत्."

7.30

ततः कपीनां संघाता हर्षाद् राघव-भूतये
पूरयन्तः समाजग्मुर् भय-दाया दिशो दश.

7.31

सुग्रीवाऽन्तिकमासेदुः सादयिष्याम इत्यरिम्
करिष्यन्त इवाऽकस्माद् भुवनं निर्-दशाननम्.

7.32

कर्ता ऽस्मि कार्यमायातैरेभिरित्यवगम्य सः
काकुत्स्थ-पादप-च्छायां सीत-स्पर्शामुपागमत्.

7.33

कार्यं सार-निभं दृष्ट्वा वानराणां समागमम्
अवैन् नाशं दशाऽऽस्यस्य निर्वृत्तमिव राघवः.

7.34

ततः कपि-समाहारमेऽकनिश्चायमागतम्
उपाध्यायऽइवाऽऽयामं सुग्रीवोऽध्यापिपद् दिशाम्

7.35

स-जलाऽम्भो-द-संरावं हनु-मन्तं सहाऽङ्गदम्
जाम्बवं नील-सहितं चारु-सन्द्रावमब्रवीत्

7.36

"यात यूयं यम-श्रायं दिशं नायेन दिक्षणाम्
विक्षावस् तोय-विश्रावं तर्जयन्तो महोदधेः

7.37

उन्नायानधिगच्छन्तः प्रद्रावैर् वसुधा-भृताम्
वनाऽभिलावान् कुर्वन्तः स्वेच्छया चारु-विक्रमाः

7.38

सदोद्गार-सुगन्धीनां फलानामलमाशिताः
उत्कारेषु च धान्यानामनभीष्ट-परिग्रहाः

7.39

संस्तावमिव शृण्वन्तश् छन्दोगानां महाध्वरे
शिञ्जितं मधु-लेहानां पुष्प-प्रस्तार-शायिनाम्

7.40

आलोचयन्तो विस्तारमम्भसां दक्षिणोदधेः
स्वादयन्तः फल-रसं मुष्टि-संग्राह-पीडितम्.

7.41

न्याय्यं यद् यत्र, तत् कार्यं पर्यायेणा ऽविरोधिभिः,
निशोपशायः कर्तव्यः फलोच्चायश् च संहतैः

7.42

सीता रक्षो-निकायेषु स्तोक-कायैश् छलेन च
मृग्या शत्रु-निकायानां व्यावहासीमनाश्रितैः

7.43

सांराविणं न कर्तव्यं, यावन् नाऽऽयाति दर्शनम्,
संदृष्टायां तु वैदेह्यां निग्राहो वोऽर्थवानरेः.

7.44

प्रग्राहैरिव पात्राणामन्वेष्या मैथिली कृतैः
ज्ञातव्या चेङ्गितैर् ध्यायन्ती राघवाऽऽगमम्.

7.45

वेदि-वत् स-परिग्राहा यज्ञयैः संस्कृता द्विजैः
दृश्या मास-तमागह्नः प्राग-निन्दित-वेश-भृत्

7.46

नीवार-फल-मूलाऽशानृषीनप्यतिशेरते
यस्य गुणा निरुद्द्रावास् तां द्रुतं यात, पश्यत.

7.47

उच्छ्राय-वान् घनाऽऽरावो वानरं जलदाऽरवम्
दूराऽऽप्लावं हनू-मन्तं रामः प्रोचे गजाऽऽप्लवः

7.48

"अवग्राहे यथा वृष्टिं प्रार्थयन्ते कृषीवलाः,
प्रर्थयध्वं तथा सीतां, यात सुग्रीव-शासनम्

7.49

वणिक् प्रग्राह-वान् यद्वत् काले चरति सिद्धये,
देशाऽपेक्षास् तथा यूयं याता ऽऽदायाऽङ्गुलीयकम्."

7.50

अभिज्ञानं गृहीत्वा ते समुत्पेतुर् नभस्-तलम्
वाजिनः स्यन्दने भानोर् विमुक्त-प्रग्रहा इव.

7.51

उदक् शतवलिं कोट्या, सुषेणं पक्षिमां तथा
दिशं प्रास्थापयद् राजा वानराणां कृत-त्वरः

7.52

प्राचीं तावद्भिर-व्यग्रः कपिभिर् विनतो ययौ
अ-प्रग्राहैरिवाऽऽदित्यो वाजिभिर्-दूर-पातिभिः.

7.53

ययुर् विन्ध्यं शरन्-मेघैः प्रावारैः प्रवरैरिव
प्रच्छन्नं मारुति-प्रष्ठाः सीतां द्रष्टुं प्लवङ्गमाः

7.54

परिभावं मृगेन्द्राणां कुर्वन्तो नग-मूर्धसु
विन्ध्ये तिग्मांशु-मार्गस्य चेरुः परिभवोपमे.

7.55

भ्रेमुः शिलोच्चयांस् तुङ्गानुत्तेरुरतरान् नदान्
आशंसवो लवं शत्रोः सीतायाश् च विनिश्चयम्

7.56

आदरेण गमं चक्रुर् विषमेस्वप्य-सङ्घसाः
व्याप्नुवन्तो दिशो ऽन्यादान् कुर्वन्तः स-व्यधान् हरीन्.

7.57

संचेरुः स-हसाः केचिद,-स्वनाः केचिदाटिषुः
संयाम-वन्तो यति-वन्, निगदानपरे ऽमुचन्.

7.58

अथ क्लमाद-निःक्वाणा नराः क्षीण-पणा इव
अ-मदाः सेदुरेकस्मिन् नितम्बे निखिला गिरेः.

7.59

ततः स-संमदास् तत्र निरैक्षन्त पतत्रिणः
गुहा-द्वारेण निर्यातः समजेन पशूनिव.

7.60

वीनामुपसरं दृष्ट्वा ते ऽन्योन्यापहवा गुहाम्
प्राविशन्नाहव-प्रज्ञा आहावमुपलिप्सवः.

7.61

कुर्वन्तो हवमाप्तानां पिपासा-वध-काङ्क्षिणः
द्वारं तमो-घन-प्रख्यं गुहायाः प्राविशन् द्रुतम्.

7.62

तस्मिन्नन्तर्घणे ऽपश्यन् प्रघाणे सौध-सद्मनः.
लौहोद्घन-घन-स्कन्धा ललिताऽपघनां स्त्रियम्

7.63

सा स्तम्बघ्न-पद-न्यासान् विघनेन्दु-सम-द्युतिः
परिघोरु-भुजानाह हसन्ती स्वागतं कपीन्.

7.64

पिप्राया ऽद्रि-गुहोपघ्नानुद्घान् संघसमागतान्
फलैर् नाना-रसैश् चित्रैः स्वादु-शीतैश्-च वारिभिः

7.65

निघाऽनिघ-तरु-च्छन्ने तस्मिंस् ते लब्ध्रिमैः फलैः
तृप्तास् तां भ्राजथु-मतीं पप्रच्छुः-"कस्य पूरियम्."

7.66

"रक्ष्णं करोषि कस्मात् त्वं, यत्नेना ऽऽख्यायतां शुभे !
स्वप्ने निधि-वदाभाति तव संदर्शनं हि नः.

7.67

ततो जलधि-गम्भीरान् वानरान् प्रत्यवाच सा
"इयं दानव-राजस्य पूः सृष्टिर् विश्वकर्मणः

7.68

जिहतश् च स्थितिं भिन्दन् दानवोऽसौ जल-द्विषा,
दुहिता मेरुसावर्णेरहं नाम्ना स्वयं-प्रभा.

7.69

जूतिमिच्छथ चेत् तूर्णं, कीर्तिं वा पातुमात्मनः
करोमि वा बहिर्-यूतीन्, पिधध्वं पाणिभिर्दृशः"

7.70

प्रज्या-यती निरुद्धाऽक्षान् विद्येवाऽनुष्ठित-क्रियान्
निरचिक्रमदिच्छा-तो वानरांश् चङ्क्रमा-वतः.

7.71

निष्क्रम्य शिक्षया तस्यास् त्रपा-वन्तो रसा-तलात्
ज्ञात्वा मासुमतिक्रान्तं व्यथामवललम्बिरे.

7.72

चिन्ता-वन्तः कथां चक्रुरुपधा-भेद-भीरवः
"अ-कृत्वा नृ-पतेः कार्यं पूजां लप्स्यामहे कथम्.

7.73

प्रायोपासनया शान्तिं मन्वानो वालि-संभवः
युक्त्वा योगं स्थितः शैले विवृण्वंश्चित्त-वेदनाम्

7.74

प्रस्कन्दिकामिव प्राप्तो ध्यात्वा ब्रूते स्म जाम्बवान्
"धिक् शालभञ्जिका-प्रख्यान् विशयान् कल्पना-रुचीन्,

7.75

यां कारिं राज-पुत्रो, ऽयमनुतिष्ठति, तां क्रियाम्
अहमप्यनुतिष्ठामि" सो ऽप्युक्त्वैवमुपाविशत्.

7.76

उवाच मारुतिर् वृद्धे संन्यासिन्यत्र वानरात्
"अहं पर्यायसंप्राप्तां कुर्वे प्रायोपवेशिकाम्

7.77

अ-भावे भवतां यो ऽस्मिन् जीवेत्, तस्याऽस्त्व-जीवनिः,"
इत्युक्त्वा सर्व एवा ऽस्थुर् बद्ध्वा योगाऽऽसनानि ते.

7.78

अ-क्लेश्यमसिना ऽग्न्यन्तं कबन्ध-वधमभ्यधुः,
धिङ् नः प्रपतनं घोरं क्लेदाऽन्तत्वम-नाथ-वत्.

7.79

ततो मन्द-गतः पक्षी तेषां प्रायोपवेशनम्
अशनीयमिवाशंसुर् महानायाद-शोभनः

7.80

देह-व्रश्चन-तुण्डाऽग्रं तं विलोक्या ऽशुभाऽऽकरम्
पाप-गोचरमात्मानमशोचन् वानरा मुहुः

7.81

"जटायुः पुण्य-कृत् पक्षी दण्डकारण्य-सञ्चरः
कृत्वा राघव-कार्यं यः स्वराऽऽरूढो ऽग्नि-संस्कृतः

7.82

नरकस्या ऽवतारो ऽयं प्रत्यक्षो ऽस्माकमागतः,
अ-चेष्टा यदिहा ऽन्यायादनेना ऽत्स्यामहे वयं

7.83

हृदयोदङ्क-संस्थानं कृतान्ताऽऽनाय-सन्निभम्
शरीराऽऽखन-तुण्डाऽग्रं प्राप्या-ऽमुं शर्म दुर्लभम्.

7.84

ईषदाढ्यङ्करो ऽप्येष न परत्रा ऽशुभ-क्रिया,
अस्मानत्तुमितो ऽभ्येति परिग्लानो बुभुक्षया."

7.85

संप्राप्य वानरान् पक्षी जगाद मधुरं वचः
"के यूयं दुरुपस्थाने मनसा ऽप्यद्रि-मूर्धनि.

7.86

आत्मनः परिदेवध्वे कुर्वन्तो राम-संकथाम्,
समानोदर्यमस्माकं जटायुं च स्थुथा ऽऽदरात्.

7.87

शङ्का-धवित्र-वचनं प्रत्यूचुर् वानराः खगम्
"वयं शत्रु-लवित्रेषोर् दूता रामस्य भू-पतेः.

7.88

केना ऽपि दौष्कुलेयेन कुल्यां माहाकुलीं प्रियाम्
हृतां माहाकुलीनस्य तस्य लिप्सामहे वयम्.

7.89

त्रिंशत्तममहर् यातं मत्वा प्रत्यागमाऽवधिम्
अ-कृताऽर्था विशीदन्तः पर-लोकमुपास्महे.

7.90

म्रियामहे, न गच्छामः कौशल्यायनि-वल्लभाम्
उपलम्भ्याम-पश्यन्तः कौमारीं पततां वर !"

7.91

जगाद वानरान् पक्षी-"नाध्यगीढ्वं ध्रुवं स्मृतिम्
यूयं संकुटियुं यस्मात् काले ऽस्मिन्नध्यवस्यथ.

7.92

नाऽयमुद्विजितुं कालः स्वामि-कार्याद् भवादृशाम्
हृत-भार्ये च्युते राज्याद् रामो पर्युत्सुके भृशम्.

7.93

यत्नं प्रोर्णवितुं तूर्णं दिशं कुरुत दक्षिणाम्,
प्रोर्णुवित्रीं दिवस् तत्र पुरीं द्रक्ष्यथ काञ्चनीम्.

7.94

लङ्कां नाम्ना गिरेर् मूर्ध्नि राक्षसेन्द्रेण पालिताम्
निर्जित्य शक्रमानीता ददृशुर् यां सुर-स्त्रियः

7.95

बभूव या ऽधिशैलेन्द्रं मृदित्वेवेन्द्र-गोचरम्
कुषित्वा जगतां सारं सैका शङ्के कृता भुवि.

7.96

अ-मृडित्वा सहस्राऽक्षं क्लिशित्वा कौशलैर् निजैः
उदित्वा ऽलं चिरं यत्नात् सैका धात्रा विनिर्मिता.

7.97

मुषित्वा धन-दं पापो यां गृहीत्वा ऽऽवसद् द्विषन्,
तां रुदित्वेव शक्रेण यात लङ्कामुपेक्षिताम्.

7.98

विदित्वा शक्तिमात्मीयां रावणं विजिघृक्षवः
उक्तं पिपृच्छिषूणां वो मा स्म भूत सुषुप्सवः.

7.99

ना ऽविविदिषुम्भ्येति सम्पद् रुरुदिषुं नरम्,
किं मुमुषिषु-वद् यात द्विषो ना ऽपचिकीर्षया.

7.100

बुभुत्सवो द्रुतं सीतां भुत्सीध्वं, प्रब्रवीमि वः,
मा च भुद्ध्वं मृषोक्तं नः, कृषीढ्वं स्वामिने हितं

7.101

समगध्वं पुरः शत्रोर्, मोदयध्वं रघूत्तमम्,
नोपायध्वं भयं, सीतां नोपायंस्त दशाननः.

7.102

ततः प्रास्थिषता ऽद्रीन्द्रं महेन्द्रं वानरा द्रुतम्
सर्वे किलकिलायन्तो, धैर्यं चाऽऽधिषता ऽधिकम्.

7.103

निकुञ्जे तस्य वर्तित्वा रम्ये प्रक्ष्वेदिताः परम्
मणि-रत्नाऽधिशयितं प्रत्युदैक्षन्त तोय-धिम्

7.104

अ-मर्षितमिव घ्नन्तं तटाऽद्रीन् मलिलोर्मिभिः
श्रिया समग्रं द्युतितं मदेनेव प्रलोठितम्

7.105

पूतं शीतैर् नभस्वद्भिर् ग्रन्थित्वेव स्थितं रुचः
गुम्फित्वेव निरस्यन्तं तरङ्गान् सर्वतो मुहुः

7.106

वञ्चित्वा ऽप्यम्बरं दूरं स्वस्मिंस् तिष्ठन्तमात्मनि
तृषित्वेवा ऽनिशं स्वादु पिबन्तं सरितां पयः

7.107

द्युतित्वा शशिना नक्तं रश्मिभिः परिवर्धितम्
मेरोर् जेतुमिवा ऽऽभोगमुच्चैर् दिद्योतिषुं मुहुः.

7.108

विलोक्य सलिलोच्चयानधि-समुद्रमभ्रंलिहान् भ्रमन्-मकर भीषणं समधिगम्य चा ऽधः पयः
गमाऽऽगम-सहं द्रुतं कपि-वृषाः परिप्रैषयन् गजेन्द्र-गुरु-विक्रमं तरु-मृगोत्तमं मारुतिम्.

मूल पाठ: Rāvaṇavadha (= Bhaṭṭikāvya) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc