रावणवध · अध्याय 9
द्रु-भङ्ग-ध्वनि-संविग्नाः कुवद्-पक्षि-कुला ऽऽकुलाः
अकार्षुः क्षणदा-चर्यो रावणस्य निवेदनम्.
"यदताप्सीच् छनैर् भानुर्, यत्राऽवासीन् मितं मरुत्
यदाप्यानं हिमोस्रेण, भनक्त्युपवनं कपिः."
ततो ऽशीति-सहस्राणि किङ्कराणां समादिशत्
इन्द्रजित्-सूर् विनाशाय मारुतेः क्रोध-मूर्च्छितः.
शक्त्यृष्टि-परिघ-प्रास-गदा-मुद्गर-पाणयः
व्यश्नुवाना दिशः प्रापुर् वनं दृष्टि-विषोपमाः
दध्वान मेघ-वद् भीममादाय परिघं कपिः
नेदुर् दीप्तायुधास् तेऽपि तडित्वन्त इवाऽम्बुदाः.
कपिना ऽम्भोधि-धीरेण समगंसत राक्षसाः
वर्षासूद्धत-तोयौघाः समुद्रेणेव सिन्धवः.
लाङ्गूलमुद्धतं धुन्वन्नुद्वहन् परिघं गुरुम्
तस्थौ तोरणमारुह्य, पूर्वं न प्रजहार सः.
अक्षारिषुः शराम्भांसि तस्मिन् रक्षः-पयोधराः,
न चा ऽह्वालीन्, न चाऽव्राजीत् त्रासं कपि-महीधरः
अवादीत् तिष्ठतेत्युच्चैः, प्रादेवीत् परिघं कपिः
तथा, यथा रणे प्राणान् बहूनामग्रहीद् द्विषाम्.
व्रणैरवमिषू रक्तं, देहैः प्राऋनाविषुर् भुवम्,
दिशः प्रौर्णाविषुश् चाऽन्ये यातुधाना भवद्-भियः
अरासिषुश् च्युतोत्साहा भिन्न-देहाः प्रियाऽसवः
कपेरत्रासिषुर् नादान् मृगाः सिंह-ध्वनेरिव
मायानामीश्वरास् ते ऽपि शस्त्र-हस्ता रथैः कपिम्
प्रत्याववृतिरे हन्तुं हन्तव्या मारुतेः पुनः
तांश् चेतव्यान् क्षितौ श्रित्वा वानरस् तोरणं युतान्
जघानाऽऽधूय परिघं विजिघृक्षून् समागतान्.
संजुघुक्षव आयूंषि ततः प्रतिरुरूषवः
रावणाऽन्तिकमाजग्मुर् हत-शेषा निशा-चराः
"एकेन बहवः शूराः साऽऽविष्काराः प्रमत्त-वत्
वैमुख्यं चकृमे" त्युच्चैरूचुर् दश-मुखाऽन्तिके.
मांसोपभोग-संशूनानुद्विग्नांस् तानवेत्य सः
उद्वृत्ता-नयनो मित्रान् मन्त्रिणः स्वान् व्यसर्जयत्
प्रमेदिताः स-पुत्रास् ते सु-स्वान्ता बाढ-विक्रमाः
अ-म्लिष्ट-नादा निरगुः फाण्टचित्राऽस्त्र-पाणयः
तान् दृष्ट्वा ऽतिदृढान् धृष्टान् प्राप्तान् परिवृढाऽऽज्ञया
कष्टं विनर्दतः क्रूरान् शस्त्र-घुष्ट-करान् कपिः
अ-व्यर्णो गिरि-कूटाभानभ्यर्णानार्दिदद् द्रुतम्
वृत्त-शस्त्रान् महाऽरम्भ्यान्-दान्तांस् त्रिदशैरपि
दमिताऽरिः प्रशान्तौजा नादाऽऽपूरित-दिङ्मुखः
जघान रुषितो रुष्टांस् त्वरितस् तूर्णमागतान्.
तेषां निहन्यमानानां संघुष्टैः कर्ण-भेदिभिः
अभूदभ्यमित-त्रासमास्वान्ताऽशेष-दिग् जगत्.
भय-संहृष्ट-रोमाणस् ततस् ते ऽपचित-द्विषः
क्षणेन क्षीण-विक्रान्ताः कपिना ऽनेषत क्षयम्
हत्वा रक्षांसि लवितुमक्रमीन् मारुतिः पुनः
अशोकवनिकामेव निगृहीताऽरि-शासनः.
आवरीतुमिवा ऽऽकाशं वरितुं वीनिवोत्थितम्
वनं प्रभञ्जन-सुतो ना ऽदयिष्ट विनाशयन्.
वरिषीष्ट शिवं क्षिप्यन् मैथिल्याः कल्प-शाखिनः,
प्रावारिषुरिव क्षोणीं क्षिप्ता वृक्षाः समन्ततः.
संवुवूर्षुः स्वमाकूतमाज्ञां विवरिषुर् द्रुतम्
अवरिष्टाक्षम-क्षम्यं कपिं हन्तुं दषाननः
ऊचे-"संवरिषीष्ठास् त्वं गच्छ शत्रोः पराक्रमम्,
ध्वृषीष्ठा युधि मायाभिः स्वरिता शत्रु-सम्मुखम्
द्रुतं संस्वरिषीष्ठास् त्वं निर्-भयः प्रधनोत्तमे"
स मायानामगात् सोता कपेर् विधवितुं द्युतिम्
विगाढा ऽरं वनस्या ऽसौ शत्रूणां गाहिता कपिः
अक्षं रधितुमारेभे रद्धा लङ्काऽनिवासिनाम्.
निष्कोषितव्यान् निष्कोष्टुं प्राणान् दशमुखाऽऽत्मजात्
आदाय परिघं तस्थौ वनान् निष्कुषित-द्रुमः
एष्टारमेषिता संख्ये सोढारं सहिता भृशम्
रेष्टारं रेषितं व्यास्यद् रोष्टा ऽक्षः शस्त्र-संहतीः
शस्त्रैर् दिदेविषुं संख्ये दुद्यूषुः परिघं कपिः
अर्दिधिषुर् यशः कीर्तिमीर्त्सुं वृक्षैरताडयत्.
भूयस् तं धिप्सुमाहूय राज-पुत्रं दिदम्भिषुः
अहंस् ततः स मूर्च्छा-वान् संशिश्रीषुरभूद् ध्वजम्
आश्वस्या ऽक्षः क्षणाल् लोकान् बिभ्रक्षुरिव तेजसा
रुषा बिभ्रज्जिषु-प्रख्यं कपिं बाणैरवाकिरत्.
संयुयूषुं दिशो बाणैरक्षं यियविषुर् द्रुमैः
कपिर् मायामिवा ऽकार्षीद् दर्शयन् विक्रमं रणे.
वानरं प्रोर्णुनविषुः शस्त्रैरक्षो विदिद्युते,
तं प्रोर्णुनूषुरुपलैः स-वृक्षैराबभौ कपिः,
स्वां जिज्ञापयिषू शक्तिं बुभूर्षू नु जगन्ति किम्
शस्त्रैरित्यकृषातां तौ पश्यतां बुद्धिमाहवे.
मायाभिः सु-चिरं क्लिष्ट्वा राक्षसो ऽक्लिशित-क्रियम्
संप्राप्य वानरं भूमौ पपात परिघाऽऽहतः.
पवितो ऽनुगुणैर् वातैः शीतैः पूत्वा पयो-निधौ
बभञ्जाऽध्युषितं भुयः क्षुधित्वा पत्रिभिर् वनम्
उच्चैरञ्चित-लाङ्गूलः शिरो ऽञ्चित्वेव संवहन्
दधद् विलुभितं वातैः केशरं वह्नि-पिङ्गलम्
जरित्वेव जवेना ऽन्ये निपेतुस् तस्य शाखिनः,
व्रश्चित्वा विवशानन्यान् बलेना ऽपातयत् तरून्.
दमित्वाऽप्यरि-संघातानश्रान्त्वा कपि-केशरी
वनं चचार कर्तिष्यन् नर्त्स्यन्निव निरङ्कुशः.
पारं जिगमिषन् सो ऽथ पुनरावर्त्स्यतां द्विषाम्
मत्त-द्विरद-वद् रेमे वने लङ्का-निवासिनाम्.
"यद्यकल्प्स्यदभिप्रायो योद्धुं रक्षः-पतेः स्वयम्,
तमप्यकर्त्स्यमद्या ऽहं" वदन्नित्यचरत् कपिः.
"हते तस्मिन् प्रियं श्रुत्वा कल्प्ता प्रीतिं परां प्रभुः,
तोषो ऽद्यैव च सीतायाः परश् चेतसि कल्प्स्यति."
आहूय रावणो ऽवोचदथेन्द्रजितमन्तिकात्
"वने मत्त इव क्रुद्धो गजेन्द्रः प्रधनेष्वटन्
ययाथ त्वं द्विषामन्तं, भूयो यातासि चा ऽसकृत्
शशक्थ जेतुं त्वं देवान्, मायाः सस्मर्थ संयति.
त्वं ससर्जिथ शस्त्राणि, दद्रष्ठा ऽरींश् च दुःसहान्,
शस्त्रैरादिथ शस्त्राणि त्वमेव महतामपि.
स त्वं हनिष्यन् दुर्-बुद्धिं कपिं व्रज ममा ऽऽज्ञया,
मा ना ऽञ्जी राक्षसीर् मायाः, प्रस्तावीर् मा न विक्रमम्.
मा न सावीर् महाऽस्त्राणि, मा न धावीररिं रणे,
वानरं मा न संयंसीर्, व्रज तूर्णमशङ्कितः."
अनंसीच् चरणौ तस्य मन्दिरादिन्द्रजिद् व्रजन्,
अवाप्य चाऽऽशिषस् तस्मादायासीत् प्रीतिमुत्तमाम्
गते तस्मिन्नुपारंसीत् संरम्भाद् रक्षसां पतिः
इन्द्रजिद् विक्रमाऽभिज्ञो मन्वानो वानरं जितम्.
संसिस्मयिषमाणो ऽगान् मायां व्यञ्जिजिषुर् द्विषः
जगत् पिपविषुर् वायुः कल्पान्त इव दुर्धरः
लोकानाशिशिषोस् तुल्यः कृतान्तस्य विपर्यये
वने चिकरिषोर् वृक्षान् बलं जिगरिषुः कपेः
रोदिति स्मेव चा ऽऽयाति तस्मिन् पक्षि-गणः शुचा
मुक्त-कण्ठं हतान् वृक्षान् बन्धून् बन्धोरिवा ऽऽगमे
आश्वसीदिव चा ऽऽयाति तद् वेग-पवनाऽऽहतम्
विचित्र-स्तबकोद्भासि वनं लुलित-पल्लवम्
"न प्राणिषि दुराचार !, मायानामीशिषे न च.
नेडिषे यदि काकुत्स्थं" तमूचे वानरो वचः
स-सैन्यश् छादयन् संख्ये प्रावर्तिष्ट तमिन्द्रिजित्
शरैः क्षुरप्रैर् मायाभिः शतशः सर्वतो मुहुः
वानरः कुल-शैलाऽऽभः प्रसह्या ऽऽयुध-शीकरम्
रक्षस्-पाशान् यशस्-काम्यंस् तमस्-कल्पानदुद्रुवत्.
धनुष्-पाशभृतः संख्ये ज्योतिष्-कल्पोरु-केशरः
दुधाव निर् नमस्-कारान् राक्षसेन्द्र-पुरस्-कृतान्.
स्वामिनो निष्-क्रयं गन्तुमाविष्-कृत-बलः कपिः
रराज समरे शत्रून् घ्नन् दुष्-कृत-बहिष्-कृतः.
चतुष्-काष्ठं क्षिपन् वृक्षान् तिरस्-कुर्वन्नरीन् रणे
तिरस्-कृत-दिगाभोगो ददृशो बहुधा भ्रमन्.
द्विष्-कुर्वतां चतुष्-कुर्वन्नभिघातं नरैर् द्विषाम्
बहिष्-करिष्यन् संग्रामाद् रिपून् ज्वलन-पिङ्गलः
ज्योतिष्-कुर्वन्निवैको ऽसावाटीत् संख्ये परार्ध्य-वत्,
तमरायुष्-करं प्राप शक्र-शत्रुर् धनुष्-करः.
अस्यन्नरुष्-करान् बाणान् ज्योतिष्-कर-सम-द्युतिः
यशस्-करो-यशस्-कामं कपिं बाणैर्ताडयत्.
चकारा ऽधस्-पदं ना ऽसौ चरन् वियति मारुतिः
मर्मा-विद्भिस् तमस्-काण्डैर् विध्यमानोऽप्यनेकधा
पुरुहूत-द्विषो धूर्षु युक्तान् यानस्य वाजिनः
आयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिरमोचयत्.
सुषुपुस् ते यदा भूमौ, रावणिः सारथिं तदा
आहर्तुमन्यानशिषत् प्रोषित-त्रास-कर्कशः.
प्रतुष्टूषुः पुनर् युद्धमासिषञ्जयिषुर् भयम्
आतस्थौ रथमात्मीयानुत्सिसाहयिषन्निव.
बलान्यभिषिषिक्षन्तं तरुभिः कपि-वारिदम्
विजिगीषुः पुनश् चक्रे व्यूहं दुर्-जयमिन्द्रजित्.
अभिष्यन्तः कपिं क्रोधादभ्यषिञ्चन्निवा ऽऽत्मनः
संप्रहार-समुद्भूतै रक्तैः कोष्णैररुश्-च्युतैः.
संग्रामे तानधिष्ठास्यन् निषद्य पुर-तोरणम्
अविषीदन्नवष्टब्धान् व्यष्टभ्नान् नर-विष्वणान्
विषह्य राक्षसाः क्रुद्धाः शस्त्र-जालमवाकिरन्,
यन् न व्यषहतेन्द्रो ऽपि; कपिः पर्यषहिष्ट तत्.
विष्यन्दमान-रुधिरो रक्त-विस्यन्द-पाटलान्
विष्कन्त् न् परिघेणा ऽहन्नविस्कन्ता कपिर् द्विषः.
मेघ-नादः परिस्कन्दन् परिष्कन्दन्तमाश्वरिम्
अबध्नादपरिस्कन्दं ब्रह्म-पाशेन विस्फुरन्.
विस्फुलद्भिर् गृहीतो ऽसौ निष्फुलः पुरुषाऽशनैः
विष्कम्भितुं समर्थो ऽपि नाऽचलद् ब्रह्म-गौरवात्.
कृषीढ्वं भर्तुरानन्दं, मा न प्रोढ्वं द्रुतं वियत्
वानरं नेतुमित्युच्चैरिन्द्र-जित् प्रावदत् स्वकान्.
"गतमङ्गुलि-षङ्गं त्वां भीरु-ष्ठानादिहा ऽऽगतम्
खादिष्याम" इति प्रोचुर् नयन्तो मारुतिं द्विषः.
"अग्निष्टोमादि-संस्थेषु ज्योतिष्टोमाऽऽदिषु द्विजान्
यो ऽरक्षीत्, तस्य दूतो ऽयं मानुषस्येति चाऽवदन्.
"नासां मातृ-ष्वसेय्याश् च रावणस्य लुलाव यः,
मातुः स्वसुश् च तनयान् खराऽऽदीन् विजघान यः
प्रादुःषन्ति न संत्रासा यस्य रक्षः-समागमे,
तस्य क्षत्रिय-दुःषूतेरयं प्रणिधिरागतः.
दृष्ट्वा सु-षुप्तं राजेन्द्रं पापो ऽयं विषमाऽशयः
चार-कर्मणि निष्णातः प्रविष्टः प्रमदा-वनम्.
सुप्रतिष्णात-सूत्राणा कपिष्ठल-सम-त्विषाम्
स्थितां वृत्ते द्विजातीनां रात्रावैक्षत मैथिलीम्
सर्व-नारी-गुणैः प्रष्ठां विष्टर-स्थां गवि-ष्ठिराम्
शयानां कु-ष्ठले तारां दिवि-ष्ठामिव निर्-मलाम्
सु-षाम्नीं सर्व-तेजस्सु तन्वीं ज्योतिष्टमां शुभाम्
निष्टपन्तीमिवा ऽऽत्मानं ज्योतिःसात्-कुर्वतीं वनम्
मधुसाद्-भूत-किञ्जल्क-पिञ्जर-भ्रमराऽऽकुलाम्
उल्लसत्-कुसुमां पुण्यां हेम-रत्न-लतामिव
विलोचनाऽम्बु मुञ्चन्तीं-कुर्वाणां परि-सेसिचाम्
हृदयस्येव शोकाऽग्नि-संतप्तस्योत्तम-व्रताम्
दृष्ट्वा तामभनग् वृक्षान् द्विषो घ्नन् परिसेधतः
परितस् तान् विचिक्षेप क्रुद्धः स्वयमिवा ऽनिलः
अ-प्रतिस्तब्ध-विक्रान्तम-निस्तब्धो महाऽऽहवे,
विसोढवन्तमस्त्राणि व्यतस्तम्भद् घन-ध्वनिः"
ते विज्ञाया ऽभिसोष्यनतं रक्तै रक्षांसि स-व्यथाः
अन्यैरप्यायतं नेहुर् वरत्रा-शृङ्खलाऽऽदिभिः
विषसादेन्द्रजिद् बुद्ध्वा बन्धे बन्धाऽन्तरक्रियाम्
दिव्य-बन्धो विषहते ना ऽपरं बन्धनं यतः
मुष्णन्तमिव तेजांसि विस्तीर्णोरस्-स्थलं पुरः
उपसेदुर् दश-ग्रीवं गृहीत्वा राक्षसाः कपिम्.
बहुधा भिन्न-मर्माणो भीमाः खरणसाऽऽदयः
अग्रे-वणं वर्तमाने प्रतीच्यां चन्द्र-मण्डले
"निर्वणं कृतमुद्यानमनेना ऽऽम्रवणाऽऽदिभिः
देवदारु-वनामिश्रै" रित्यूचुर् वानर-द्विषः.
उपास्थिषत संप्रीताः पूर्वाह्णे रोष-वाहणम्
राक्षसाः कपिमादाय पतिं रुधिर-पायिणाम्.
सुरा-पाण-परिक्षीबं रिपु-दर्प-हरोदयम्
पर-स्त्री-वाहिनं प्रायुः साऽऽविष्कारं सुरा-पिणः.
संघर्ष-योगिणः पदौ प्रणेमुस् त्रिदश-द्विषः
प्रहिण्वन्तो हनूमन्तं प्रमीणन्तं द्विषन्-मतीः.
"प्रवपाणि शिरो भूमौ वानरस्य वनच्छिदः"
आमन्त्रयत संक्रुद्धः समितिं रक्षसां पतिः
प्रण्यगादीत् प्रणिघ्नन्तं घनः प्रणिनदन्निव
ततः प्रणिहितः स्वाऽर्थे राक्षसेन्द्रं विभीषणः.
"प्रणिशाम्य दशा-ग्रीव !, प्रणियातुमलं रुषम्,
प्रणिजानीहि, हन्यन्ते दूता दोषे न सत्यपि."
प्राणयन्तमरिं प्रोचे राक्षसेन्द्रो विभीषणम्
"प्राणिणिषुर् न पापो ऽयं, यो ऽभाङ्क्षीत् प्रमदा-वनम्.
प्राघानिषत रक्षांसि येना ऽऽप्तानि वने मम,
न प्रहण्मः कथं पापं वद पूर्वाऽपकारिणम्.
वेश्माऽन्तर्-हणनं कोपान् मम शत्रोः करिष्यतः
मा कार्षीरऽन्तरयणं, प्रयाणाऽर्हमवेह्यमुम्.
प्रहीण-जीवितं कुर्युर् ये न शत्रुमुपस्थितम्
न्याय्याया अपि ते लक्ष्म्याः कुर्वन्त्याशु प्रहापणम्
कः कृत्वा रावणाऽऽमर्ष-प्रकोपणमवद्य-धीः
शक्तो जगति शाक्रो ऽपि कर्तुमायुः-प्रगोपणम्.
वनाऽन्त-प्रेङ्खणः पापः फलानां परिणिंसकः
प्रणिक्षिष्यति नो भूयः प्रणिन्द्या ऽस्मान् मधून्ययम्
हरेः प्रगमनं ना ऽस्ति, न प्रभानं हिम-द्रुहः,
ना ऽति-प्रवेपनं वायोर् मया गोपायिते वने.
दुष्पानः पुनरेतेन कपिना भृङ्ग-संभृतः
प्रनष्ट-विनयेना ऽग्र्यः स्वादुः पुष्पाऽऽसवो वने"
रोष-भीम-मुखेनैवं क्षुभ्नतोक्ते, प्लवङ्गमः
प्रोचे साऽऽनुनयं वाक्यं रावणं स्वाऽर्थ-सिद्धये
"दूतमेकं कपिं बद्धमानीतं वेश्म पश्यतः
लोक-त्रय-पतेः क्रोधः कथं तृण-लघुस् तव.
अग्न्याहित-जन-प्रह्वे विजिगीषा-पराङ्मुखे.
कस्माद् वा नीति-निष्णस्य संरम्भस् तव तापसे.
न सर्व-रात्र-कल्यान्यः स्त्रियो वा रत्न-भूमयः
यं विनिर्जित्य लभ्यन्ते, कः कुर्यात् तेन विग्रहम्.
संगच्छ राम-सुग्रीवौ भुवनस्य समृद्धये
रत्न-पूर्णाविवा ऽम्भोधी हिमवान् पूर्व-पश्चिमौ.
सुहृदौ राम-सुग्रीवौ, किंकराः कपि-यूथ-पाः,
पर-दाराऽर्पणेनैव-लभ्यन्ते, मुञ्च मैथिलीम्.
धर्मं प्रत्यर्पयन् सीतामर्थं रामेण मित्रताम्
कामं विश्वास-वासेन सीतां दत्त्वा ऽऽप्नुहि त्रयम्.
विराध-ताडका-वालि-कबन्ध-खर-दूषणैः
न च न ज्ञापितो यादृड् मारीचेना ऽपि ते रिपुः
खराऽऽदि-निधनं चा ऽपि मा मंस्था वैर-कारणम्,
आत्मानं रक्षितुं यस्मात् कृतं तन् न जिगीषया".
ततः क्रोधाऽनिलाऽऽपात- कम्प्राऽऽस्याऽम्भोज-संहतिः
महा-ह्रद इव क्षुभ्यन् कपिमाह स्म रावणः.
"हत-राक्षस-योधस्य विरुग्णोद्यान-शाखिनः
दूतोऽस्मीति ब्रुवाणस्य किं ? दूत-सदृशं तव.
पङ्गु-बाल-स्त्रियो निघ्नन् कबन्ध खर-ताडकाः
तपस्वी यदि काकुत्स्थः, कीदृक् ? कथय पातकी.
अभिमान-फलं जानन् महत्त्वं कथमुक्तवान्
रत्नाऽऽदि-लाभ-शून्य-त्वान् निष्फलं राम-विग्रहम्
पर-स्त्री-भोग-हरणं धर्म एव नराऽशिनाम्,
मुखमस्तीत्यभाषिष्ठाः, का ? मेसाऽऽशङ्कता त्वयि.
ब्रूहि दूर-विभिन्नानामृद्धि-शील-क्रियाऽन्वयैः.
हनूमन् ! कीदृशं ? सख्यं नर-वानर-रक्षसाम्.
एको द्वाभ्यां विराधस् तु जिताभ्याम-विवक्षितः
हतश् छलेन मूढोऽयं, तेना ऽपि तव कः ? स्मयः
मन्-नियोगाच् च मारीचः पलायन-परायणः
युयुत्सा-रहितो रामं ममारा ऽपहरन् वने.
निजघाना ऽन्य-संसक्तं सत्यं रामो लता-मृगम्
त्वमेव ब्रूहि संचिन्त्य, युक्तं तन् महतां यदि.
पुंसा भक्ष्येण बन्धूनामात्मानं रक्षितुं वधः
क्षमिष्यते दशाऽऽस्येन, क्व-त्येयं तव दुर्-मतिः."
कपिर् जगाद-"दूतो ऽहमुपायं तव दर्शने
द्रुम-राक्षस-विध्वंसमकार्षं बुद्धि-पूर्वकम्.
आ-त्रिकूटमकार्षुर् ये त्वत्-का निर्-जङ्गमं जगत्,
दशग्रीव ! कथं ब्रूषे ? तान-वध्याम् मही-पतेः.
अभिमान-फलं प्रोक्तं यत् त्वया राम-विग्रहे,
विनेशुस् तेन शत-शः कुलान्यसुर-रक्षसाम्.
यत् स्व-धर्मम-धर्मं त्वं दुर्-बलं प्रत्यपद्यथाः
रिपौ रामे च निः-शङ्को, नैतत् क्षेमंकरं चिरम्
अन्वयाऽऽदि-विभिन्नानां यथा सख्यमनीप्सितम्
नैषीर्, विरोधमप्येवं सार्धं पुरुष-वानरैः.
विराधं तपसां विघ्नं जघान विजितो यदि
वरो धनुर्-भृतां रामः, स कथं न विवक्षितः ?
प्रणश्यन्नपि ना ऽशक्नोदत्येतुं बाण-गोचरम्
त्वयैवोक्तं महा-मायो मारीचो राम-हस्तिनः.
अन्याऽऽसक्तस्य यद् वीर्यं न त्वं स्मरसि वालिनः
मूर्च्छा-वान् नमतः संध्यां ध्रुवं तद् बाहु-पीडितः.
अ-सद्-बन्धु-विधोपज्ञं विमुञ्च बलि-विग्रहम्,
सीतामर्पय नन्तव्ये कोश-दण्डाऽऽत्म-भूमिभिः."
स्फुट-परुषम-सह्यमित्थमुच्चैः सदसि मरुत्-तनयेन भाष्यमाणः
परिजनमभितो विलोक्य दाहं दश-वदनः प्रदिदेश वानरस्य.
मूल पाठ: Rāvaṇavadha (= Bhaṭṭikāvya) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0